महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय:

महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालय

Maharshi Panini Sanskrit Evam Vedic Vishwavidyalaya

A Public State University under Madhya Pradesh Act No. XV of 2008
Accredited with Grade "A" by NAAC
Dewas Road, Ujjain, Madhya Pradesh (Bharat) – 456010
Accredited with Grade

INTERNAL QUALITY ASSURANCE CELL

Alumni

परिचयः [INTRODUCTION]

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य पूर्वच्छात्राणामयं संघः विगतपञ्चाशत् वर्षेषु अधीतानाम् अधिगतानां छात्राणां समवायार्थं समागमार्थं सहयोग-संयोग-समायोजनार्थं निर्मितः कश्चन प्रयासो वर्तते। प्रयासस्यास्य विश्वासो वर्तते यत् विश्वविद्यालयस्य पूर्वच्छात्राणाम् अयं संघः विश्वविद्यालयस्य भाविपरिकल्पनाभिकल्पनार्थं स्वदायित्वं निर्वक्ष्यति। वयं जानीमः अस्माकं विश्वविद्यालयस्य अध्ययनाध्यापनपरम्पराः, सततविकासपरम्पराश्च। इयम् उपहुतिरिव कथमयं विश्वविद्यालयः स्वीयभविष्यपथम् अनुगच्छेत्। एतदर्थम् अनुभवानां स्थानम् अद्वितीयमिति धिया पूर्वच्छात्राणाम् अयं संघः अभिकल्पितः संस्थापितश्च। नूनम् अस्माकं पूर्वच्छात्राणाम् उपयोग्यनुभवानां कश्चन लाभः विश्वविद्यालयस्य प्रगताभ्युदयार्थम् अपेक्ष्यते एव। यथाशक्यम् अस्माकं पूर्वच्छात्राणां समग्रप्रयासाः अस्माकं विश्वविद्यालयस्य गतिविधीनां सामाजिकस्वीकृतीनां प्रचारप्रसारप्रवृत्तीनां च दृष्ट्या विद्यन्ते एव। गौरवानुभूताः वयं समवेतस्वरेण विश्वविद्यालयेन सम्बद्धानां पूर्वच्छात्राणां दृढसम्बन्धानां विकासाय स्वदायित्वानि निर्वक्ष्यामः। वर्तमानच्छात्राणां मार्गदर्शनमपि अस्माकं कर्तव्यमिति धिया पूर्वच्छात्राणां अयं संघः संस्थापितः। उत्कृष्टसंस्कृतशिक्षायै संस्कृतभाषाप्रचारप्रसाराय च निरन्तरम् उत्तमोत्तमोपायानाम् अन्वेषणम् अस्माकं दायित्वम् । अनेन प्रक्रमेणैव संघोऽयं साफल्यमवाप्स्यति। विश्वविद्यालयेनानेन सम्बद्धतायाः काचित् भावनैव विशिष्टा वर्तते। पारस्परिकसम्बन्धैः समर्थनसहयोगैश्च वयं विश्वविद्यालयस्य नवोत्थानार्थं प्रयतिष्यामहे – इयमेव संघस्यास्य अन्तर्दृष्टिः, इदमेव विशिष्टं लक्ष्यम्।

संघस्य कार्यकारिणी समितिः

अस्य संघस्य मध्यप्रदेशशासनस्य अधिनियमेन (1973) पञ्जीकरणं जातम् (प.क्र. 01/01/01/39507/23)। पञ्जीकरणस्य अनन्तरं मध्यप्रदेशशासननियमानुसारेण कार्यकारिणी समितिः पुनः संरचिता। एतदर्थम् अस्य संघस्य संरचिता नूतना कार्यकारिणी समितिः विश्वविद्यालयप्रशासनस्य मान्यताप्राप्ता वर्तते (पत्राङ्कः File No. CSU/Exam/Alumni/2022-23/1005, दिनाङ्कः 13.03.2023)।

कार्यकारिणी समितिः

  • संरक्षकः -
  • अध्यक्षः -
  • उपाध्यक्षः -
  • कोषाध्यक्षः -
  • सदस्यः -
  • सदस्यः -
  • सहसचिवः -
  • सचिवः -
  • अस्मिन् संघे परिसरीय-पूर्वच्छात्रसंघानां सचिवाः पदेन सदस्यत्वम् अङ्गीकरिष्यन्ति।

सदस्यतायै पञ्जीयनम् [REGISTRATION FOR MEMBERSHIP]

प्रारम्भिकसदस्यतायाः शुल्कं शतरुप्यकाणि इति निर्धारतमस्ति। पूर्वच्छात्रकोषविकासस्य दृष्ट्या अधिकार्थिकसहयोगोऽपि अनुरुन्ध्यते।

सदस्यता-सहयोगराशिसमर्पणार्थम् अधोलिखितविवरणं संसूच्यते-

 

 Bank Account No.    911010210000081
 Account Holder Name    पाणिनि पूर्व छात्र परिषद्
 IFSC Code    BKID00009110
 Bank Name    BANK OF INDIA
 Branch Address    VEDANAGAR

 

कृपया कृतार्थिकसहयोगः अनेन ईमेलमाध्यमेन सूचनीयः।

Email: alumni[at]csu[dot]co[dot]in