महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय:

महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालय

Maharshi Panini Sanskrit Evam Vedic Vishwavidyalaya

A Public State University under Madhya Pradesh Act No. XV of 2008
Accredited with Grade "A" by NAAC
Dewas Road, Ujjain, Madhya Pradesh (Bharat) – 456010
Accredited with Grade

कर्मचारी कॉर्नर

4.1.1 The institution has adequate facilities for teaching- learning. viz., classrooms, laboratories, computing equipment, etc.कक्ष्याप्रकोष्ठः, प्रयोगशाला, सङ्गणकयन्त्रादीनि शिक्षणाधिगमसम्बन्धीनि भौतिकसौविध्यानि संस्थायामुपलभ्यन्ते।

Answer:

  • विश्वविद्यालयोऽयं  भारतीयज्ञानशाखानामध्ययनमध्यापनम्,गवेषणम्, प्रकाशनमित्येतैः मुख्यैः कार्यैः अग्रेसरो वर्तते। विश्वविद्यालयस्य  पञ्चवटीति स्थाने  प्राशासनिकानि,  परीक्षासम्बन्धीनि च कार्याणि प्रवर्तन्ते। छात्राणां जिज्ञासोपशमनाय ग्रन्थालयो वर्तते। भवनेषु जलव्यवस्था, शौचालयव्यवस्था, पर्याप्तप्रकोष्ठाः, वातायनानि च सन्ति। दिव्याङ्गानां कृते अपेक्षिता व्यवस्थापि कल्पिता वर्तते। विश्वविद्यालये पुरुषाणां महिलानाञ्च कृते सुविधाकक्षस्यापि व्यवस्था पृथक्पृथक् वर्तते। व्यायामेन स्वास्थ्यं रक्ष्यते। अपेक्षिताभिः सामग्रीभिः उपेता व्यायामशाला छात्राणां शारीरिकसौख्यवर्धनाय स्थापितास्ति। सुखासनयुक्ताः कक्ष्याप्रकोष्ठाः छात्रप्रियाः वर्तन्ते।
  •  Covid 19 विषमपरिस्थित्यां नूतनाः तन्त्रागमाः उपक्रान्ताः अभूवन्। अध्यापने अधिगमे च नवीनानि विधानानि अलभन्त। सद्यस्कमाध्यमेन अध्यापनविधिः लोकप्रियतामाप्नोत्। विश्वविद्यालयः चतुरस्रैः सम्भारैः समेतः सन् पुनःप्रतिष्ठायै पदं निदधाति। शिक्षानुसन्धानक्षेत्रे कालानुगुणं तन्त्रोपकरणैः अलङ्क्रियमाणो वर्तेते। किञ्च प्राचीननवीनयोः भारतीयशैक्षिकपरिपाट्योः सम्बन्धसेतुश्च वर्तते। कक्ष्याप्रकोष्ठाः विद्यार्थिनां सुखाय सन्ति। कृष्णफलकानि, श्वेतफलकानि, व्यजनानि, विद्युद्दीपाः, गवाक्षाः इत्येतैः उपकरणैः समुपेताः वर्तन्ते। कक्ष्याप्रकोष्ठेष्वनुकूलः वायुः, प्रकाशः च छात्रान् समाकर्षति सानन्दाधिगमे प्रेरयति च। अनिवार्यविषयककक्ष्याणां वैकल्पिकविषयककक्ष्याणां च यथापेक्ष-परिमाणेन प्रकोष्ठाः निर्मिताः सन्ति। प्रतिदिनं स्थलशुद्धिः अपरिहार्यं कार्यं कर्मचारिभिः क्रियते। एतद्व्यवस्थया सङ्गोष्ठी, अन्तर्जालसङ्गोष्ठी, सम्मेलनमुपवेशनमित्यादीनां क्रियाकलापानामायोजनाय आनुकूल्यं कल्पितं वर्तते। एतदर्थं विश्वविद्यालयस्य श्रीकृष्णयोगभवनमिति सभागारो वर्तते। 
  • अत्र  अनेकधा सांस्कृतिक-कार्यक्रमाः सञ्चाल्यन्ते। अपि च विश्वविद्यालयस्य राष्ट्रीयोत्सवः, युवमहोत्सवः इत्यादयः लोकप्रसिद्धाः उत्सवाः अस्यां वेदिकायां वर्तन्ते। विश्वविद्यालयस्य ग्रन्थालयः ई-ग्रन्थालयेन समन्वितो वर्तते। सुप्रचलितटीकायुक्तशास्त्रैः सुव्यवस्थितःसुसज्जितो ग्रन्थालयः  पठनशीलछात्रान् अध्येतुमाकर्षति। विश्वविद्यालये विभागशः अपि ग्रन्थानां समारोपणं विद्यते। ग्रन्थान्वेषणे छात्राणां सौकर्यं भवति। ग्रन्थालयेषु पुस्तकानि, मातृकाः च यथाविधि रक्षिताः सन्ति। छात्राणामध्यापकानाम्, कर्मचारिणां च पुस्तकप्राप्तौ ग्रन्थालये सरलावसरः कल्पितो वर्तते। अत्र गूढचारचक्षूंषि (CCTV) संयोजितानि। तेन दक्षता संवर्धिता। तेन उच्चाधिकारिणः कक्षे स्थित्वैव कार्यालयकार्याणि दृष्टुं शक्नुवन्ति। अतः छात्राः जागरूकतां वहन्ति। शोधच्छात्राणां पृथक्तया प्रकोष्ठव्यवस्था वर्तते। विश्वविद्यालयद्वारा प्रकल्पितानि सङ्गणकयन्त्रम्, Wi-Fi, मुद्रणयन्त्रम् च तेषाम् अनुसन्धानकर्मणि गुणोत्कर्षमाधातुं सहकारीणि भवन्ति। कार्यालयः उत्कृष्टोपकरणानि उत्पीठिकादीनि, सङ्गणकयन्त्राणि, मुद्रणयन्त्रम्, अन्तर्जालव्यवस्था, प्रतिकृतियन्त्रम् (Xerox Machine) इत्यादिना सौकर्येण समन्वितो वर्तते। विश्वविद्यालयस्य  प्रकल्पितानि क्रीडाङ्गणमन्तर्देवशाला,  पङ्क्तिबद्धवृक्षारोपणम् इत्यादीनि सौकर्याणि अध्येतॄणां कृते गेहप्रीतिं जनयन्ति।
  • पठनपाठनविषये विश्वविद्यालये विद्यमानानि पर्याप्तसौविध्यानियथा कक्ष्याःप्रयोगशालाः सङ्गणकसामग्र्यादीनां क्रमशःविवरणम्  ।

प्रतिक्रिया-

  • विश्वविद्यालयः अत्याधुनिकसौविध्ययुक्ताध्ययनाध्यापनविषयकवस्तुभिः पर्याप्तसौविध्यसंयुक्तः परिकल्पितः। छात्रेभ्यः अध्यापकेभ्यश्च कक्ष्याः, प्रयोगशालाः सङ्गणकसामग्री इत्यादीनि अवसररचनासंयुतानि तेषां शोधकार्यार्थञ्च उपलभ्यन्ते।। विश्वविद्यालयस्य नूतनभवने नूतनविभागाः नूतनतन्त्रांशवैज्ञानिकोपकरणसौविध्यसंयुक्ताः निर्मिताः। सम्पूर्णविश्वविद्यालयः उज्जयिनीनगरभूप्रदेशे क्रीडाक्षेत्रसंयुतं  पञ्चवटीपरिसर इत्यादिभिः  त्रिभवनसंयुतं  विद्यते। समग्रविश्वविद्यालयपरिसरः10 हेक्टेयर-भूभागे च विराजते।

नूतनभवनानि-शैक्षणिक/शोध क्रीडा-योगः/ छात्रावासः-

  • विगतपञ्चवर्षे विशेषतः संस्कृतद्वारा शास्त्राणामध्ययनाध्यापनार्थं वेदव्याकरणज्योतिषज्योतिर्विज्ञानादिविभागानां कृते भवननिर्माणमभवत्। विश्वविद्यालयस्थानानां सर्वविभागानां कृते ग्रन्थालयः, बहूपयोगी सभागारः, मनोरञ्जनकेन्द्रमत्याधुनिकावसंरचनासंयुतभवननिर्माणं चाभवत्।  सुव्यवस्थितचलसामग्रीणां व्यवस्था परिकल्पिता वर्तते।

कक्षाः -

  • विश्वविद्यालयस्य निखिलभवनेषु प्रकोष्ठानां परिगणनायां सत्यां (36) कक्षाः सन्ति तेषु एकः कक्षः सङ्गणकप्रयोगशालायाः कृते,  एकः मनोविज्ञानप्रयोगशालायाः कृते, त्रयोदशकक्षाः अत्याधुनिककक्षायाः कृते, इत्यादिरूपेण सुसज्जिताः सन्ति।

सभागारः-

  • सांस्कृतिककार्यक्रमाणां सौष्ठवेन सम्पादनार्थं विश्वविद्यालये योगेश्वरश्रीकृष्णभवनं नाम सभागारो विद्यते ।

सभामञ्चस्य सौविध्यम्-

  • सभामञ्च: सर्वविधः अवसंरचनासंयुक्तः, सांस्कृतिककार्यक्रमार्थमपि तथा सामाजिककार्यार्थमपि उपयोगी अस्ति। छात्राणामध्यापकानां सामाजिकानां च सर्वविधसंवर्धनकार्यस्योपयोगाय भवति।

पी ए प्रणाली सौविध्यम्-

  • पी ए प्रणाली सौविध्यमत्र आवश्यकैः अन्यसौविध्यैः युक्तः दृश्यश्रव्यमाध्यमयुक्तः LCD अन्तर्जालसम्पर्कः, ध्वनिवर्धकादियुक्तः च अस्ति। अपि च सर्वविधा अवसंरचनायुक्तः सांस्कृतिककार्यक्रमार्थमपि तथा सामाजिककार्यार्थमपि उपयोग्यः अस्ति। छात्राणामध्यापकानां सामाजिकानां च सर्वविधसंवर्धनकार्यस्य उपयोगः भविष्यति ।

मुक्तविस्तारसभागृहम् -

1.विश्वविद्यालये मुक्तविस्तारसभागृहं सौविध्येन संयुक्तः अस्ति। इदं छात्राणाम् अध्यापकानां कृते सांस्कृतिककार्यक्रमाणां मञ्चनार्थम्, अध्ययनोत्कर्षसम्बन्धार्थं चर्चा सङ्गोष्ठ्यादीनां प्रचलनार्थम् उपयोगाय प्रकल्पितं वर्तते ।

विश्वविद्यालये विद्यमानानि अन्यसौविध्यानि-

  • सामान्यप्रतिदानेनैव छात्रावासीयव्यवस्था ।
  • बहिस्थछात्राभ्यः आवासव्यवस्था ।
  • CCTV, 1 GBPS अन्तर्जालसौविध्यं वैद्यकीयसौविध्यं च महिलाछात्राणामभिवृद्ध्यर्थं निर्मिता।

2. भोजनकक्षः -

  • कर्मकरेभ्यः अतिथिभ्यश्च सौविध्यार्थम् अयं प्रकल्पितः।

3जलपानपेयगृहम् -

  • कर्मकरेभ्यः अतिथिभ्यश्च सुविधाजनकम्  इदं जलपानगृहं कल्पितम्।

प्रयोगशालाः

1. मनोविज्ञानप्रयोगशाला-

मनोविज्ञानप्रयोगशाला सकलसौविध्येन छात्राणां मानसिकसामाजिकस्थैर्यसंवर्धनाय कार्यरता अस्ति। मनोविज्ञानं भिन्नभिन्नस्तरे क्षेत्रे च शोधार्थिभ्यः सहायकं भवति ।

सूचना-संप्रेषणप्रौद्यौगिकावसंरचना-सौविध्यानि-

  1. अस्य उद्देश्यम् अस्ति यत् सूचनासंप्रेषणप्रौद्यौगिकस्य सुचारुरूपतया विश्वव्यापकत्वेन च प्रसारणम्, अनेनान्तर्जालः तथा जालपटस्य सौविध्यप्रकल्पनद्वारा पाठने शोधकार्ये च साहाय्यं विधातुं वर्तते । अनेन ई-पुस्तकम्, ई- पत्रिकाः इत्यादिनां सुलभतया प्राप्तुं ई-अध्ययनार्थं कौशलविकासार्थम्, उद्योगान्वेशणप्राप्त्यर्थं च सहायकं भवति। अनेनाधुना कालेन स्फूर्थ -कक्षार्थमपि सहायी भवति।

 

File DescriptionDocument
Any additional information अतिरिक्तसूचनानां सन्धानम् View Document
Link for additional information अतिरिक्ताः सूचनाः View Document

 

4.1.2 The institution has adequate facilities for1. Seminar/ Conference Hall with infrastructural facilities2. Auditorium for cultural activities3. Laboratory for Functional Sanskrit4. Yajnashala5. Observatory6. Language Laboratory7. Psychology Laboratory8. Meditation Centre9. Sports, games (indoor, outdoor, gymnasium, etc)10. Artifacts Museum Ancient Arts/ Objects’ Museum11. Heritage Museum12. Manuscript Resource Centre (MRC)13. Manuscript Conservation Centre(MCC)14. Recording Studio/ e-P.G.Pathshala Facilities15. Yoga Training and or Therapy Centre with modern equipments16. Liasion with Bharat Vani Portal17. Sanskrit-Science/ Agama Exhibition Facilitiesसंस्थायाम् अधोनिर्दिष्टानि सौविध्यानि पर्याप्तानि सन्ति।1. मूलसौविध्ययुतं सङ्गोष्ठीभवनम्2. सांस्कृतिकादिकार्यक्रमाणां कृते सभागृहम्3. प्रायोगिकसंस्कृतप्रकोष्ठः।4. यज्ञशाला।5. वेधशाला।6. भाषाप्रयोगशाला।7. मनोविज्ञान-प्रयोगशाला।8. ध्यानकेन्द्रम्।9. क्रीडासौविध्यानि (अन्तर्द्वार-बहिर्द्वार-देहदार्ढ्यादिकम्)10. कलाकृतिसङ्ग्रहालयः। (प्राचीनकलानां/ वस्तूनां सङ्ग्रहालयः)11. प्राचीनशिल्पकलासङ्ग्रहालयः12. पाण्डुलिपिसंसाधनकेन्द्रम् (एम्.आर्.सि.)13. पाण्डुलिपिसंरक्षणकेन्द्रम् (एम्.सि.सि.)14. ध्वनिमुद्रणालयः/ इ-पी.जी-पाठशालासुविधाः।15. योगशिक्षणकेन्द्रम्/ आधुनिकोपकरणयुक्तं योगचिकित्साकेन्द्रञ्च।16. भारतवाणीपोर्टल् इत्यनेन सहयोगः।17. संस्कृतविज्ञान-आगमप्रदर्शनसुविधाः।

Answer:

  • विश्वविद्यालये संस्कृतस्य /शास्त्राणाम् अध्ययनाय अध्यापनाय च सन्ति बहव्यः सुविधाः। पाठ्यसहगामिक्रियाणां निष्पत्तये च सौविध्यानि वर्तन्ते।
  1. मूलसौविध्ययुतं सङ्गोष्ठीभवनम्-
  • विश्वविद्यालये पाणिनिकक्ष इति नाम्नी सङ्गोष्ठीशाला वर्तते।
  • सङ्गोष्ठीशालायां प्रक्षेपकः (प्रोजेक्टर्), पटलः (स्क्रीन्) च समवेतो वर्तते। सुखासनैः अलङ्कृता वेदिका, अलङ्कृताः उत्पीठिकाः, सुप्रसारीध्वनिवर्धकः, उत्तमानि श्रव्यसाधनानि च सङ्गोष्ठीशालायां वर्तन्ते।
  1. सांस्कृतिकादिकार्यक्रमाणां कृते सभागृहम्-
  • विश्वविद्यालये योगेश्वरश्रीकृष्णयोगभवनं नामधेयं सभागृहं भारतीयानां सांस्कृतिकतत्त्वानां विषये प्रेरणादानार्थं विश्वविद्यालयस्य विशिष्टं सभागृहं वर्तते। उत्कृष्टानि श्रव्यसाधनानि, दृश्यसाधनानि, Ultrasound उत्तमध्वनिव्यवस्था, बहुवर्णकाः विद्युद्दीपाः, सुखासनानि, अलङ्कृतवेदिका च सन्ति।
  • सङ्गोष्ठीशालायां वातनियन्त्रकं योजितं वर्तते।
  • स्त्रीणां पुरुषाणां च प्रत्येकं सुविधाप्रकोष्ठाः सन्ति।
  • छात्रैः सांस्कृतिककार्यक्रमान् साधुतया प्रस्तोतुं योग्येयं शाला बहूनां कार्यक्रमाणां स्थानं वर्तते।  युवमहोत्सवः, दीक्षान्तसमारोह इत्यादयः कार्यक्रमाः अस्याम् शालायां आयोज्यन्ते।
  1. प्रायोगिकसंस्कृतप्रकोष्ठ-
  •  विश्वविद्यालये प्रायोगिकसंस्कृतप्रकोष्ठः प्रवर्तन्ते। तत्र इमानि विशेषाधानहेतूनि संसाधनानि सन्ति।
  •   सङ्गणकयन्त्राणि
  •   दृश्यसाधनानि
  •   श्रव्यसाधनानि
  •   सुखासनानि
  • वैद्युतीयफलकम्
  •  Wi-Fi
  1.  यज्ञशाला-
  • शैक्षिकसत्रस्य आरम्भावसरे, विशिष्टेषु पर्वसु च याज्ञिककार्यस्य अनुष्ठानाय यज्ञशाला अपेक्ष्यते।
  • निर्विघ्नतया सत्राणां सञ्चालनाय भगवतः आराधना कर्तव्येति समुदाचारः।
  • विश्वविद्यालये यज्ञशाला वर्तते। यज्ञशालायां यज्ञवेदी, पूजास्थलम्, पूजासामग्री च समासादिता वर्तते।
  • लब्धप्रवेशैः छात्रैः तत्सम्बन्धिपाठ्यक्रमेषु याज्ञिकप्रक्रियायाः प्रायोगिकपक्षं ज्ञातुम् अवसरः कल्पितो वर्तते।
  1. मनोविज्ञानप्रयोगशाला-

मनोवैज्ञानिकाः प्रयोगाः अस्यां शालायां क्रियन्ते। बी.ए.बी.एड. शिक्षाशास्त्रिपाठ्यक्रमे अध्ययनांशत्त्वेन एते प्रयोगाः निर्दिष्टाः सन्ति। अत्र प्रायोगिकपरीक्षा क्रियते। छात्रेभ्यः तदाधारेण अङ्काः दीयन्ते। इयं शाला विविधैः प्रयोगोपकरणैः समुपेता वर्तते।

  •  अवधानविस्तृतिमापनोपकरणम् (Techistoscope)
  •  दर्पणरेखाचित्रोपकरणम् (Mirror drawing apparatus)
  •  प्रासङ्गिक-अन्तर्बोधपरीक्षणम् (Thematic Apperception Test (TAT))
  •  रोषामषीचिह्नपरीक्षा (Rorschach test) बुद्धिपरीक्षणम् (Intelligence test)
  •  व्यक्तित्वपरीक्षणम् (Personality test) इत्यादयः प्रयोगाः अत्र प्रवर्तन्ते।

सूचना-सम्पर्कप्रौद्योगिकीप्रयोगशाला -

डिश्, पटलः, चित्रप्रक्षेपकः, अभ्युन्नतप्रक्षेपकः, सङ्गीतोपकरणम्, सिडीप्रवर्तकम्, दूरदर्शनम्, इत्याद्यैः उपकरणैः समुपेता सूचनासम्पर्कप्रौद्योगिकीप्रयोगशाला वर्तते।

  1.  क्रीडासौविध्यानि (अन्तर्द्वार-बहिर्द्वार-देहदार्ढ्यादिकम्) -

विश्वविधालये क्रीडाङ्गणं वर्तते। क्रीडाङ्गणे क्षेपणम्, धावनम्, कूर्दनम्, खोखो, कबड्डी, क्रिकेट्, वाल्लिबाल् इत्यादीनां क्रीडाणां क्रीडनाय व्यवस्था वर्तते। छात्राणां क्रीडार्थम् अपेक्षितानि उपकरणानि प्रकल्पितानि। तानि स्थानीय-राज्यस्तरीय-राष्ट्रस्तरीयस्पर्धार्थं सिद्धताः कर्तुं सौविध्यानि साहाय्यम् आचरन्ति।

  1.  पाण्डुलिपिसंरक्षणकेन्द्रम् –
  2. ये वर्तते। बहवो मातृकाः तत्र संरक्षिताः सन्ति।
  3. ध्वनिमुद्रणालयकेन्द्रम्-

विश्वविद्यालये ध्वनिमुद्रणालयकेन्द्रमपि वर्तते।

  1. योगशिक्षणकेन्द्रम् –
  • विश्ववद्यालये योगशिक्षणस्य सौकर्यं कल्पितं वर्तते।
  • प्रातः सायं च छात्राः परिसरसदस्याश्च योगशिक्षणाय प्रोत्साह्यन्ते।
  1. भारतवाणीसंसाधनसहयोगकेन्द्रम्-

विश्वविद्यालये भारतवाणीसंसाधनसहयोगः विद्यते।

  1.  संस्कृतविज्ञान-आगमप्रदर्शनसुविधाकेन्द्रम्-

विश्वविद्यालये विद्यते।

 

File DescriptionDocument
Videos and photographs (geotagged) स्थलनिर्देशनसहितानि चित्राणि/चित्राङ्कणम् View Document
Any additional Information अतिरिक्ताः सूचनाः View Document

 

4.1.3 The institution has adequate facilities like health centre, bank, ATM, post office, theatre, women centre, counseling centre and cultural activities centre etc.संस्थायाम् आरोग्यकेन्द्रं, वित्तकोशः, स्वयंचालितधनदयन्त्रम्, पत्रालयः, रङ्गमण्डपः, महिलाकेन्द्रम्, परामर्शकेन्द्रम् सांस्कृतिककार्यक्रमकेन्द्रम् इत्यादीनि पर्याप्तरूपेण उपलभ्यन्ते।

Answer:

  • - विश्वविद्यालये कार्यरतानां शिक्षकाणां कर्मचारिणां, छात्राणां च स्वास्थ्यसंरक्षणाय आरोग्यकनेद्रं स्थापितं विद्यते। यत्र चिकित्सकः स्वास्थलाभाय चिकित्सां करोति। उत्तमस्वास्थ्यरक्षणोपायान् च उपदिशति।
  • स्वयंचालितधनदयन्त्रम्- विश्वविद्यालयमति निकषा स्वयं चालितधनदयन्त्रं स्थापितं विद्यते। विश्वविद्यालयीयच्छात्राणां सौविध्याय विश्विद्यालयद्वारा आनलाइनविधिना अर्थविनिमयस्य व्यवस्था वेवसाइटमध्ये लिंक प्रदाय कृता वर्तते।
  • महिलाकेन्द्रम्- विश्वविद्यालये अध्ययनरतानां महिलाछात्राणां, महिलाप्राध्यापकानां कर्मचारिणां च सौविध्याय समस्या समाधानाय महिलाकेन्द्रं स्थापितं विद्यते। यत्र महिलानां स्वास्थ्यसौविध्यादि-आवश्यकतानुणं सर्वाः व्यवस्थाः कृताः सन्ति।
  • परामर्शकेन्द्रम्- विश्विद्यालये योगविभागद्वारा योगपरामर्शकेन्द्रं स्थापितं विद्यते। यत्र विभागीयाः शिक्षकाः सामाजिकान् परामर्शकेन्द्रे योगस्य महत्त्वं स्वास्थ्यरक्षणाय योगस्य उपयोगः, निरन्तरं स्वास्थ्यसंवर्धनाय च योगस्याचरणादिकं परामृशन्ति।
  • सांस्कृतिककार्यक्रमकेन्द्रम्- विश्वविद्यालये अध्ययनसूची छात्राणां रचनात्मकाभिनयात्मकवाक्कलादिकौशलवृद्धये सांस्कृतिककार्यक्रमकेन्द्रमिति स्थापितं विद्यते। अत्र छात्राः स्वस्वरुच्यानुसारं कार्यक्रमेषु भागं गृहीत्वा कौशलं वर्धयन्ति।

विश्वविद्यालये  योगविभागेन योगपरामर्शकेन्द्रमपि चाल्यते यत्र योगेन रोगाणाम् उपचारः क्रियते। प्राकृतिकोपचारेण च ब्याधयः उपचार्यन्ते। तत्र विश्वविद्यालयस्य छात्रान् भिक्षकाः कर्मचारिणश्च लाभं गृह्णन्ति। बहिष्ठादपि जनाः आगच्छन्ति लाभं च प्राप्नुवन्ति।

 

File DescriptionDocument
Any additional information View Document
link for additional information View Document

 

4.1.4 Percentage of classrooms and seminar halls with ICT - enabled facilities such as smart class, LMS (Learning Management System), etc. (preceeding academic year data)सूचनासंप्रेषणप्रविधf-स्फूर्तकक्ष्या-अधिगमप्रबन्धप्रणालीप्रभृतिभिः उपोद्बलितकक्ष्याणां, सङ्गोष्ठीकक्ष्याणां च प्रतिशतता। (गताध्ययनवर्षस्य दत्तांशः)

Answer: 53.33

4.1.4.1 Number of classrooms and seminar halls with ICT facilitiesउपोद्बलितकक्ष्याणां, सड्गोष्ठीकक्ष्याणां च सङ्ख्या।

Answer: 16

4.1.4.2 Total number of classrooms and seminar hallsकक्ष्याणां सङ्गोष्ठीकक्ष्याणां सङ्ख्या

Answer: 30

File DescriptionDocument
Number of classrooms and seminar halls with ICT enabled facilities (Data Template) • सूचनासंप्रेषणप्रविध्या स्फूर्तकक्ष्या-अधिगमप्रबन्धप्रणालीप्रभृतिभिः उपोद्बलितकक्ष्याणां, सड्गोष्ठीकक्ष्याणां च सङ्ख्या (दत्तांशप्रारूपम्) View Document
Any additional information अतिरिक्ताः सूचनाः View Document
Provide link for additional information, (Hyper linked video)• अतिरिक्तसूचनानां सन्धानम् (परिसन्धितचलनचित्राणि) View Document

 

4.1.5 Average percentage of expenditure, excluding salary for infrastructure augmentation during the last five years (INR in Lakhs)विगतेषु पञ्चसु वर्षेषु वेतनाद् ऋते मूलभूतसौविध्यसंवर्धनाय कृतस्य व्ययस्य प्रतिशततायाः साधरणमानम् (लक्षशः)

Answer: 2.53

4.1.5.1 Expenditure for infrastructure augmentation, excluding salary year-wise during the last five years (INR in lakhs)विगतेषु पञ्चसु वर्षेषु वेतनं विहाय मूलभूतसौविध्यसंवर्धनाय कृतः व्ययः वार्षिकक्रमेण। (लक्षशः)

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
1.70 1.74 2.67 3.97 5.25

 

File DescriptionDocument
Upload Details of budget allocation, excluding salary during the last five years View Document
Upload audited utilization statements आयव्ययलेख-धनोपयोगपत्राणि View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

Other Upload Files
1 View Document

4.2.1 Library is automated using Integrated Library Management System (ILMS)ग्रन्थालयः पूर्णरूपेण स्वयंप्रवृत्तः यत्र समन्वितग्रन्थालय-प्रबन्धनप्रणाली उपयुज्यते।

Answer:

  • विश्वविद्यालयीये ग्रन्थालये समन्वितग्रन्थालयप्रबन्धनप्रणाल्याः तन्त्रांशः उपयुज्यते। तत्र विश्वविद्यालयस्य ‘ई-ग्रन्थालयः आवृत्त्या संयुक्तो वर्तते। पूर्वं ई-ग्रन्थालयः 0.4 आवृत्तिः उपयुज्यते स्म। ई-ग्रन्थालयः भारतसर्वकारस्य एलेक्ट्रानिक् एवं सूचना प्रौद्योगिकी मन्त्रालयः इत्यनेन विकसितः सन् निरूह्यमाणो वर्तते। असौ सर्वकारीयग्रन्थालयानां यान्त्रीकृतव्यवस्था भवति। अस्यां वेदिकायां राष्ट्रियसूचनाकेन्द्रम् (NIC) डिजिटल् मापकाङ्केन सह ग्रन्थालयप्रबन्धनतन्त्रांशस्य कार्यप्रणालीं निर्वहति। असौ प्रत्येकस्थानदः तन्त्रांशः, कार्यनिर्वाहाय सिद्धः तन्त्रांशः वर्तते। अयं PostgreSQL तन्त्रं स्वीकृत्य कार्यं कर्तुं क्षमतां धत्ते। सद्यस्कतया दत्तांशानाम् उपारोपणम् अत्र सुशकं भवति। आरोपितायां ग्रन्थावल्यां ग्रन्थानाम् अन्वेषणे सौविध्यं वर्तते। ई-ग्रन्थालये सरलेन विधानेन स्वाभीष्टं ग्रन्थम् अन्वेष्टुम् शक्नोति। तदर्थं  ग्रन्थालयेषु एकैकम् OPAC यन्त्रं संयोजितं वर्तते। किञ्च NICSI आवलिनिर्मितिगुणोपेतं वर्तते। अस्मिन् ग्रन्थालये छात्राः, शोधच्छात्राः, अध्यापकाः, उद्योगिनः अन्ये च विश्वविद्यालयस्य सदस्याः सुलभतया प्रवेशं प्राप्तुं शक्नुवन्ति। इच्छुकाः बाह्या अपि  विशेषानुमत्या प्रवेशं लब्धुं शक्नुवन्ति। Cloud आवृत्त्या समन्वितस्य ‘ई-ग्रन्थालयस्य लक्षणानि एवं सन्ति-

1. सद्यस्कं सार्वजनिकोपयुक्तं केटलाग् (OPAC)

1. सुलभतया अन्वेषणसौकर्यम् – ग्रन्थनाम, अनुपलब्धपुस्तकान्वेषणम्, सन्दायिपञ्जिका इत्यादि।

2. पाठकानां कृते ई मेल् तथा सन्देशद्वारा सूचनादानम्

3. विविधसूचीनिर्माणम्- लेखकानुसारं विषयानुसारं च कवाटिकासूची, ग्रन्थसूची प्राचीनतन्त्रांशगतानां दत्तांशानां नवीनतन्त्रांशे समारोपणकारणात् विश्वविद्यालयस्य समयसाध्यस्य स्वयंचलितग्रन्थालयस्य आंशिकरूपेण कार्यं सम्पन्नं वर्तते।

विश्वविद्यालयस्य ग्रन्थालयाः अधोनिर्दिष्ट-आचरणाय समन्वितग्रन्थालयप्रबन्धनतन्त्राशम् (ILMS) उपयुज्यते।

1. तन्त्रांशे शीर्षकाणां सूचीनिर्माणम्

2. तन्त्रांशे शीर्षकाणां प्रतीनां सूचीनिर्माणम्

3. पुस्तकानां वितरणस्य विवरणम् (पुस्तकानां निर्गमः तथा स्वीकृतिः)

4.OPAC माध्यमेन कैटलॉग- अन्वेषणे उपयोक्तृणां कृते मुक्तावसरप्रदानम्।  

 

File DescriptionDocument
Any additional information अतिरिक्ताः सूचनाः View Document
link for additional information अतिरिक्तसूचनानां सन्धानम्। View Document

 

4.2.2 Collection of rare books, manuscripts, special reports or any other knowledge resource for library enrichmentग्रन्थालयसंवर्धनार्थं विरलपुस्तकानां, पाण्डुलिपीनां, विशिष्टप्रतिवेदनानाम्, अन्यान्यशैक्षिकसंसाधनानां च संग्रहः।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्यास्य ग्रन्थालये विरलपुस्तकानाम्, पाण्डुलिपीनाम्, विशिष्टप्रतिवेदनानाम्, अन्यान्यशैक्षिकसंसाधनानां च  सङ्ग्रहः वर्तते। संस्कृत/शास्त्रसम्बद्धाः ग्रन्थाः विरलोपलभ्याः, पाण्डुलिपिनिष्ठाः च सन्ति। विश्वविद्यालयस्य पुस्तकालये वेदः,व्याकरणम्, ज्योतिषम्, न्यायः, अद्वैतवेदान्तः, सांख्यम्, मीमांसा,पुराणम्,  रामायणम्, धर्मशास्त्रम्, महाभारतम्, तन्त्रम्, उपनिषदः, संहिता, शिक्षाशास्त्रम्, आङ्ग्लम्, हिन्दी इत्यादिविषयकानि 5800 तः अधिकानि मुद्रितपुस्तकानि सङ्गृहीतानि सन्ति। शिक्षा, सङ्गणकविज्ञानम्, मानविकीशास्त्रम्, सामाजिकविज्ञानम्, हिन्दी, आङ्ग्लम् इत्यादिवषयकानि पुस्तकानि अपि वर्तन्ते। विशिष्टाः पत्रिकाः, सामान्याः पत्रिकाः, शोधप्रबन्धाः च सङ्गृहीताः सन्ति। साप्ताहिकी, मासिकी, त्रैमासिकी, अर्धवार्षिकी वार्षिकी च पत्रिकाः बहुसंख्यायां सन्ति।

विवरणमधस्तनं विद्यते-

  • विरलपाण्डुलिपयः- 10
  • मुद्रितपुस्तकानि-5800
  • ई-पुस्तकानि- 24
  • शोधच्छात्राणां शोधप्रबन्धाः-50
  • अत्यन्तं दुर्लभानि पुस्तकानि-70
  • पत्रिकाः-11
  • वार्तापत्रिका-05

पुस्तकालये एका विशिष्टा योजना कृता वर्तते। साऽस्ति पुस्तकदानस्य । अनया योजनया नैके जनाः शताधिकानि पुस्तकानि  दानं कृतवन्तः तेन छात्राणां कृते अन्येषां च पाठकानां कृते अध्ययने सौकर्यं जातम्। विश्वविद्यालयस्य पुस्तकालयः आधुनिकसुविधाभिः सह संयुक्तः सन् सर्वसौविध्ययुक्ततां प्रति अग्रेसरो वर्तते।

 

File DescriptionDocument
Any additional information अतिरिक्ताः सूचनाः View Document
link for additional information अतिरिक्तसूचनानां सन्धानम् View Document

 

4.2.3 Does the Institution/ Library have the following:1. Back Volumes of Rare Sanskrit Journals/Indological Journals/ Journals Related to Sanskrit Studies like Indian Historical Quarterly (IHQ)/ Annals of Bhandarkar Oriental Research Institute (ABORI)/ Brahmavidya/Sarasvati-sushama etc2. Sanskrit magazines and Sanskrit Periodicals3. e-journals4. e-books5. e-dictionaries of Sanskrit6. Sanskrit Databases7. Bharatavani Portal8. CD’s/DVD’s/other e-materials for the study of Vedas9. Electronic Display Board10. Internet/ Wifi Facility11. Search Facility12. Reprographic facilityग्रन्थालये अधोदर्शितानि कियन्ति सन्ति ?1. संस्कृतपत्रिकाणां/ भारतीयविद्यापत्रिकाणां प्राचीनसम्पुटानि/ संस्कृतविद्यासम्बद्धपत्रिकाः यथा – भारतीयेतिहासत्रैमासिकी/ भण्डारकरप्राच्यविद्यापत्रिका/ ब्रह्मविद्या/ सारस्वतीसुषमाप्रभृतयः2. संस्कृतपत्रिकाः नियतकालिकसंस्कृतपत्रिकाश्च3. वैद्युतपत्रिकाः4. वैद्युतग्रन्थाः5. वैद्युताः संस्कृतभाषाकोषाः6. वैद्युतदत्तांशनिधिः7. भारतवाणीसंसाधनानि8. वेदग्रन्थानां पाठनाय ध्वनिमुद्रिकाः सान्द्रमुद्रिकाः अन्याश्च9. वैद्युतं प्रदर्शनफलकम्10. अन्तर्जाल/निस्तन्त्रिजालसौविध्यम्11. सङ्गणकीयगवेषणसौविध्यम्12. छायाप्रतिसौविध्यम्

Answer: A. Any 4 of the above (अ. उपरि निर्दिष्टेषु यानि कानिचित् चत्वारि)

File DescriptionDocument
Details of subscriptions like e-journals, e-ShodhSindhu, Shodhganga Membership etc (Data Template)• वैद्युतपत्रिकाः, वैद्युतशोधसिन्धुः, शोधगङ्गासदस्यता, वैद्युतग्रन्थाः इत्यादीनां धनांशदानस्य विवरणम्। (दत्तांशप्रारूपम्) View Document
Any additional information View Document

 

Other Upload Files
1 View Document

 

4.2.4 Average annual expenditure for purchase of books and journals during the last five years (INR in Lakhs)पुस्तकानां पत्रिकाणां च क्रयणाय विगतपञ्चवर्षेषु व्ययितस्य धनस्य वार्षिकं मध्यमानम्। (लक्षशः)

Answer: 1.04

4.2.4.1 Annual expenditure for purchase of books and journals year-wise during the last five years (INR in lakhs)पुस्तकानां पत्रिकाणां च क्रयणाय विगतपञ्चवर्षेषु व्ययितस्य धनस्य वार्षिकव्ययः (लक्षशः)

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
0.37 0.26 0.17 4.38 00

 

File DescriptionDocument
Details of annual expenditure for purchase of books and journals during the last five years (Data Template) पुस्तकानां पत्रिकाणां च क्रयणाय विगतपञ्चवर्षेषु व्ययितस्य धनस्य विवरणम्। (दत्तांशप्रारूपम्) View Document
Audited statements of accounts अङ्केक्षणविवरणम् View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

4.2.5 Availability of remote access to e-resources of the library(Yes /No)ग्रन्थालयस्य वैद्युतसंसाधनानां सुदूरसन्धानम् अस्ति वा ?(अस्ति/नास्ति)

Answer: Yes

File DescriptionDocument
Details of remote access to e-resources of the library (Data Template) ग्रन्थालयस्य वैद्युतसंसाधनानां दूरतः सन्धानस्य विवरणम्। (दत्तांशप्रारूपम्) View Document
Any additional information अतिरिक्ताः सूचनाः। View Document
Provide a link of the data uploaded in the institutions website संस्थायाः जालस्थानाम् उपारोपितस्य दत्तांशस्य सन्धानं प्रयच्छतु। View Document

 

4.2.6 Percentage per day usage of library by teachers and students (preceeding academic year data)अध्यापकैः छात्रैश्च प्रतिदिनं ग्रन्थालयोपयोगस्य प्रतिशतता (गताध्ययनवर्षस्य दत्तांशः)

Answer: 25.1

4.2.6.1 Number of teachers and students using library per day over last one yearगतवर्षे प्रतिदिनं ग्रन्थालयोपयोगं कृतवताम् अध्यापकानां छात्राणाञ्च सङ्ख्या।

Answer: 123

File DescriptionDocument
Details of library usage by teachers and students • अध्यापकैः छात्रैश्च प्रतिदिनं ग्रन्थालयोपयोगस्य विवरणम्। View Document
Any additional information अतिरिक्ताः सूचनाः View Document
Provide a link of the data uploaded in the institutions website संस्थायाः जालस्थाने उपारोपितस्य दत्तांशस्य सन्धानं प्रयच्छतु। View Document

 

4.2.7 E-content is developed by teachers : 1. For e-PG-Pathashala 2. For CEC (Under Graduate) 3. For SWAYAM4. For other MOOCs platform 5. For NPTEL/ NMEICT/ any other Government initiative 6. For institutional LMS 7. E-books Uploded on Websiteअध्यापकैः विकासिताः वैद्युतीयपाठ्यांशाः- 1. ई-पीजी-पाठशालायाः कृते 2. शैक्षिक-सम्प्रेषण-सङ्घटनस्य कृते (स्नातकस्तरे)3. ‘स्वयम्’ - कृते 4. ‘मूक्स’ - कृते 5. एन्-पी-टि-ई एल्/ एन् एम्-ई-ऐ-सी-टी/ अन्येषां सर्वकारीयोपक्रमाणां कृते 6. सांस्थानिक्याः ग्रन्थालयप्रबन्धनप्रणाल्याः कृते 7. सङ्ख्याद्वारा प्रवर्धितानां विविधपरियोजनानां कृते (नामोल्लेखः करणीयः)

Answer: A. Any 5 of the above (अ. उपरि निर्दिष्टेषु कानिचित् पञ्च)

File DescriptionDocument
Details of e-content developed by teachers for e-PG-Pathshala, CEC (UG) (Data Template) एन्-पी-टि-ई एल्/एन् एम्-ई-ऐ-सी-टी इत्यादीनां कृते अध्यापकैः विकासितानां वैद्युतीयपाठ्यांशानां विवरणम्। (दत्तांशप्रारूपम्) View Document
Any additional information अतिरिक्ताः सूचनाः View Document
Give links or upload document of e-content developed विकासितानां वैद्युतपाठ्यांशानां सन्धानम् View Document

4.3.1 Institution frequently updates its IT facilities including Wi-Fi, Email and Internet Facilities are given to Faculty and Students with Institutional ID’sसंस्था निस्तन्त्रि-अणुसङ्केत-अन्तर्जालसमेतानां सूचनाप्रविधिसौविध्यानां पौनःपुन्येन संवर्धनं करोति सांस्थिकीः परिचायिकीः प्राप्तवद्भ्यः छात्रेभ्यः अध्यापकेभ्यश्च वैद्युतपत्राङ्कान्, अन्तर्जालसौविध्यानि च संस्था ददाति। wi – fi सहितं सूचनाप्राविधिकसौविध्यानाम् अद्यतनीकरणस्य दिनाङ्कं स्वरूपञ्च विवृणोतु।

Answer:

  • साम्प्रतिके काले शैक्षिकेषु प्राशासनिकेषु च कार्येषु निस्तन्त्रिव्यवस्थायाः अन्तर्जालव्यवस्थायाश्च अनिवार्यता वर्तते। काले काले व्यवस्थायाः अस्याः संवर्धनं मुख्यं कर्म भवति। अतः परिवर्त्यमानायाः अपेक्षायाः अनुसारं विश्वविद्यालयद्वारा सङ्गणकेषु तन्त्रांशस्य स्थापना क्रियते। सङ्गणकीय- कार्यतन्त्रस्य यथासमयं संवर्धनमपि विधीयते। वैराणुनिरोधकः सङ्गणकस्य रक्षाकवचः भवति। अतः समये समये वैराणुनिरोधकस्य नवीकरणं क्रियते।
  • सङ्गणकानां लघु समीकरणकार्यं/ शोधनं चेत्तत् परिसरस्तरे सम्पद्यते। यदि हार्ड्- डिस्क् इत्यादिषु अवयवेषु मुख्यं शोधनम् अपेक्षितम् तर्हि सम्बद्धायाः संस्थायाः यन्त्रज्ञद्वारा शोधनं कार्यते।
  • निस्तन्त्रि अक्षरफलकं, मौस् इत्यादिकं वस्तुजातं तान्त्रिकव्यवस्थायां नवीनत्वं निरूपयति। अतः विश्वविद्यलयीय-तान्त्रिकव्यवस्थायां तादृशानि अक्षरफलकानि संयोजितानि।
  • गुणोत्कृष्टं मुद्रणयन्त्रम् (Printer) मुद्रणे उत्कर्षम् आनयति । अतः विश्वविद्यालये  गुणोपेतं मुद्रणयन्त्रं व्यवस्थापितं वर्तते।
  • अन्तर्जालस्य वेगवर्धने,  ‘Wi-Fi साधनम्’ महोपकारकं वर्तते। छात्राणाम् अध्यापकानां कर्मचारिणां च उपयोगाय परिसरेषु Wi-Fi व्यवस्था कल्पिता वर्तते। काले काले तस्याः व्यवस्थायाः संवर्धनं नवीकरणं च विधीयमानम् अस्ति।
  • विश्वविद्यालये विद्यमानायां भाषाप्रयोगशालायां तन्त्रांशः काले काले नवीकृतो वर्तते।
  • पुस्तकालये ई-सामग्रीणां निर्माणं विहितं वर्तते। Covid 19 विषमकाले छात्र-अध्यापकयोः सम्पर्कसाधनन्तु अन्तर्जालमेव अभवत्। अन्तर्जालावलम्बि-अध्यापनकर्मणा छात्राः क्लेशम् अन्वभूवन् तेषु वेगवतः तत्साधनस्य दौर्लभ्यात्। तस्मिन् काले Wi-Fi साधनस्य अपेक्षाः अवर्धन्त। अपेक्षानुगुणं विश्वविद्यालयद्वारा तत्स्थापितं वर्तते। तस्मिन् विषमकाले ई-अध्ययनसामग्रीनिर्माणकार्यम् आरभ्यत। तत्परिणामेन सम्प्रति विविधेषु शास्त्रीयेषु विषयेषु ई-सामग्र्यः निर्मिताः अभूवन्।
  • विश्वविद्यालयः भारतसर्वकारस्य ‘डिजिटल् इंडिया’ इति योजनाम् अनुसरति। तां सफलयितुं प्रयतते। अतः विश्वविद्यालयः कार्यालयेषु कर्गदरहितं पत्रव्यवहारम् एधते।
  • सर्वेषां सदस्यानां पात्त्रिकं सम्पर्कम् अपि ई-मैल् माध्यमेन निर्वहति। तदर्थं  विश्वविद्यालयस्य सर्वेभ्यः सदस्येभ्यः अणुसङ्केतः (इमेल) प्रदत्तः वर्तते। सदस्याः सूचनापत्राणि, अधिसूचनानि, आदेशपत्त्राणि, निर्देशपत्त्राणि च अणुसङ्केतद्वारा प्राप्नुवन्ति। छात्राश्च स्वीयं अणुसङ्केतं रक्षन्ति। प्रवेशप्रक्रिया, परीक्षाशुल्कप्रदानम् इत्यादिकार्यार्थं तेषां कृते अणुसङ्केतस्य अनिवार्यता कृता वर्तते। तद्द्वारा ते शुल्कप्रदानादिकार्यं निर्वहन्ति।
  • विश्वविद्यालये सर्वोऽपि वित्तीयः व्यवहारः सद्यस्कमाध्यमेन प्रवर्तनीयः इत्यतः तादृशी व्यवस्था कल्पिता वर्तते। छात्राणां छात्रवृत्तिः, शोधच्छात्राणां शोधवृत्तिः, अन्यानि देयानि च सद्यस्कमाध्यमेन प्रवर्त्यन्ते। विश्वविद्यालयः एतानि कार्याणि सद्यस्कमाध्यमेन निर्वहन् ‘डिजिटल् इंडिया’ इति योजनाम् स्वीकरोति।
  • छात्राणाम्, अध्यापकानाम्, उद्योगिनां च अपेक्षाः पूरयितुं विश्वविद्यालयः ICT सौलभ्यं काले काले नवीकरोति।
  • दर्शनीयकक्षा (स्मार्ट्-क्लास्) व्यवस्थापिता वर्तते। विशेषतः शास्त्रिशिक्षाशास्त्रिच्छात्रेषु, शैक्षणिकप्रविधेः, अध्यापनकौशलानां च आधाने इयं कक्ष्या बहूपयोगिनी वर्तते।
  • साम्प्रतं  इप्लेटफॉर्मर इत्यस्य सर्वत्र विद्यमानं प्राधान्यं जानता विश्वविद्यालयेन कर्गदस्योपयोगं न्यूनीकरोति। विश्वविद्यालयस्य शैक्षिककार्याणां प्रसारः  ट्विट्टर्, फेस् बुक् व्हाट्सप् इत्यादिसामाजिकमाध्यमेन (सोशलमीडिया) क्रियमाणो वर्तते। छात्राणां वाट्स्-आप् गणाः निर्मिताः सन्ति। तेन कक्ष्यायाः टिप्पणीः, शैक्षणिकवार्त्ताः च छात्रैः तूर्णं प्राप्तुं शक्यन्ते।
  • विश्वविद्यालयस्य www.mpsvv.ac.in इति वेवसाइटमाध्यमेन सूचना प्रसार्यते।

विश्वविद्यालये छात्राः शिक्षकाश्च सङ्गणकयन्त्रोपयोगाय निरन्तरं प्रोत्साह्यन्ते। येन आधुनिकतकनीकस्य उपयोगं कृत्वा ज्ञानस्य विस्तारः स्यात्।

 

File DescriptionDocument
Any additional information अतिरिक्ताः सूचनाः View Document
link for additional information अतिरिक्तसूचनानां सन्धानम्। View Document

 

4.3.2 Student - Computer ratio (preceding academic year data)छात्र-गणकयन्‍त्रानुपातः (गताध्ययनवर्षस्य दत्तांशः)

Answer: 10.27

4.3.2.1 Total number of computers in the campus for academic purposeपठनप्रक्रियार्थं परिसरेषु वर्तमानानां गणकयन्त्राणां सङ्ख्या

Answer: 45

File DescriptionDocument
Student – computer ratio अतिरिक्ताः सूचनाः View Document
Geotagged photo View Document
any additional information अतिरिक्ताः सूचनाः View Document

 

4.3.3 Available bandwidth of internet connection in the Institution (Leased line)संस्थायाम् उपलब्धस्य अन्तर्जालस्य (साक्षाद्दीर्घकालिकस्य) वेगसामर्थ्योपलब्धिः- (परिक्रीतसम्पर्कः)

Answer: D. 50 MBPS - 250 MBPS (ई. 50 एम्बीपीएस् 250 एम्बीपीएस्)

File DescriptionDocument
Details of available bandwidth of internet connection in the Institution • संस्थायाम् उपलब्धस्य अन्तर्जालस्य (साक्षाद्दीर्घकालिकस्य) वेगसामर्थ्योपलब्धिविवरणम् View Document
Any additional information • अतिरिक्ताः सूचनाः View Document

 

4.3.4 Media centre, Recording facility, Lecture Capturing System (LCS), Facilities for e-content development, and uploading the corpus (database) of sanskrit texts on the websiteजनसम्प्रेषणकेन्द्रम्, अभिलेखनसौविध्यम्, व्याख्यानलेखाङ्कनप्रणाली (व्या-ले-प्र), वैद्युतपाठ्यांशविकासनसौविध्यञ्च जालस्थाने उपारोपितानां संस्कृतग्रन्थानां सन्धानम्।

Answer:

4.3.4 "माध्यमकेन्द्राणिध्वन्यङ्कनसौविध्यम्सङ्गणकद्वारापाठनव्यवस्थाः वैद्युत- विषयाणां निर्माणं संवर्धनञ्चसंस्कृतग्रन्थानां (दत्तांशः) सङ्ग्रहः " आवश्यकदत्तांशाः

जनसम्प्रेषणकेन्द्रम्- विश्वविद्यालये जनसम्प्रेषणकेन्द्रं स्थापितं विद्यते। तत्र PRO सर्वं कार्यं पश्यति।

वार्ताःसाक्षात्काराःचलनचित्राणां वार्षिकप्रतिवेदनानां च समायोजनम् -

जनसम्प्रेषणकेन्द्रद्वारा यथा समयं, वार्ता:, चलचित्राणि तथा वार्षिकप्रतिवेदनानां च विश्वविद्यालयस्य जालस्थाने संस्थाप्यते। साक्षात्काराणामपि सङ्ग्रहः प्रसारश्च एतत् केन्द्रद्वारा क्रियते।

प्रकाशनविज्ञप्तिः -

विश्वविद्यालये भविष्यमाणस्य प्रत्येकमपि, क्रीडायाः, विद्यायाः, सांस्कृतिसम्बद्धकार्यक्रमस्य यथासमयं प्रकाशनविज्ञप्तिपरियोजना स्वीकृता वर्तते।

प्रचारपत्रस्य (फ्लायर) निर्माणम्-

विश्वविद्यालयस्य समेषां कार्याणां प्रचारपत्रस्य निर्माणं प्रसारणं च भवति।

आधारशेवधिः-

जनसम्प्रेषणकेन्द्रद्वारा प्रत्येकं वार्तायाः प्रत्येकं शोधलेखस्य, साक्षात्कारस्य, ध्वन्यङ्कनस्य भावचित्रस्य च स‌ङ्ग्रहः क्रियते तथा च यथावश्यकं तेषां अध्यापकेभ्यः कर्मचारिभ्यः च सहभागित्वं क्रियते।

विश्वविद्यालयस्य पत्रिकाप्रकाशनम्-

जनसम्प्रेषणकेन्द्रं पाणिनिधारा नाम्ना विश्वविद्यालयस्य पत्रिकायाः प्रकाशनं करोति ।

वार्षिकप्रतिवेदनम्-

जनसम्प्रेषणकेन्द्रं वार्षिकप्रतिवेदनस्य निर्माणं तस्य प्रकाशनञ्चकरोति।

जनसम्पर्कनिर्वहणम्-

माध्यमकेन्द्रस्य वैशिष्ट्यं वर्तते यत्सर्वदा विश्वविद्यालयस्य, तत्सम्बद्धविद्यालयानाम् अध्यापकानां कर्मचारिणां छात्राणां च उत्कर्षहेतोः मानवसंवर्धनार्थं च सर्वदा उपकुरुते।

समुदायदृष्टिः-

विश्वविद्यालयस्य भिन्नभिन्नप्रकारकनिर्णयान् जनसमुदायेभ्यः प्रेषणं तेषां प्रतिपुष्टिस्वीकरणम्, अधिकारिभ्यः समागतमार्गदर्शनानुसारं विद्यमानकार्यक्रमाणां तथा परियोजनायाः च कार्याणि क्रियन्ते ।

अभलेखनं सौविध्यम्- विश्वविद्यालयस्य प्राध्यापकाः व्याख्यानानि ध्वनिबद्धं (रिकार्ड) कृत्वा छात्रेभ्यः प्रयच्छन्ति। वेवसाइटमध्ये च स्थापयन्ति।

व्याख्यालेखाङ्कनप्रणाली- प्राध्यापकाः व्याख्यानलेखाङ्कनप्रणालीमनुसरन्ति।

वैद्युतपाठ्यांशविकासनसौविध्यम्- विश्वविद्यालयस्य शिक्षकाः पाठ्यांशं वैद्युतपाठ्यांशरूपेण (Econtent) कृत्वा छात्रेभ्यः प्रयच्छन्ति। वेवसाइट मध्ये तस्य लिंक दत्तं भवति।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Facilities for e-content development such as Media Centre, Recording facility, LCS जनसम्प्रेषणकेन्द्रम्, अभिलेखनसौविध्यम्, व्याख्यानलेखाङ्कनप्रणाली (व्य-ले-प्र) वैद्युत-पाठ्यांशविकासनसौविध्यानि (दत्तांशप्रारूपम्) View Document
Links of photographs छायाचित्राणां सन्धानम् View Document

4.4.1 Average expenditure incurred on maintenance of physical facilities and academic support facilities excluding salary component, as a percentage during the last five yearsपञ्चवर्षेषु वेतनाद् ऋते भौतिकसौविध्यानां शैक्षिकप्रोद्बलनसौविध्यानां च अनुरक्षणाय कृतस्य व्ययस्य प्रतिशतता-

Answer: 1.13

4.4.1.1 Expenditure incurred on maintenance of physical facilities and academic support facilities excluding salary component year-wise during the last five years (INR in lakhs)विगतपञ्चवर्षेषु वेतनाद् ऋते भौतिकसौविध्यानां शैक्षिकप्रोद्बलनसौविध्यानां च अनुरक्षणाय कृतः वार्षिकव्ययः (लक्षशः रूप्यकेषु)

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
2.33 1.13 1.01 1.39 1.11

 

File DescriptionDocument
Details about assigned budget and expenditure on physical facilities and academic facilities (Data Templates) • भौतिक-शैक्षिकसौविध्यानाम् अनुरक्षणाय प्रदत्तः धनराशिः, कृतः व्ययश्च View Document
Audited statements of accounts • अङ्केक्षणविवरणम् View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

4.4.2 Established systems and procedures for maintaining and utilizing physical, academic and support facilities - laboratory, library, sports complex, computers, classrooms etc., exists.प्रयोगशाला-ग्रन्थालय-क्रीडाङ्गण-सङ्गणकयन्त्र-पठनकक्ष्या-प्रभृतीनां भौतिक-शैक्षणिक-सहायकसौविध्ययुतानां परिरक्षणार्थं समुपयोगार्थं च संस्थायां सुनिश्चिता प्रणाली कार्यपद्धतिश्च विद्यते।

Answer:

  • संस्थायां प्रयोगशाला-ग्रन्थालय-क्रीडाङ्गण-सङ्गणकयन्त्र-पठनकक्ष्या-प्रभृतीनां भौतिक-शैक्षणिक-सहायकसौविध्ययुतानां परिरक्षणार्थं समुपयोगार्थं च सुनिश्चिता प्रणाली कार्यपद्धतिश्च विद्यते। संरचिताभिः परिषद्भिः समितिभिः वा निर्दिष्टानां कार्याणां निर्वाहः क्रियते। विश्वविद्यालये प्रयोगशालादीनां परिरक्षणार्थं समुपयोगार्थञ्च समितयः संरचिताः वर्तन्ते। विषयविशेषज्ञाः, शैक्षिकप्रमुखाः, छात्रप्रतिनिधयश्च समितिषु भवन्ति।
  1. ग्रन्थालयपरामर्श/ समितिः काले काले अपेक्षितानां पुस्तकानां क्रयणम् अनुशंसति। प्राचीनानां पुस्तकानां विसर्जनं जीर्णानां परिरक्षणार्थं (बैण्डिंग्) कार्यं च अनुशंसति। ग्रन्थालये पुस्तकानाम्, सङ्गणकानाम्, पीठोपकरणानां च संरक्षणम्, कीटनिरोधकप्रयोगः इत्यादिकार्यं यथापेक्षं क्रियते।
  2. क्रीडासमितिः –समितिः छात्राणां विविधक्रीडानां निर्वाहं करोति।  युवमहोत्सवस्पर्धाः,वार्षिकस्पर्धाः, राज्यस्तरीयादिस्पर्धाः इत्येतासु स्पर्धासु छात्राः प्रशिक्ष्यन्ते। क्रीडाङ्गणस्य लघुनिर्वाहः समितिसूचनानुसारं सम्पद्यन्ते।
  3. लेखनसामग्री-क्रयणसमितिः –अपेक्षिताः लेखनसामग्रीः क्रेतुम् अनुशंसां करोति।
  4.  सामग्रीक्रयणसमितिः –सङ्गणकम्, श्वेतफलकम्, कवाटिका इत्यादेः वस्तुजातस्य काले काले क्रयणाय अनुशंसां ददाति।
  5. समीकरण-निर्वहणसमितिः – भवनेषु कार्ये जीर्णानाम् /अनुपयुक्तानां वस्तूनां परिशीलनम् इयं समितिः करोति। विद्यु द्दीपः, व्यजनम्, द्वारम्, वातायनम्, उत्पीठिकाः, आसनानि, सङ्गणकानि इत्यादीनां नाशोन्मुखानां समीकरणाय अनुशंसां करोति।
  6. सांस्कृतिकसमितिः विश्वविद्यालये प्रवर्तमानानां सांस्कृतिककार्यक्रमाणां मार्गदर्शनं  करोति। अत्र कलासामग्रीणाम् उपयोगः क्रियते।

 

File DescriptionDocument
additional information अतिरिक्ताः सूचनाः View Document
Link for additional information अतिरिक्तसूचनानां सन्धानम् View Document

3.1.1 The institution has a well defined policy for promotion of research and Research Committee to monitor and address issues related to research and the same is uploaded on the institutional website. (Yes /No)संस्थायाम् अनुसन्धानस्य प्रोन्नत्यै सुचारुनिर्दिष्टा योजना अस्ति। अनुसन्धानस्य समस्यानां निराकरणाय, अनुसन्धानस्य प्रगतेः संवीक्षणाय अनुसन्धानसमितिः अस्ति। तत्सर्वं संस्थायाः जालस्थाने स्पष्टतया उपारोपितम्। (आम् /न)

Answer: Yes

File DescriptionDocument
Minutes of the the Research Committee/ Academic Council/ Governing Council/ Syndicate/ Board of Management related to research promotion policy adoption View Document
Institutional data in prescribed format View Document
Any additional information View Document
URL of Policy document on promotion of research uploaded on website View Document

 

Other Upload Files
1 View Document

 

3.1.2 The institution provides seed money for in-depth Shastric training/ inter-disciplinary training to its teachers for research during the last five yearsविगतपञ्चवर्षेषु संस्था अध्यापकेभ्यः अनुसन्धानाय तलस्पर्शिशास्त्रप्रशिक्षणाय अन्तःशास्त्रीयप्रशिक्षणाय च मूलनिधिं ददाति।

Answer: 0.24

3.1.2.1 The amount of seed money provided by institution to its faculty year-wise during the last five years (INR in lakhs)संस्थया विगतपञ्चवर्षेषु अध्यापकेभ्यः प्रदत्तस्य मूलनिधेः वार्षिकसङ्ख्या (लक्षशः)।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
0.06 0.07 0.20 0.39 0.48

 

File DescriptionDocument
Minutes of the relevant bodies of the University (विश्वविद्यालयस्य योग्यनिकायस्य कार्यवृत्तम्) View Document
List of teachers receiving grant and details of grant received (Data Template) (प्राप्तानुदानविवरणेन सह अनुदानं प्राप्तवताम् अध्यापकानां सूची। (दत्तांशप्रारूपम्) View Document
Budget and expenditure statements signed by the Finance Officer indicating seed money provided and utilized (विश्वविद्यालयस्य वित्ताधिकारिणा हस्ताक्षरितं मूलनिधेः प्राप्तराशेः व्ययीकृतराशेश्च सूचकम् आयव्ययपत्रकं व्ययपत्रकं च। ) View Document
Any additional information (अतिरिक्ताः सूचनाः) View Document

 

3.1.3 Number of JRFs, SRFs, Post Doctoral Fellows, Research Associates and any other research fellowships in the University enrolled during the last five years.विश्वविद्यालये विगतपञ्चवर्षेषु पञ्जीकृतानां कनिष्ठशोधच्छात्राणां(JRF) वरिष्ठशोधच्छात्राणां (SRF) शोधोत्तरानुसन्धातॄणाम् (PDF) अनुसन्धानसहायकानाम् अन्येषां च अनुसन्धातॄणां सङ्ख्या-

Answer: 14

3.1.3.1 The Number of JRFs, SRFs, Post Doctoral Fellows, Research Associates and other research fellows in the university enrolled year-wise during the last five yearsविश्वविद्यालये विगतपञ्चवर्षेषु पञ्जीकृतानां कनिष्ठशोधच्छात्राणां(JRF) वरिष्ठशोधच्छात्राणां (SRF) शोधोत्तरानुसन्धातॄणाम् (PDF) अनुसन्धानसहायकानाम् अन्येषां च अनुसन्धातॄणां वर्षक्रमेण सङ्ख्या-

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
04 06 01 02 01

 

File DescriptionDocument
List of research fellows and their fellowship details (Data Template) (अनुसन्धातॄणां सूची, छात्रवृत्तिविवरणञ्च। (दत्तांशप्रारूपम्)) View Document
Any additional information( अतिरिक्ताः सूचनाः) View Document

 

3.1.4 University has the following facilities1. Central Instrumentation Centre/ Language Laboratory ComputerLab/ ICT Lab2. Museum3. Studios/ Recording Studio for Audio-Video/ e-P.G.Pathashala Facilities4. Research/ Statistical Databases5. Manuscript Resource Centre (MRC)6. Manuscript Conservation Centre(MCC)7. Yoga Training Centre8. Yoga Therapy Centre with modern equipments9. Observatory/ Yajnashala10. Psychology Laboratoryविश्वविद्यालये अधोलिखितानि सौविध्यानि सन्ति-1. केन्द्रीयम् उपकरणकेन्द्रम्/ भाषाप्रयोगशाला/ सङ्गणकप्रयोगशाला/ सूचना-सम्प्रेषण -प्रविधिप्रयोगशाला2. पुरातत्त्वसङ्ग्रहालयः3. दृश्य-श्रव्य-सामग्रीनिर्माणाय चित्राङ्कनशालायाः ध्वन्यङ्कनशालायाः ई.पी.जी पाठशालायाः वा सौविध्यानि4. अनुसन्धानम्/ सांख्यकीयो दत्तांशनिधिः5. पाण्डुलिपिसंसाधनकेन्द्रम्6. पाण्डुलिपिसंरक्षणकेन्द्रम्7. योगप्रशिक्षणकेन्द्रम्8. आधुनिकयन्त्रसहितं योग-उपचारकेन्द्रम्9. वेधशाला/ यज्ञशाला10. मनोविज्ञानप्रयोगशाला

Answer: A. Any six facilities exist (अ. उपर्युक्तेषु कानिचित् षट्सौविध्यानि सन्ति)

File DescriptionDocument
Upload the list of facilities provided by the university and their year of establishment (Data Template)(विश्वविद्यालयेन दत्तानां सौविध्यानां सूची, स्थापनायाः वर्षञ्च। (दत्तांशप्रारूपम्)) View Document
Upload any additional information(अतिरिक्ताः सूचनाः) View Document
Paste link of videos and geotagged photographs (भूचित्रसंवलितानां दृश्यसामग्रीचित्राणां सन्धानम्।) View Document

 

3.1.5 Percentage of departments with UGC-SAP, CAS, funding from DST/ ICSSR/ ICPR, Shastra-chudamani Scheme, Ashtadashi Scheme and other similar recognitions by government agencyविश्वविद्यालयानुदानायोगस्य विशिष्टसहायताकार्यक्रमस्य (SAP) प्रगताध्ययनकेन्द्रत्वेन डी.एस्.टी., आय.सी.एस्.एस्.आर्., आय्.सी.पी.आर्. संस्थाभ्यः शोधनिमित्तं धनप्राप्तिः, शास्त्रचूडामणियोजनायां प्रकर्षकेन्द्रत्वेन नवाचारकेन्द्रत्वेन अष्टादशीयोजनायाम् अन्यस्यां वा सदृशयोजनायाम् अभिज्ञातानां विभागानां प्रतिशतता।

Answer: 100

3.1.5.1 Number of departments with UGC-SAP, CAS, funding from DST/ ICSSR/ ICPR, Shastra-chudamani Scheme, Ashtadashi Scheme and other similar recognitions by government agencyविश्वविद्यालयानुदानायोगस्य विशिष्टसहायताकार्यक्रमस्य प्रगताध्ययनकेन्द्रत्वेन डी.एस्.टी., ऐ.सी.एस्.एस्.आर्., ऐ.सी.पी.आर्. संस्थाभ्यः शोधनिमित्तं धनप्राप्तिः शास्त्रचूडामणियोजनायां प्रकर्षकेन्द्रत्वेन नवाचारकेन्द्रत्वेन वा अष्टादशीयोजनायाम् अन्यस्यां वा सदृशयोजनायाम् अभिज्ञातानां विभागानां सङ्ख्या।

Answer: 7

3.1.5.2 Number of departments offering academic programmeशैक्षिकपाठ्यक्रमान् सञ्चाल्यमानानां विभागानां सङ्ख्या

Answer: 7

File DescriptionDocument
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
e-version of departmental recognition letters or other award letters (विभागीय-अनुदान-अनुमतिपत्राणां वैद्युतभागः अथवा अन्यानुमतिपत्राणि) View Document
Any additional information(अतिरिक्ताः सूचनाः) View Document

 

3.1.6 Does the university has the following –1. Scheme for preparation of critical edition of unpublished manuscripts for research projects and research degrees2. Sanskrit as the compulsory medium of writing thesis/ dissertation/ Project Report etc.3. Provision for the translation of Sanskrit/Shastric texts as part of formal research degree?4. Incentive to write Sanskrit-Teeka-s/ commentaries on Sanskrit texts5. Scheme for production of Study materials in Sanskritविश्वविद्यालये अधोलिखितांशाः सन्ति –1. अनुसन्धानपरियोजनानां शोधोपाधीनां च कृते अप्रकाशितपाण्डुलिपीनां समीक्षात्मकदृष्ट्या ग्रन्थसम्पादनयोजना2. शोधप्रबन्ध/ लघुशोधप्रबन्ध/ परियोजनाप्रतिवेदनेषु अनिवार्यमाध्यमत्वेन संस्कृतम्3. औपचारिक-अनुसन्धान-उपाध्यङ्गतया संस्कृतग्रन्थानां शास्त्रीयग्रन्थानां वाऽनुवादाय प्रोत्साहनम्4. औपचारिक-अनुसन्धान-उपाध्यङ्गतया गृहीतस्य संस्कृतग्रन्थस्य टीका/व्याख्यालेखनार्थं प्रोत्साहनम्5. संस्कृतमाध्यमेन अध्ययनाध्यापनसामग्रीनिर्माणाय योजना

Answer:

       शोधादिकार्यप्रोत्साहनाय,अनुसंधानरुच्युत्पादाय प्रभावकारीरीत्यावगमनाय च या: योजना: कल्पिता: वर्तन्ते तासु यथा-

  1. अनुसन्धानपरियोजनानां शोधोपाधीनां च कृते अप्रकाशितपाण्डुलिपीनां समीक्षात्मकदृष्ट्या ग्रन्थसम्पादनयोजना-

एकं विषयविशेषमधिकृत्य विस्तरेण क्रियमाणम् अध्ययनम्; विशेषतः नूतनतथ्यानां नूतनपदार्थानां च क्रमबद्धरूपेण अन्वेषणम् एव अनुसन्धानम् इत्युच्यते। तत्रापि अप्रकाशितपाण्डुलिपीनां समीक्षात्मकदृष्ट्या ग्रन्थसम्पादनादीनां कार्याणां सम्पादनेन अप्रकाशितग्रन्थानां ग्रन्थकाराणां वैशिष्ट्यानि बहिरायान्ति। अज्ञातकर्तृकग्रन्थाः इति अपवादोऽपि दूरीभवति अप्रकाशितानां व्यवस्थितरूपेण प्रकाशनेन। अतः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये अप्रकाशितपाण्डुलिपीनां समीक्षात्मकदृष्ट्या ग्रन्थसम्पादनादीनि कार्याणि शोधच्छात्रैः क्रियन्ते। महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य शोधनीतौ अपि मातृकासम्पादनस्य ग्रन्थसम्पादनयोजनायाश्च प्राथम्यं दत्वा प्रारूपं कथं भवेत् इत्यत्र मार्गदर्शनसूत्राणि उल्लिखितानि सन्ति।

विश्वविद्यालये शोधोपाधेः कृते अप्रकाशितपाण्डुलिपिग्रन्थस्य पाण्डुग्रन्थरहस्यदीपिकावृत्तिसहितरहस्यरामायणस्य समीक्षात्मकं पाठसम्पादनमिति शीर्षकान्वितः शोधप्रबन्धः शोधार्थिन्या प्रतीक्षासोनीमहोदयया प्रास्तावि सत्रे 2022। एवमनेके शोधार्थिनः शोधोपाधये  पाण्डुग्रन्थानां सम्पादनं कुर्वन्तः सन्ति। सूची-

2.अनिवार्यमाध्यमत्वेन संस्कृतम् 

विश्वविद्यालयस्य सर्वेऽपि शोधप्रबन्धाः लघुशोधप्रबन्धाः संस्कृतपरियोजनाश्च संस्कृतमाध्यमेन एव विरच्यन्ते। अनिवार्यतया स्नातकोत्तरपाठ्यक्रमे पत्रमेकं परियोजनाप्रतिवेदनात्मकं विद्यते। यत्र संस्कृते एव लेखनीयं भवति। विगतेषु पञ्चसु वर्षेषु शोधप्रबन्धाः संस्कृतभाषामाध्यमेन एव लिखिताः सन्ति।   विश्वविद्यालयस्य शोधनियमावल्याम् अपि सुस्पष्टं लिखितं वर्तते यत् संस्कृतमाध्यमेन एव शोधप्रबन्धाः लघुशोधप्रबन्धाः शोधपत्राणि च लेखनीयानि इति।

शोधप्रबन्ध/लघुशोधप्रबन्ध/परियोजना प्रतिवेदनेषु  विगतपञ्चवर्षेषु शोधोपाधिं प्राप्तवतां शोधार्थिनां सूची अधस्तना वर्तते।

 

Name of the Department

Name of the guide/s

Title of the thesis

Year of award of PhD

शोधच्छात्रस्य नाम

विभागस्य नाम

मार्गदर्शकस्य नाम

शोधप्रबन्धस्य नाम

उपाधिप्राप्तिवर्षम्

Manoj Kumar Dwivedi

Sanskrit Sahitya

Prof. Mithila Prasad Tripathi

श्रीमद्भागवतस्य दशमस्कन्धे तिङ्न्तपदानां विमर्शः

2019

Pushpendra Joshi

Veda

Dr. Valmiki Prashad Mishra

शुक्लयजुर्वेदीयगृहसूत्राणां समीक्षात्मकं अनुशीलनम्

2019

Jay Kumar

Sanskrit Sahitya

Dr.Tulsidas Parouha

श्रीमद् भागवते पुरुषार्थ समीक्षणम्

2019

Pushpraj Tiwari

Vyakaran

Dr.Mandavisharan Tripathi

व्याकरणशास्त्रे भट्टोजिदीक्षितस्य अवदानम्

2020

Ankit Shandilya

Veda

Prof. Mithila prasad tripathi

शुक्लयजुर्वेदे राष्ट्रियचिन्तनस्यानुशीलनम्

2020

Govind Singh Paikra

Vyakaran

Dr. Mandvi Sharan Tripathi

श्रीमद् भागवतगीतायाः वैयाकरणशास्त्रीयमध्ययनम्

2022

Ramesh Kumar Shukla

Vyakaran

Prof. Mithila Prasad Tripathi

श्रीमद्भागवते स्तुतीनां वैयाकरणदृष्ट्या समीक्षणम्

2022

Pratiksha Soni

Sanskrit Sahitya

Dr.Tulsidas Parouha

पाण्डुग्रन्थरहस्यदीपिकावृत्ति सहितरहस्यरामायणस्य समीक्षात्मक पाठसम्पादनम्

2022

 

3.औपचारिक-अनुसन्धान-उपाध्यङ्गतया संस्कृतग्रन्थानां शास्त्रीयग्रन्थानां वा अनुवादाय प्रोत्साहनम्-

विश्वविद्यालये अनुसन्धानकार्यत्वेन संस्कृतशास्त्रग्रन्थानां अनुवादार्थमपि अवसरः कल्प्यते। ये ग्रन्थाः प्रौढशैल्या लिखिताः सन्ति ते दुर्बोधाः भवेयुः इति मत्वा बालानां सुखबोधाय सरलभाषया तादृशानां ग्रन्थानाम् अनुवादकार्यमपि सरलव्याख्यामुखेन सम्पादयितुं शक्यते। प्रादेशिकभाषासु निबद्धानां संस्कृतग्रन्थानां मूलप्रतयः लभ्यन्ते चेत्तर्हि तासाम् अपि अनुवादकार्यं सम्पादयितुं शक्यन्ते शोधच्छात्राः । अनेन तेषां कृते विद्यावारिधिः इति उपाधिः दीयते। मातृकासम्पादनावसरे न्यूनातिन्यूनं तिस्रः मातृकाः अपेक्ष्यन्ते। तासाम् अध्ययनम् अनिवार्यं भवति शोधोपाधिग्रहणाय । मातृका: प्रादेशिकभाषास्वपि प्रचुरमात्रेण लिपिबद्धा: भवन्ति।

4. औपचारिक-अनुसन्धान-उपाध्यङ्गतया गृहीतस्य संस्कृतग्रन्थस्य टीकाव्याख्यालेखार्थं प्रोत्साहनम् 

सूत्रभाष्यवार्तिकानि टीकोपटीकाः व्याख्याश्च संस्कृतवाङ्मयस्य जीवातुभूतानि तत्त्वानि सन्ति। अतः टीकालेखनाय व्याख्यालेखनाय च प्रतिपदं मार्गदर्शनं कुर्वन्ति शिक्षकाः । स्वयमपि विश्वविद्यालयाय शास्त्रज्ञैः शिक्षकैः शास्त्रीयाः टीकाग्रन्थाः विरचिताः। तत्र साहित्यविभागस्य सहाचार्येण डॉ. तुलसीदासपरौहामहोदयेन लघुसिद्धान्तकौमुद्याः हिन्दीव्याख्या, श्रीभार्गवीयमहाकाव्यस्य च हिन्दीव्याख्या, विशेषतया उल्लेखार्हः विद्यते। विश्वविद्यालयस्य शोधच्छात्राः अपि अप्रकाशितानां टीकाग्रन्थानां सम्पादनं कृत्वा प्राचीनान् टीकाकारान् पुनरुज्जीवयन्तः सन्ति। तत्र प्रतीक्षासोनीकृतं पाण्डुग्रन्थरहस्यदीपिकावृत्तिसहितरहस्यरामायणस्य समीक्षात्मकं पाठसम्पानदनम् इति शोधकार्यमन्यतमं विद्यते।

5. संस्कृतमाध्यमेन अध्ययनाध्यापनसामग्रीनिर्माणयोजना 

विश्वविद्यालये संस्कृतमाध्यमेन अध्ययनाध्यापनसामग्रीनिर्माणयोजना कृता विद्यते।

विश्वविद्यालये कार्यरताः प्राध्यापकाः तदर्थं प्रोत्साह्यन्ते। तेन नैके ग्रन्थाः संस्कृतमाध्यमेन छात्राणां कृते अध्ययनसौकर्याय लभ्यन्ते। तत्र विश्वविद्यालयस्य ज्योतिर्विज्ञानविभागीयसहायकाचार्यस्य डॉ. शुभम्-शर्मणः तिस्रः कृतयः उल्लेखनीयाः सन्ति। 1.चित्रगवाक्षेण ग्रामनगरवास्तुः 2. भोजवास्तुचित्रवीथिका 3. चतुष्षष्टिकलावीथिका।

 अन्यैः शिक्षकैः अपि बहवः अध्ययनाध्यापनसामग्र्यः निर्मीयन्ते। अतः छात्राः विना क्लेशं संस्कृतमाध्यमेन एव संस्कृतशिक्षाम् अवाप्तुं प्रभवन्ति।

 

File DescriptionDocument
Upload any additional information(अतिरिक्ताः सूचनाः) View Document

3.2.1 Grants for research projects sponsored by the non-government sources such as industry, corporate houses, other allied organizations, national/international bodies, endowments, chairs in the institution during the last five years (INR in Lakhs)संस्थायां गतपञ्चवर्षेषु उद्योग-औद्योगिकाधिष्ठान-दत्तनिधि-राष्ट्रिय-अन्ताराष्ट्रियनिकायैः अन्याभिश्च असर्वकारीयसंस्थाभिः प्रायोजितानां शोधयोजनानां कृते प्राप्तमनुदानं पीठानि च (लक्षशः)

Answer: 2.7

3.2.1.1 Total Grants for research projects sponsored by the non-government sources such as industry, corporate houses, other allied organizations, national/international bodies, endowments, Chairs in the institution year-wise during the last five years (INR in Lakhs) -संस्थायां गतपञ्चवर्षेषु उद्योग-औद्योगिकाधिष्ठान-दत्तनिधि-राष्ट्रिय-अन्ताराष्ट्रियनिकायैः अन्याभिश्च असर्वकारीयसंस्थाभिः प्रायोजितानां शोधयोजनानां कृते प्राप्तानाम् अनुदानानां वार्षिकयोगः (लक्षशः)-

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
00 2.7 00 00 00

 

File DescriptionDocument
List of project and grant detail परियोजनासूची, अनुदानविवरणञ्च। (दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः) View Document
e-copies of the grant award letters for research projects sponsored by non-government(असर्वकारीयसंस्थाभिः प्रायोजितायाः शोधयोजनायाः कृते अनुदानप्राप्तिपत्रस्य वैद्युतप्रतिलिपयः।) View Document
Any additional information (अतिरिक्ताः सूचनाः View Document

 

3.2.2 Grants for research projects sponsored by the government sources like UGC, Rashtriya Sanskrit Sansthan, IGNCA, NMM, Sanskrit Academies, ICPR, DST, ICHR etc. during the last five years (INR in Lakhs)विगतपञ्चवर्षेषु विश्वविद्यालयानुदानायोग-राष्ट्रियसंस्कृतसंस्थान-इन्दिरागाँधीराष्ट्रियकलाकेन्द्र-राष्ट्रियपाण्डुलिपिमिशन्-संस्कृताकादमी- भारतीयदार्शनिकानुसन्धानपरिषद्-भारतीयेतिहासानुसन्धानपरिषदादिभि: सर्वकारीयसंस्थाभिः प्रायोजितानां शोधपरियोजनानां कृते प्राप्तमनुदानम्। (लक्षशः)

Answer: 61.88

3.2.2.1 Total Grants for research projects sponsored by the government sources year-wise during the last five years (INR in Lakhs)विगतपञ्चवर्षेषु सर्वकारीयसंस्थाभिः प्रायोजितानां शोधपरियोजनानां कृते प्राप्तानामनुदानानां वार्षिकयोगः। (लक्षशः)

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
51.875 00 00 10 00

 

File DescriptionDocument
List of project and grant details (Data Template)(परियोजनासूची, अनुदानविवरणञ्च। (दत्तांशप्रारूपम्)) View Document
e-copies of the grant award letters for research projects sponsored by government(शासकीयसंस्थाभिः प्रायोजितायाः शोधयोजनायाः कृते अनुदानप्राप्तिपत्रस्य वैद्युतप्रतिलिपयः।) View Document
Any additional information( अतिरिक्ताः सूचनाः) View Document

 

3.2.3 Number of research projects per teacher funded by government and non-government agencies during the last five yearsविगतपञ्चवर्षेषु सर्वकारीयाभिः असर्वकारीयाभिश्च संस्थाभिः प्रत्येकम् अध्यापकाय आर्थिकसाहाय्येन प्रदत्तशोधयोजनाः।

Answer: 0.34

3.2.3.1 Number of research projects funded by government and non-government agencies year-wise during the last five yearsविगतपञ्चवर्षेषु सर्वकारीयाभिः असर्वकारीयाभिश्च संस्थाभिः प्रत्येकम् अध्यापकाय आर्थिकसाहाय्येन प्रदत्तशोधयोजनानां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
05 01 00 01 00

 

File DescriptionDocument
Supporting document from Funding Agency(अनुदानप्रदातृसंस्थाभिः प्राप्ताः सहायकाभिलेखाः।) View Document
List of research projects and funding details (Data Template)(परियोजनासूची, अनुदानप्रदातृसंस्थाविवरणञ्च। (दत्तांशप्रारूपम्)) View Document
Any additional information (अतिरिक्ताः सूचनाः) View Document
Provide Link for the funding agency website(अनुदानप्रदातृसंस्थाभिः प्राप्ताः सहायकाभिलेखाः।) View Document

 

3.2.4 University provide funds out of its internal resources for the promotion of research. Provide detailsआन्तरिकस्रोतोभ्यः प्राप्तं धनराशिं किं विश्वविद्यालयः अनुसन्धानस्य प्रोन्नयनाय परिकल्पयति ? विवरणं देयम्।

Answer:

विभागेभ्यः आर्थिकसाहाय्यम्-

   आन्तरिकस्रोतोभ्यः प्राप्तं धनराशिं महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः अनुसन्धानस्य प्रोन्नयनाय अपि परिकल्पयति। शैक्षणिकविभागैः शोधसङ्गोष्ठीविषयकं प्रस्तावमङ्गीकृत्य विश्वविद्यालयः, शोधसङ्गोष्ठी आयोजनाय आर्थिकसाहाय्यं ददाति। तेन अनुसन्धानस्य प्रोन्नयनं जायते।

शोधच्छात्रेभ्यः  आर्थिकसहयोगः-

   सर्वेभ्यः शोधच्छात्रेभ्यः अस्मिन् परिसरे विशिष्टाः  कार्यशालाः  विश्वविद्यालयेन आयोज्यन्ते यत्र सर्वेषां भागग्रहणम् निःशुल्कं भवति। विश्वविद्यालयस्य शोधपत्रिकायां शोच्छात्राणां शोधनिबन्धाः निःशुल्कं प्रकाश्यन्ते। सदस्यता शुल्कं च अर्धमेव गृह्यते। अर्धं शुल्कं विश्वविद्यालयः परिवहति।

शोधपत्रिकाप्रकाशनम्-       

    विश्वविद्यालये प्रकाश्यमाना पाणिनीया इत्याख्या अन्ताराष्ट्रियसान्दर्भिकशोधपत्रिका (ISSN- 2321-7626) विश्वविद्यालयानुदानायोगद्वारा अधिसूचिता शोधपत्रिका विद्यते। विश्वविद्यालयस्य कुलपतयः शोधपत्रिकायाः प्रधानसम्पादकाः भवन्ति। शोधपत्रिकायाः प्रकाशनाय अपि आन्तरिकस्रोतसः विनियोगः क्रियते। शोधपत्रिका त्रैमासिकी विद्यते। यस्याः प्रकाशनव्ययं विश्वविद्यालयो वहति। अत्र विदुषां शोधच्छात्राणां च शोधनिबन्धाः पुनरीक्षणसमितिद्वारा (रिव्यू कमेटी)  परिशील्य प्रकाशनाय संस्तुतीक्रियन्ते। संस्तुतानां शोधनिबन्धानां प्रकाशनं निःशुल्कं भवति। एवं शोधप्रवृत्तेः विकासाय अपि अनुसन्धानकार्याणां प्रोन्नयनाय विश्वविद्यालयः सर्वदा यत्नशीलः वर्तते। न केवलं शिक्षकाः व्याख्यानादीनां माध्यमेन अपि तु प्रकाशनकार्याणां माध्यमेन अपि अनुसन्धानकार्याणि सम्पादयन्ति। एतस्यां सान्दर्भिकशोधपत्रिकायां शोधपत्रप्रकाशनस्य कठोराः नियमाः कृताः वर्तन्ते। अतः यावत् शोधपत्रस्य स्तरः उच्चतरः न भवति। तावद् अत्र प्रकाशनं सम्भवं न भवति। अतः विश्वविद्यालयस्य शोधच्छात्राः तदर्थं प्रशिक्ष्यन्ते । तेन तेषां शोधनिबन्धे कौशलं जायते। तेषां शोधनिबन्धाश्च पत्रिकायां प्रकाशनार्हाः अपि जायन्ते। शोधार्थिभ्यः सदस्यताशुल्कं अर्धमेव गृह्यते, अर्धं तु विश्वविद्यालयः एव वहति।

 

Other Upload Files
1 View Document
2 View Document
3 View Document
4 View Document

3.3.1 Institution has created an eco-system for innovations including Incubation centre/ Research Labs/ Manuscript repositories/ subject based networks/ teaching learning centers (TLC)/ MOOCS studio/ NRC and other initiatives for creation and transfer of knowledgeसम्बद्धसंस्थाद्वारा एका पारिस्थितिकी विरचिता यत्र अभिनवस्य ज्ञानस्य सर्जनार्थं सम्प्रेषणार्थं च अभिनवज्ञाननिष्पत्तिकेन्द्राणि/ अनुसन्धानप्रयोगशालाः/ पाण्डुलिपिसंरक्षणकेन्द्राणि तथा अन्ये उपायाः उपलभ्यन्ते।

Answer:

    ज्ञानेनैव नर: पशुभिन्नतां प्राप्नोति अर्थात् अन्यान्ययोनिषु श्रेष्ठत्वमनुभवति। कथितमपि "नास्ति ज्ञानसमो लाभः" इत्युक्तिं विश्वविद्यालयः मनसि निधाय ज्ञानस्य क्षेत्रे नवाचाराणां स्वागतार्थं सर्वदा संसिद्धः वर्तते। अभिनवज्ञाननिष्पत्तेः केन्द्रत्वेन प्रोन्नतं भवेत् इति विश्वविद्यालयः विभावयति। अत एव इदं प्रथमतया भारतीयज्ञानप्रणाल्याः प्रसारपरम्परायां केन्द्रसर्वकारस्य योजनायां सोत्साहं भागं गृह्णन्ति विश्वविद्यालयस्य शिक्षकाः। अन्याभिः संस्थाभिः सह अनुबन्धं कृत्वा अभिनवज्ञानस्य सर्जनार्थं सम्प्रेषणार्थं च कार्यं करोति विश्वविद्यालयः। पाण्डुलिपिसंरक्षणक्षेत्रे सिन्धियाप्राच्यविद्याप्रतिष्ठानम्, विक्रमविश्वविद्यालयः, उज्जैनम्, इत्यनेन सह विशेषरूपेण अनुबन्धः (MOU) कृतो वर्तते। यत्र उपलब्धपाण्डुग्रन्थानां सम्पादने शोधकार्ये च विश्वविद्यालयः सहयोगं करोति।

    एषः विश्वविद्यालयः अभिनवज्ञाननिष्पत्तये सदा यतते संस्कृतवाङ्मये विद्यमानस्य प्राचीनज्ञानस्य अभिनवेन सह समन्वयं विधाय अनुसन्धानं विधीयते। तेन कापि नूतना अभिनवज्ञाननिष्पत्तिः जायते। एतदर्थं विश्वविद्यालयः सततमेव यमानः अभिनवशैक्षणिकसंस्थानैः सह अन्तर्विषयीशोधकार्यं वर्धयितुं नवाचारयुक्तं च ज्ञानं परिलब्धुम् अनुबन्धं कृत्वा कार्यं करोति।

 

File DescriptionDocument
Any additional information View Document

 

3.3.2 Number of awards won by institution/teachers for innovation during the last five yearsविगतेषु पञ्चसु वर्षेषु संस्थया अध्यापकैः नवाचारविषये प्राप्तानां पुरस्काराणां/ सम्मानानां सङ्ख्या।

Answer: 3

3.3.2.1 Total number of awards for innovation won by institution/teachers year-wise during the last five yearsविगतेषु पञ्चसु वर्षेषु संस्थया/ अध्यापकैः नवाचारविषये प्राप्तानां पुरस्काराणां/ सम्मानानां वार्षिकसमष्टिसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
1 01 0 0 01

 

File DescriptionDocument
List of innovation and award details (Data Template)( नवाचारविषयसूची, पुरस्कारविवरणञ्च। (दत्तांशप्रारूपम्)) View Document
e- copies of award letters (पुरस्कारपत्राणां वैद्युतप्रतिलिपयः।) View Document
Any additional information (अतिरिक्ताः सूचनाः) View Document

 

3.3.3 Number of mentoring provided to other newly established Institutes during the last five yearsविगतपञ्चवर्षेषु अन्येषाम् अभिनवानां सद्यः स्थापितानां संस्थानां समारम्भाय प्रदत्तानां मार्गदर्शनानां सङ्ख्या -

Answer: 100

3.3.3.1 Total number of mentoring provided to other newly established Institutes year-wise during the last five years.विगतपञ्चवर्षेषु अन्येषाम् अभिनवानां सद्यः स्थापितानां संस्थानां समारम्भाय प्रदत्तस्य मार्गदर्शनस्य वार्षिकसङ्ख्या –

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
20 20 20 20 20

 

File DescriptionDocument
Upload letter from the University (mentor) /Mentee for the academic /infrastructure etc.(परिसरे समारम्भाय विश्वविद्यालयात् प्राप्तमनुमतिपत्रम् उपारोपयतु। ) View Document
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document

3.4.1 The institution has a stated Code of Ethics to check malpractices and plagiarism in Research(Yes /No)अनुसन्धानविषये कृतिचौर्यं कदाचारं निरोद्धुं काचित् निर्णीता नीतिसंहिता संस्थायाम् अस्ति(अस्ति/नास्ति)

Answer: Yes

File DescriptionDocument
Institutional data as per Data Template (सांस्थानिकदत्तांशः।) View Document
Any additional information (अतिरिक्ताः सूचनाः।) View Document
URL to be provided by the Institution (संस्थया जालस्थानसन्धानं दातव्यम्) View Document

 

3.4.2 The institution provides incentives to teachers who receive state, national and international recognition/ awards(Yes /No)ये अध्यापकाः राज्यस्तरीयां/ राष्ट्रियाम्/ अन्ताराष्ट्रियां मान्यतां/ पुरस्कृतिं प्राप्नुवन्ति, संस्था तान् प्रोत्साहयति।(प्रोत्साहयति/ न प्रोत्साहयति)

Answer: Yes

File DescriptionDocument
List of Awardees and Award details (Data Template)( पुरस्कृतानां सूची पुरस्कारविवरणञ्च। (दत्तांशप्रारूपम्)) View Document
List of Awardees and Award details (Data Template)( पुरस्कृतानां सूची पुरस्कारविवरणञ्च। (दत्तांशप्रारूपम्)) View Document
e- copies of the letters of awards(पुरस्कारपत्राणां वैद्युतप्रतिलिपयः।) View Document
Any additional information(अतिरिक्ताः सूचनाः) View Document

 

3.4.3 Number of Patents acquired/Creative writing / or critical Shastric writing composed in Sanskrit / copyright generated / hitherto unknown manuscripts brought to light through publication and awarded by State and National bodies during the last five yearsविगतपञ्चवर्षेषु प्राप्तानां स्वत्त्वाधिकाराणां/ सर्जनात्मकलेखानाम्/ अथवा संस्कृतभाषया लिखिता विमर्शात्मकशास्त्रीयलेखानाम्/ उत्पादितप्रतिलिपीनां/ अप्रकाशितमातृकाणां/ प्राकाश्यमानीतानां मातृकाणां कृते राज्य/राष्ट्रीयनिकायैः सम्मानितपुरस्काराणाम् सङ्ख्या।

Answer: 16

3.4.3.1 Total number of the above awards - year-wise during the last five yearsविगतपञ्चवर्षेषु प्राप्तपुरस्काराणां संवत्सरशः सङ्ख्या -

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
01 04 08 02 01

 

File DescriptionDocument
List of the year of the publications of the patents etc.( पुरस्कारवर्षसहिता स्वत्त्वाधिकाराणां सूची।) View Document
Institutional data as per Data Template (सांस्थानिकदत्तांशः।) View Document
Any additional information(अतिरिक्ताः सूचनाः) View Document

 

3.4.4 Number of Ph.D.s awarded per teacher during the last five yearsविगतपञ्चवर्षेषु प्रत्येकम् अध्यापकस्य निर्देशने विद्यावारिध्युपाधिभाजां शोधच्छात्राणां सङ्ख्या।

Answer: 0.54

3.4.4.1 How many Ph.D’s are awarded year-wise during the last 5 years -विगतपञ्चवर्षेषु कतिभिः छात्रैः विद्यावारिध्युपाधयः प्राप्ताः? (संवत्सरक्रमेण) -

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
1 7 0 7 4

 

3.4.4.2 Number of teachers recognized as guides year-wise during the last five years -विगतपञ्चवर्षेषु मार्गदर्शकत्वेन मानितानाम् अध्यापकानां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
7 7 7 7 7

 

File DescriptionDocument
List of PhD scholars and their details like name of the guide , title of thesis, year of award etc (Data Template)( शोधच्छात्राणां विवरणात्मिका सूची। (दत्तांशप्रारूपम्)) View Document
Any additional information(अतिरिक्ताः सूचनाः) View Document
URL to the research page on HEI web site(जालस्थाने शोधपुटस्य सन्धानम्।) View Document

 

3.4.5 Number of research papers per teacher in the Journals notified on UGC website/ recognised peer reviewed journals/ reputed journals published by Sanskrit/ General Universities/ Departments/ Research Institutes and notified journals by the Rashtriya Samskrit Sansthan in its website and Conference Proceedings.विगतपञ्चवर्षेषु विश्वविद्यालयानुदानायोगस्य जालस्थाने अधिसूचितासु शोधपत्रिकासु, संस्कृतविश्वविद्यालयैः तद्विभागैः प्रकाशितासु शोधपत्रिकासु राष्ट्रियसंस्कृतसंस्थानस्य जालस्थाने अधिसूचितासु शोधपत्रिकासु सम्मेलनकार्यवृत्तेषु वा प्रत्येकम् अध्यापकस्य प्रकाशितशोधपत्राणां सङ्ख्या।

Answer: 6.17

3.4.5.1 Number of research papers in the Journals notified on UGC website year-wise during the last five yearsविगतपञ्चवर्षेषु विश्वविद्यालयानुदानायोगस्य जालस्थाने अधिसूचितासु शोधपत्रिकासु प्रकाशितशोधपत्राणां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
22 33 23 23 26

 

File DescriptionDocument
List of research papers by title, author, department, name and year of publication (Data Template) (शीर्षकादिविवरणसहिता शोधपत्रसूची (दत्तांशप्रारूपम्)) View Document
Any additional information (अतिरिक्ताः सूचनाः) View Document

 

3.4.6 Number of books edited and chapters in edited volumes/ books published, monographs in Sanskrit and other languages, original creative writing in Sanskrit, Sanskrit Shastras etc. (excluding awarded works), per teacher during the last five yearsविगतपञ्चवर्षावधौ प्रत्यध्यापकं प्रकाशितग्रन्थानां/ सम्पादितग्रन्थेषु लिखिताध्यायानां/ प्रकाशितपुस्तकानां/ प्रकाशितशोधपत्राणां/ संस्कृते एवं संस्कृतशास्त्रेषु सर्जनात्मकलेखानां सङ्ख्या। (पुरस्कारप्राप्तग्रन्थान् विहाय)

Answer: 5.34

3.4.6.1 Total number of books and chapters in edited volumes / books published, and papers in national/international conference-proceedings monographs, creative writing year-wise during the last five years -विगतपञ्चवर्षावधौ प्रत्यध्यापकं प्रकाशितग्रन्थानां/ सम्पादितग्रन्थेषु लिखिताध्यायानां/ प्रकाशितपुस्तकानां/ राष्ट्रिय-अन्ताराष्ट्रिय-सङ्गोष्ठीकार्यवृत्तिषु प्रकाशितशोधपत्राणां/ सर्जनात्मकलेखानां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
31 38 15 8 18

 

File DescriptionDocument
List books and chapters in edited volumes / books published (Data Template) (पुस्तकानां सम्पादितभागेषु प्रकाशिताध्यायानां सूची (दत्तांशप्रारूपम्)) View Document
Any additional information (अतिरिक्ताः सूचनाः) View Document

 

3.4.7 Does the university publish any research journal(s)If yes, indicate the year of starting the research journal, composition of the editorial board, editorial policies and state whether it is listed in any international database. Provide the ISSN No.किं विश्वविद्यालयः शोधपत्रिकाः प्रकाशयति ? यद्येवम्, तर्हि शोधपत्रिकाणां प्रारम्भवर्षम्, सङ्घटिता सम्पादकसमितिः, सम्पादननियमाः, अपि च यत्र एताः क्वचित् अन्ताराष्ट्रियदत्तांशेषु सूचीकृता इति संसूचनीयम्। आइ. एस्. एस्. एन् सङ्ख्या देया।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयेन “पाणिनीया” नाम शोधपत्रिका प्रकाश्यमाना वर्तते। या विश्वविद्यालयानुदानायोगस्य मानितायां शोधपत्रिकायाः तालिकायाम् अस्ति।  यस्याः विवरणं अधोलिखितं वर्तते।

          विश्वविद्यालयस्य “पाणिनीया” इत्येषा पत्रिका 2013 तमे वर्षे अक्टूबर   मासात् आरभ्य प्रकाश्यते। सर्वादौ विश्वविद्यालयस्य साहित्यविभागध्यक्षस्य डॉ.तुलसीदासपरौहामहोदयस्य प्रधानसम्पादकत्वेन  एतस्याः प्रथमाङ्कः प्रकाशितः अभवत्। अस्याः अन्ताराष्ट्रियमानकक्रमसङ्ख्या  ( ISSN No : 2321-7626) वर्तते। शोधसारः , बीजपदानि, शोधप्रस्तावना, प्रतिपाद्यः विषयः , परिशीलितसन्दर्भाः , सहायकग्रन्थसूची इत्यादयः प्रक्रमाः क्रमबद्धरूपेण भवेयुः इति शोधपत्रिकायाः सम्पादननियमाः सन्ति। विश्वविद्यालयस्य प्रथमा शोधपत्रिका एषा एव अस्ति।  अद्यावधिपर्यन्तम् षट्त्रिंशत् (36) अङ्कानि प्रकाशितानि वर्तन्ते । सम्प्पति अस्याः प्रधानसम्पादकः प्रो. विजयकुमार सी.जी.महोदयाः (मान्याः कुलगुरवः) प्रबन्धसम्पादकः डॉ. तुलसीदासपरौहा विद्यते। सम्पादनकार्यं  सम्पादकमण्डलाधीनं भवति। सम्पादकमण्डले डॉ.पूजाउपाध्याय, डॉ.उपेन्द्रभार्गवः, डॉ.अखिलेशकुमारद्विवेदी, डॉ.शुभम्-शर्मा, डॉ.संकल्पमिश्रः इत्येते प्राध्यापकाः सन्ति।  इत्येतेषां सङ्घटितप्रयासेन इयं पत्रिका प्रकाशिता भवति।

एतस्याः प्रकाशनं प्रतिवर्षं अक्टूबर-जनवरी-अप्रैल-जुलाईमासेषु चतुर्वारं भवति। एतस्याः त्रैमासिक्याः पत्रिकायाः स्तरः अन्ताराष्ट्रियः वर्तते। अत्र शोधपत्रप्रकाशनाय त एव निबन्धाः अङ्गीक्रियन्ते यान् पुनरीक्षणसमितिः सम्यक् परीक्ष्य संस्तौति। पुनरीक्षणसमितौ प्रतिष्ठिताः विद्वांसः तत्तद् विषयविशेषज्ञाः भवन्ति। सम्पादनकार्यं विश्वविद्यालयस्य कुलपतेः प्रधानसम्पादकत्वे जायते। प्रबन्धसम्पादनं वरिष्ठः सहाचार्यः करोति। सम्पदनं च चक्रानुक्रमेण शिक्षकैः क्रियते।

 

File DescriptionDocument
Any additional information (अतिरिक्ताः सूचनाः) View Document

3.5.1 Institution has a policy on consultancy including revenue sharing between the institution and the individual(Yes /No)व्यक्तिसंस्थयोः मध्ये परामर्शाद् प्राप्तस्य आयस्य संविभागार्थं काचिद् योजना संस्थया कल्पिता( आम् / नो )

Answer: Yes

File DescriptionDocument
Upload soft copy of the Consultancy Policy (परामर्शकनीतेः वैद्युतप्रतिलिपिः उपारोपणीया) View Document
Upload minutes of the Governing Council/ Syndicate/Board of Management related to consultancy policy(कार्यपरिषदः/ कस्यापि निकायस्य परामर्शकनीतिसम्बद्धकार्यवृत्तम् उपारोपयतु।) View Document
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Any additional information (अतिरिक्ताः सूचनाः) View Document
Paste URL of the consultancy policy document (परामर्शकनीतिसम्बद्धाभिलेखस्य सन्धानम्) View Document

 

3.5.2 Revenue generated from consultancy during the last five years (INR in Lakhs)विगतपञ्चवर्षावधौ संस्थया परामर्शद्वारा अवाप्तो राशिः (लक्षशः)

Answer: 0

3.5.2.1 Total amount generated from consultancy year-wise during the last five years (INR in lakhs)विगतपञ्चवर्षावधौ संस्थया परामर्शद्वारा अवाप्तो राशिः संवत्सरक्रमेण (लक्षशः) 

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
00 00 00 00 00

 

File DescriptionDocument
List of consultants and revenue generated by them (Data Template)(परामर्शकानां सूची तैरर्जितधनराशेश्च विवरणम् (दत्तांशप्रारूपम्)) View Document
Audited statements of accounts indicating the revenue generated through consultancy (परामर्शमाध्यमेन अर्जितधनराशिसूचकम् अङ्केक्षणविवरणम्) View Document
Any additional information (अतिरिक्ताः सूचनाः) View Document

3.6.1 Extension activities in the neighborhood community in terms of impact and sensitising students to social issues and holistic development during the last five yearsविगतपञ्चवर्षेषु छात्रेषु सामाजिकविषये संवेदनशीलताविकासाय, तेषां समग्रविकासाय च प्रातिवेशिकसमुदाये अनुष्ठिताः विस्तारगतिविधयः -

Answer:

           विश्वविद्यालयपरिसरः समाजस्य लघुरूपः वर्तते । समाजस्य विविधावश्यकतानां परिपूर्तये समाजे जनजागरणाय प्रोन्नयने च विश्वविद्यालयः सर्वदा प्रयतते। छात्रेषु सामाजिकसंवेदनशीलतायाः विकासे तेषां व्यक्तित्वोन्नयनाय च पूरकान् कार्यक्रमान् परिसरः समायोजयति । यथा –

१.प्रशिक्षणकार्यक्रमाः- अध्ययनदशायामेव बालानां समाजोन्मुखीकरणेन ते भाविनि काले सुदृढस्य समाजस्य सुनागरिकाः जायन्ते। सुदृढानां नागरिकाणां निर्माणाय तेभ्यः प्रशिक्षणं देयमिति मत्वा विश्वविद्यालयेन महिलासेल  तथा राष्ट्रीयसेवायोजनापक्षतः प्रशिक्षणकार्यक्रमाः नियतरूपेण आयोजिताः इत्यनेन माध्यमेन बालानां सामाजिकसंवेदनशीलतायाः विकासः द्रुतगत्या जायते।

2.संस्कृतसम्भाषणशिबिरम् शोभायात्रा च- “ग्रामं ग्रामं गच्छामः संस्कृतशिक्षां यच्छामः” इति वदन्तो विश्वविद्यालयस्य छात्राः संस्कृतसम्भाषणशिबिराणि सर्वत्र समायोजयन्तः संस्कृतविश्वविद्यालयः समाजेन सह वर्तते, पुनः सामाजिकं हितम् अभिलषति इति ख्यापयन्ति। सामाजिकाः अपि सरलसंस्कृतेन भाषितुं समर्थाः भवन्ति। तेष्वपि संस्कृतसाक्षरतायाः सञ्चारः परिदृश्यते। भ्रष्टाचारनिवारणोपायाः, अनैतिकतायाः वारणम्, पर्यावरणस्य परिरक्षणम्, स्वच्छभारतम् इत्यादिषु विषयेषु परिसरच्छात्राः लघुरूपकाणि समाजस्य मध्ये वीथीं विपणिं च प्रविश्य प्रदर्शयन्ति। तथैव “पठत संस्कृतम्” “वदत संस्कृतम्” “जयतु भारतम्” “जयतु संस्कृतम्” इत्यादीनि फलकानि गृहीत्वा शोभायात्रामपि स्थानीयेषु परिवेषेषु सम्पादयन्ति। शिक्षाशास्त्रिणां पाठ्यक्रमे एते कार्यक्रमाः विशेषतः वर्तन्ते।

3. सार्वजनिकयोगप्रशिक्षणकार्यक्रमाः विश्वविद्यालयपरिसरे अथवा विश्वविद्यालयतः बहिर्गत्वा योगप्रशिक्षणं दीयते। अन्ताराष्ट्रिययोगदिवससन्दर्भे तु विशेषरूपेण विशिष्टाः कार्यक्रमाः आयोज्यन्ते यत्र हि सामाजिकसंस्थानां सदस्याः भागं गृह्णन्ति।

4. रक्तदानशिबिरम्- विश्वविद्यालयद्वारा रक्तदानशिबिरायोजनेन “रक्तदानेन जीवरक्षा भविष्यति” इति महत्वपूर्णसन्देशं विश्वविद्यालयः अनुपालयति । सामाजिकसेवासंस्थाः यदा रक्तदानशिबिराणि आयोजयन्ति तदा परिसरस्य छात्राः शिक्षकाः च गत्वा रक्तदानं कुर्वन्ति। सर्वकारीयवैद्यालयस्य अधिकारिणः वैद्याः च परिसरम् आगत्य रक्तदानाय योग्यान् अभिज्ञाय तेषामुपादेयतां ज्ञापयन्ति।।

5. स्वच्छताभियानम्-  स्वच्छपरिसरे वसतां जनानां स्वास्थ्यं सर्वदा परिरक्षितं भवति। “स्वच्छभारतम्” इति अभियानं गान्धीमहोदयस्य जयन्तीमुपलक्ष्य प्रधानमन्त्रिणा सर्वत्र आचरणाय प्रेरणा अपि दत्ता। विश्वविद्यालयपरिसरः स्वच्छताभियानस्य औपचारिकरूपेण आचरणं करोति। न केवलं परिसरे अपि तु परिसरात् बहिः अपि, मार्गम् उभयतः छात्राः गत्वा स्वच्छताकार्यक्रमं सम्पादयन्ति। परिसरे एन.एस.एस.माध्यमेन प्रतिवर्षं स्वच्छतासप्ताहः,वृक्षारोपणादयः सामाजिकसंवेदनशीलतायाः अभिवर्धकाः कार्यक्रमाः आयोज्यन्ते। तथा प्रतिशनिवासरे स्वच्छताम् अभिलक्ष्य विश्वविद्यालयपरिसरीयाः शिक्षकाः कर्मचारिणः छात्राश्च स्वच्छताभियाने भागं गृह्णन्ति।

6.पर्यावरणपरिरक्षणकार्यक्रमः- परिसरच्छात्राः वायुप्रदूषणस्य जलप्रदूषणस्य ध्वनिप्रदूषणस्य भूप्रदूषणस्य च विषये जनजाग्रतिम् उत्पादयन्ति। पर्यावरणस्य परिरक्षणाभावे प्राकृतिकदुर्घटनाः अभिवर्धन्ते इति छात्राः जानन्ति। अतः विश्वविद्यालये पर्यावरणपरिरक्षणकार्यक्रमान् औपचारिकरूपेण सङ्घटयन्ति।

7. वृक्षारोपणम्- वृक्षाः छायामन्यस्य कुर्वन्ति स्वयमातपे तिष्ठन्ति इति प्रसिद्धं वचः । अतः वृक्षरक्षा करणीया । एवं लोकोपकारकत्वं वृक्षेषु वर्तते। अतः वृक्षरक्षा करणीया इति जनजाग्रतिं सर्वत्र छात्राः समुत्पादयन्ति। वृक्षारोपणेन प्रभूतः प्राणवायुः लभ्यते इति परिज्ञानं परिसरे छात्राः विजानन्ति। अतः एतत्सम्बद्धानि कार्याणि ते सुष्ठु सम्पादयन्ति।

8. ग्रामपालकत्वोपक्रमः- संस्कृतग्रामस्य परिकल्पना विश्वविद्यालयस्य वर्तते एव। विश्वविद्यालयः लालपुरम्, मानपुरम्, प्रेमनगरम्, इति ग्रामद्वयं दत्तकरूपेण स्वीकृत्य तत्र संस्कृतमयं संस्कारपूर्णं च वातावरणं निर्मातुं प्रयतन्ते।

9. समाजसेवा- मठमन्दिरसंस्थानां कार्यक्रमेषु सहयोगाय विश्वविद्यालयस्य अधिकाधिकाः छात्राः धार्मिककार्यक्रमे अन्नदानादिकं जलपानव्यवस्था इत्यादिकं तत्र तत्र सार्वजनिकानां कृते आयोजयन्ति । एतादृशेषु सन्दर्भेषु विश्वविद्यालयीयाः छात्राः अपि तासां संस्थानां कार्यक्रमेषु साहाय्यं कुर्वन्ति। तात्कालिकरूपेण सेवामनोभावनया च कार्यं कर्तुम् अस्माकं विश्वविद्यालयस्य छात्राः सार्वजनिकानां विश्वासभूमिरूपाः सन्ति।

10.स्वास्थ्यसंवर्धनकार्यक्रमाः- विश्वविद्यालये योगविभागः वर्तते । अनेन विभागेन स्वास्थ्यसंवर्धनकार्यक्रमाः आयोज्यन्ते। प्रशिक्षिताः छात्राः समाजं गत्वा अस्य अनुप्रयोगं कुर्वन्ति। एवं समाजस्य स्वास्थ्यसंवर्धनाय विश्वविद्यालयः प्रयतते। विश्वविद्यालयेन गान्धीजयन्ती, मातृभाषादिवसः, कालिदाससमारोहः, शिक्षकदिनम्, योगदिवसः, हिन्दीदिवसः, महिलादिवसः, संस्कृतसप्ताहः, संविधानदिनम्, गणितदिवसः इत्यादयः कार्यक्रमाः आयोज्यन्ते। एते सर्वेऽपि कार्यक्रमाः समाजेन सह विश्वविद्यालयं संयोजयन्ति। सामाजिकसंवेदनशीलतां जागरयन्ति च।

11. हरितविश्वविद्यालयः- विश्वविद्यालयः सप्ताहस्य प्रत्येकबुधवासरे हरितपरिसररूपेण परिपाल्यते, कार्बन-उत्सर्जनजन्यदुष्प्रभावं विचिन्त्य वाहनादिकं विश्वविद्यालयपरिसरे  प्रतिबन्धितञ्च विद्यते। प्रदूषणमुक्तप्रचाल्यमानानि वाहनानि यथा ई-रिक्शा,साइकिलयानम्, न प्रतिबन्धितोस्ति।

12.प्राथमिकचिकित्सा-  विश्वविद्यालये शिक्षाशास्त्रविभागपक्षतः प्रत्येकवर्षे प्राथमिकचिकित्सा प्रशिक्षणम् छात्रेभ्यः प्रदीयते। तस्मिन् प्रशिक्षणे सर्वकारीयचिकित्सालयतः वैद्याः समागत्य प्रशिक्षणं प्रददति।

13. विश्वएड्सजागरुकता कार्यक्रमः- विश्वविद्यालये विश्वएड्सजागरुकताकार्यक्रमे एड्सरोगजनितसङ्क्रमणकारकं तथा तेषां निवारणमुदिश्य जनजागरणं क्रियते। एड्स इति रोगग्रसितजनः स्पर्शयोग्यः भवति अतः तेषां प्रति सामाजिकविभेदनं न भवेत् इत्यस्य कृतेपि सम्प्रयासः क्रियते। तथा च शास्त्ररीत्या सुसंस्कारितजीवनेन एतादृशं रोगादिकं कथमपि न भवितुं शक्यते येन सारगर्भितसंस्कृतग्रन्थानां सार्वकालिकं सार्वभौमिकं महत्त्वमपि प्रदर्श्यते। विश्वविद्यालये निष्णातचिकित्सकान् आहूय स्वस्थजीवनयापनाय मार्गदर्शनं प्राप्यन्ते।   

 

File DescriptionDocument
Any additional information (अतिरिक्ताः सूचनाः) View Document
Provide link for additional information(अतिरिक्तासूचनानां सन्धानम्।) View Document

 

3.6.2 Number of awards and recognition received for extension activities from Government /recognised bodies during the last five yearsविस्तारगतिविधीनां कृते सर्वकारात्/मान्यताप्राप्तनिकायेभ्यः विगतपञ्चवर्षेषु प्राप्ताः पुरस्काराः/ सम्मानानि

Answer: 3

3.6.2.1 Total number of awards and recognition received for extension activities from Government/ recognised bodies year-wise during the last five yearsविस्तारगतिविधीनां कृते सर्वकारात्/ मान्यताप्राप्तनिकायेभ्यः विगतपञ्चवर्षेषु प्राप्तानां पुरस्काराणां/ सम्मानानां वार्षिकयोगः।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
1 1 0 0 01

 

File DescriptionDocument
Number of awards for extension activities in last 5 year (Data Template)(• विगतपञ्चवर्षेषु पुरस्कारं प्राप्तवतां विस्तारकार्यक्रमाणां सङ्ख्या। (दत्तांशप्रारूपम्)) View Document
e-copy of the award letters(पुरस्कारपत्राणां वैद्युतप्रतिलिपिः।) View Document
Any additional information (अतिरिक्ताः सूचनाः) View Document

 

3.6.3 Number of extension and outreach Programmes conducted in collaboration with industry, community and Non- Government Organisations through NSS/ Swaccha Bharata Abhiyana/ NCC/ Red cross/ YRC etc., during the last five yearsविगतपञ्चवर्षेषु उद्योगसंस्थायाः, समुदायस्य तथा असर्वकारीयसंस्थानां सहयोगेन राष्ट्रियसेवायोजना/ स्वच्छभारताभियानः/ राष्ट्रियबालचरसङ्घः/ रेडक्रास्/ वाई-आर्-सी इत्यादीनां माध्यमेन आयोजितानां विस्तारकार्यक्रमाणां बहिर्मुखकार्यक्रमाणाञ्च सङ्ख्या।

Answer: 25

3.6.3.1 Number of extension and outreach Programmes conducted in collaboration with industry, community and Non-Government Organisations through NSS/Swaccha Bharata Abhiyana/NCC/Red cross/YRC etc., year-wise during the last five yearsविगतपञ्चवर्षेषु उद्योगसंस्थायाः, समुदायस्य तथा असर्वकारीयसंस्थानां सहयोगेन राष्ट्रियसेवायोजना/ स्वच्छभारताभियानः/ राष्ट्रियबालचरसङ्घः/ रेडक्रास्/ वाई-आर्-सी इत्यादीनां माध्यमेन आयोजितानां विस्तारकार्यक्रमाणां बहिर्मुखकार्यक्रमाणाञ्च वार्षिकी सङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
06 05 09 05 00

 

File DescriptionDocument
Reports of the event organized (आयोजितकार्यक्रमस्य प्रतिवेदनम्) View Document
Number of extension and outreach Programmes conducted with industry, community etc for the last five years (Data Template)( विगतपञ्चवर्षेषु उद्योगसंस्थायाः, समुदायस्य तथा असर्वकारीयसंस्थानां सहयोगेन राष्ट्रियसेवायोजना/ स्वच्छभारताभियानः / राष्ट्रियबालचर View Document
Any additional information (अतिरिक्ताः सूचनाः) View Document

 

3.6.4 Average percentage of students participating in extension activities with Government Organisations, Non-Government Organisations and Programmes such as Spoken Sanskrit Camps/ Shibiras /Yoga camps/ etc. during the last five years.विगतपञ्चवर्षेषु सर्वकारीयसंस्थाभिः असर्वकारीयसंस्थाभिश्च सह समायोजितेषु संस्कृतसम्भाषणशिबिर-योगशिबिरादिविस्तारकार्यक्रमेषु छात्राणां भागग्राहितायाः मध्यमानस्य प्रतिशतता।

Answer: 96.68

3.6.4.1 Total number of students participating in extension activities with Government Organisations, Non-Government Organisations and Programmes such as Spoken Sanskrit Camps/ Shibiras/ Yoga camps/ etc. year-wise during the last five years.विगतपञ्चवर्षेषु सर्वकारीयसंस्थाभिः असर्वकारीयसंस्थाभिश्च सह समायोजितेषु संस्कृतसम्भाषणशिबिर-योगशिबिरादिविस्तारकार्यक्रमेषु छात्राणां भागग्राहितायाः वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
451 502 405 310 211

 

File DescriptionDocument
Report of the event (कार्यक्रमस्य प्रतिवेदनम्) View Document
Details of students participating in extension activities with Govt. or NGO etc (Data Template) View Document
Any additional information (अतिरिक्ताः सूचनाः) View Document

 

3.6.5 The University gives attention to make Sanskrit and Shastra learning popular in the surrounding areas by offering evening courses. Provide detailsविश्वविद्यालयः प्रतिवेशिक्षेत्रेषु संस्कृतस्य शास्त्राणाञ्च लोकप्रियतासम्पादनाय सान्ध्यपाठ्यक्रमान् निर्वर्तयति? यद्येवम्, तर्हि विवरणं देयम्।

Answer:

महर्षिपाणिनिसंस्कृत-एवं-वैदिक-विश्वविद्यालयः प्रतिवेशिक्षेत्रेषु संस्कृतस्य शास्त्राणाञ्च लोकप्रियतासम्पादनाय सान्ध्यपाठ्यक्रमान् नियतरूपेण निर्वर्तयति । सान्ध्यपाठ्यक्रमे न केवलं सामाजिकाः अपि तु परिसरच्छात्राः अपि भागं गृह्णन्ति।

सान्ध्यकालीनविद्यालयः- संस्कृतशिक्षणप्रशिक्षणक्रेन्द्रद्वारा केन्द्रीयसंस्कृतविश्वविद्यालयनवदेहली इत्यस्य आर्थिकानुदानेन उज्जैननगरे श्रीलोकमान्यतिलकविद्यालयस्य प्राङ्गणे  सान्धकालीनो विद्यालयः चाल्यते।

संस्कृतसम्भाषणशिबिराणि-

   विश्वविद्यालयद्वारा संस्कृतभाषायाः प्रचारप्रसाराभ्यां समाजे  संस्कृतसम्भाषणशिबिराणि चाल्यन्ते। यत्र छात्राणाम् एव न अपि तु सामाजिकानाम् अपि भागग्रहणं सञ्जायते। सामाजिकानां संस्कृतस्य अध्ययनोन्मुखतायाः सम्पादनम् अपि अत्र सम्पाद्यते। अनेन छात्राः नागरिकाः च लाभान्विताः भवन्ति। छात्राः सामाजिकाश्च दैनन्दिनव्यवहारोपयोगिसंस्कृते भाषणस्य लेखनस्य पठनस्य च प्रारम्भिकक्षमतायाः विकासाय समर्थाः भवन्ति । व्यावहारिकदृष्ट्या महत्त्वपूर्णानां समेषां भावानां संस्कृते अभिव्यक्तिक्षमतायाः विकाससम्पादनम् भवन्ति । अत्र अध्येतुः भाषायाः परिष्करार्थं तथा संस्कृतस्य सरलकाव्यानाम् अवबोधनसम्पादनार्थं च यत्नः विधीयते। अत्र अध्येता उच्चस्तरीयेन संस्कृतभाषायाः शिक्षणेन सह काव्यस्य अध्ययनं कर्तुं शक्नोति। अत्र अध्येता भाषाप्रयोगकौशलेन सह संस्कृतस्य अध्ययनं विदधाति।

एतस्मिन् सान्ध्यविद्यालये संस्कृभाषायाः महत्त्वं  सम्पाठ्य तस्यां सम्भाषणदक्षता यथा आगच्छेत् तथा पाठ्यते। संस्कृते लिखितानां वेदादिशास्त्रामां परिचयः तेषां जीवने समाजे च उपयोगः शिक्ष्यति। अत्र सहता उत्साहेन नागरिकाः वरिष्ठाः कनिष्ठाश्च अध्येतारः भवन्ति।

 

File DescriptionDocument
Any additional information (अतिरिक्ताः सूचनाः) View Document

 

3.6.6 Teachers participate in the live commentaries / lectures / discussion programmes on the print and electronic media. Provide details.वार्त्तापत्रेषु वैद्युतिकगणमाध्यमेषु च प्रत्यक्षविवरणप्रदानाय/ धाराविवरणप्रसारणाय/ परिसंवादकार्यक्रमाय शिक्षका भागग्राहिणो भवन्ति, विवरणानि देयानि।

Answer:

वार्तापत्रेषु वैद्युतिकगणमाध्यमेषु च प्रत्यक्षविवरणप्रदानाय धाराविवरणप्रदानाय परिसंवादकार्यक्रमाय च महर्षिपाणिनिसंस्कृत-एवं-वैदिक-विश्वविद्यालयस्य शिक्षकाः असकृत् भागं गृह्णन्ति। विश्वविद्यालयस्य मुख्यपरिसरः पुण्यक्षेत्रे पुराणेतिहासप्रसिद्धप्रान्ते उज्जयिनीनगरे वर्तते। अतः एतादृशक्षेत्रे कार्यक्रमाः अपि प्रचुरमात्रेण आयोज्यन्ते। तत्र अस्माकं परिसरीयाः प्राध्यापकाः प्रस्तुतीकर्तुं परिचर्चां कर्तुं च गच्छन्ति। प्रादेशिकासु वार्तापत्रिकासु आकाशवाण्यां वा शिक्षकाणां सक्रियभागग्रहणं वर्तते ।

येषां वार्ता आकाशवाण्यां  दूरदर्शने च नैकवारमभूत्। तैः कृतायाः वार्तायाः विवरणम् अधस्तनं विद्यते।

क्र.सं

प्राध्यापकः

आयोजक-संस्था

प्रसारणम्

दिनाङ्कः

01

डॉ.पूजा उपाध्याय

प्रसार भारती, आकाशवाणी-इन्दौर

संस्कृत वार्ता - भर्तृहरीनीतिशतक व्यवहार मीमांसा

29/10/2015

02

डॉ.पूजा उपाध्याय

प्रसार भारती, आकाशवाणी-इन्दौर

दिव्य धारा- वार्ता- सांस्कृतिक भाषा संस्कृत

31/01/2015

03

डॉ.पूजा उपाध्याय

प्रसार भारती, आकाशवाणी-इन्दौर

 दिव्य धारा- वार्ता- समकालीन संस्कृत साहित्य के उज्ज्वल नक्षत्र

30/08/2014

04

डॉ.शुभम् शर्मा

दूरदर्शन भोपाल

कालिदास समारोह विवरण

06/11/2022

05

डॉ. शुभम् शर्मा

मराठा प्रहार न्यूज, See India News

विश्व पर्यटन दिवस पर सांस्कृतिक भ्रमण

27/09/2022

06

डॉ. विजय कुमार

Radio Gramoday channel Haryana

वास्तुशास्त्र कि सामाजिक उपयोगिता

19/01/2022

07

डॉ. विजय कुमार

हिमाचल प्रदेश केन्द्रीय संस्कृत विश्वविद्यालय, धर्मशाला

व्याख्यान विषय – ज्योतिष परिचय

03/10/2022

08

श्री प्रणव कश्यप

हिमाचल प्रदेश केन्द्रीय संस्कृत विश्वविद्यालय, धर्मशाला

व्याख्यान विषय – वेद परिचय

03/10/2022

09

श्री मानवेन्द्र मण्डल

हिमाचल प्रदेश केन्द्रीय संस्कृत विश्वविद्यालय, धर्मशाला

व्याख्यान विषय – भारतीय दर्शन एक परिचय

03/10/2022

एतद्विहाय विश्वविद्यालयस्य माननीयाः कुलपतयः इतरे शिक्षकाश्च विविधाभ्यः संस्थाभ्यः देशे विदेशे च आयोजितेषु आभासीयकार्यक्रमेषु विशेषामन्त्रितव्याख्यानानि आयच्छन् विश्वविद्यालयद्वारापि गूगलमीट जूम इत्यादिभिः आभासीयपटलमाध्यमेन विविधानि आयोजनानि विगतेषु पञ्चवर्षेषु आयोजितानि सन्ति।

विश्वविद्यालये कार्यरतानां शिक्षकाणां समाचारप्तरेषु आकाशवाण्यां दूरदर्शने च वार्तानां प्रासारणं जायते। तत्र विशिष्टसंस्कृतविभागे सहायकाचार्याः डॉ. पूजाउपाध्यायाः नैकवारम् आकाशवाण्यां वार्ता- प्रासारिष्यत। एवमेव ज्योतिष-ज्योतिर्विर्ज्ञानविभागे सहायकाचार्यस्य डॉ. शुभम्-शर्ममहोदयस्य व्याकरणविभागे सहायकाचार्यस्य डॉ. अखिलेशकुमारद्विवेदिनोऽपि वार्ताः प्रसारिताः अभूवन्।

 

File DescriptionDocument
Any additional information (अतिरिक्ताः सूचनाः) View Document

3.7.1 University’s collaboration with other agencies impacted the visibility, identity and diversity of activities on campus? To what extent has the university benefitted academically and financially because of collaborations? The nature of the skill development Programmes introduced for students initiated by the University in collaboration with professional bodies.विश्वविद्यालयस्य इतरसंस्थाभिः सह संयुक्तोपक्रमः परिसरस्य परिदृश्यं, परिचयं, विविधक्रियाकलापांश्च प्रभावयति? संयुक्तोपक्रमद्वारा विश्वविद्यालयः कियता परिमाणेन शैक्षिकदिशा आर्थिकदिशा च लाभान्वितो भवति? अन्यासां वृत्तिप्रदातृसंस्थानां सहयोगेन छात्राणां कौशलविकासाय विश्वविद्यालयेन समारब्धानां पाठ्यक्रमाणां विवरणम्।

Answer:

“यत्साधितं गुरुतरैर्विविधैः प्रयत्नैः तद् रोचते हि परमं पुरुषस्य लक्ष्यम्” इति सूक्तमनुस्मरन्  महर्षिपाणिनिसंस्कृत-एवं-वैदिक-विश्वविद्यालयः इतरसंस्थाभिः सह शैक्षिकक्रियाकलापेषु संस्कृतसंवर्धनकार्यक्रमेषु च औपचारिकरूपेण अनुबन्धं संस्थापयति। यथा-

1. विश्वविद्यालये सम्भाषणशिबिराणि, प्रशिक्षणवर्गाः, भाषाप्रबोधनकार्यशालाः महाविद्यालयच्छात्रप्रशिक्षणवर्गाश्च आयोज्यन्ते। अस्मिन् सन्दर्भे संस्कृतभारती इत्यस्याः संस्थायाः सहयोगः सर्वदा भवति। संस्कृतभारत्याः सहयोगेन अस्माकं छात्राः सम्भाषणशिबिराणि सञ्चालयितुं प्रशिक्षिताः सन्ति। विभिन्नेषु स्थानेषु गत्वा संस्कृतस्य प्रचारपराणि सरलानि संस्कृतसम्भाषणशिबिराणि सञ्चालयन्ति।

2. महर्षिपाणिनिसंस्कृत-एवं-वैदिक-विश्वविद्यालयः प्रतिवर्षं युवमहोत्सवसमारोहः आयोज्यते। अत्र राज्य स्तरीय प्रतियोगितायामनेके महाविद्यालयाः भागं गृह्णन्ति । एतस्य अङ्गतया छात्रेभ्यः विविधाः शैक्षिकाः सांस्कृतिकाः क्रीडापराः च प्रतियोगिताः आयोज्यन्ते। यस्मात् तेषां शारीरिक मानसिक योग्यतायाः वृद्धिः जायते । अस्य समारोहस्य सम्पादने विश्वविद्यालयस्य परिपूर्णः सहयोगः वर्तते।

3. विक्रम विश्वविद्यालयस्य कालिदासाकादम्याश्च प्रतिष्ठापूर्णे अखिलभारतीयकालिदाससमारोहस्य कार्यक्रमे महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयीयाः छात्राः भागं गृह्णन्ति। येन छात्राणां शारीरिकमानसिकबौधिकरचनात्मकतायाः विकासो जायते। आयोजने सहयोगं कुर्वन् विश्वविद्यालयः समारोहस्याङ्गभूतस्य संस्कृतकविसमवायस्य संयोजनं करोति। यत्र देशस्य विविधप्रान्तेभ्यः महाकवयः सहभागं कुर्वन्ति। तत्र आयोजितासु प्रतियोगितासु च विश्वविद्यालयीयाः छात्राः प्रतिभागं कुर्वन्ति, विशिष्टं स्थानं लब्ध्वा पारितोषिकं प्रमाणपत्रं स्मृतिचिह्नं (शील्ड) च प्राप्नुवन्ति।

4. त्रिवेणीसङ्ग्रहालयेन सह कार्यक्रमः-  महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः उज्जयिनीस्थत्रिवेणीकलासङ्ग्रहालयेन सह विविधान् कार्यक्रमान् आयोजयति। तत्र गुरुपूर्णिमामहोत्सवे राष्ट्रियसङ्गोष्ठी, काले काले विशिष्टानि नैकानि व्याख्यानानि च विशेषतया उल्लखनीयानि सन्ति। येषु विश्वविद्यालयीयाः छात्राः शिक्षकाश्च भागं स्वीकुर्वन्ति। येषां महाकालेश्वरकेदारनाथज्योतिर्लिङ्गः इति विषयं स्वीकृत्य एका राष्ट्रियसङ्गोष्ठी आयोजिता।

5. उज्जयिनीस्थविक्रमादित्यशोधपीठसंस्थानेन सह महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः नैकान् कार्यक्रमान् संयोजयति। तत्र त्रिदिवसीया अन्ताराष्ट्रियशोधसङ्गोष्ठी मुख्यतया विद्यते। यस्याः विषयः आसीत्, वास्तुशास्त्रीयनगरनियोजन एवं राजा भोज। एवमन्येऽपि सारस्वतोपक्रमाः काले काले तेन सह आयोज्यन्ते विश्वविद्यालयेन।

6. महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः समाजाय लाभं प्रदातुमन्यसंस्थाभिः सह योगप्रशिक्षणकार्यक्रमान् समायोजयति। तत्र योगदिवसोपलक्ष्ये माधवसेवान्याससंस्थायाः सहयोगेन तथा भारतीयकृत्रिमाङ्गनिर्माणनिगमेन सह योगप्रशिक्षणकार्यक्रमं समचालयत्।

7. महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः जनाभियानपरिषदा सह वृद्धजनदिवसोपलक्ष्ये वृद्धजनसम्मानकार्यक्रमम् अर्चकप्रशिक्षिणकार्यशालां च आयोजितवान्।

 

File DescriptionDocument
Any additional information (अतिरिक्ताः सूचनाः) View Document
Provide link for additional information (अतिरिक्तसूचनानां सन्धानम्।) View Document

 

3.7.2 Number of functional MoUs with institutions of national, international importance, other universities, industries, corporate houses etc. during the last five years (only functional MoUs with ongoing activities to be considered)राष्ट्रिय-अन्ताराष्ट्रियमहत्त्वशालिनीभिः संस्थाभिः, विश्वविद्यालयैः, औद्योगिकपरिवारैः च सह कृतानाम् आर्थिकानुबन्धानां सङ्ख्या (केवलं प्रवर्तमानगतिविधीनामेव आर्थिकानुबन्धसहयोगपत्राणि स्वीकरणीयानि)

Answer: 16

3.7.2.1 Number of functional MoUs with institutions of national, international importance, other universities, industries, corporate houses etc. year-wise during the last five yearsविगतपञ्चवर्षेषु राष्ट्रिय-अन्ताराष्ट्रियमहत्त्वशालिनीभिः संस्थाभिः, विश्वविद्यालयैः, औद्योगिकपरिवारैः च सह कृतानाम् अधुना प्रवर्तमानानाम् आर्थिकानुबन्धानां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
3 11 2 0 0

 

File DescriptionDocument
e-copies of the MoUs with institution/ industry/ corporate house(संस्थाभिः, विश्वविद्यालयैः, औद्योगिकपरिवारैः च हस्ताक्षरितानाम् आर्थिकानुबन्धपत्राणां वैद्युतप्रतिलिपयः।) View Document
Details of functional MoUs with institutions of national, international importance, other universities etc. during the last five years (Data Template) (विगतपञ्चवर्षेषु राष्ट्रिय-अन्ताराष्ट्रियमहत्त्वशालिनीभिः संस्थाभिः, विश्वविद्यालयैः, औद्योगिकपरिवारैश्च सह संस्थया कृतानां प्रवर्तमानार्थिकानुबन्धपत्राणां विवरणम्। (दत्तांशप्रारूपानुगुणं सांस्थानिकदत्तांशः) View Document
Any additional information (अतिरिक्ताः सूचनाः) View Document

 

3.7.3 Provide details of the Joint publication Programme of the University in collaboration with other Universities/institutes and well established publishing firmsविश्वविद्यालयस्य इतरविश्वविद्यालयैः/ लब्धप्रतिष्ठप्रकाशनसंस्थाभिः सह संयुक्तप्रकाशनकार्यक्रमस्य विवरणं प्रदीयताम्

Answer:

   

   महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य प्राध्यापकाः सततमेव शास्त्राणामध्ययने अध्यापने शोधकार्ये च संलग्नाः सन्तः ज्ञानाभिवर्धनं कुर्वन्ति। तस्य ज्ञानाभिवर्धनस्य लाभं पाठकाः गृहणीयुः तदर्थं ग्रन्थान् लिखन्ति। नूत्नाः विशिष्टाः रचनाः क्रियन्ते। तथा तेषां प्रकाशनं च कारयन्ति । तत्र प्राध्यापकैः कृतानां  ग्रन्थानां महत्त्वं विज्ञाय बाह्यप्रकाशकाः प्रकाशयितुम् उत्साहं जनयन्ति।

 महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य प्राध्यापकानां प्राचीनदुर्लभसंस्कृतग्रन्थानां प्रकाशनाय महाराजाविक्रमादित्यशोधपीठम् इत्यादिभिः विभिन्नलब्धप्रतिष्ठप्रकाशनसंस्थाभिः आर्थिकसहयोगेन अवसरः प्रकल्पितः वर्तते। एतदनु ग्रन्थाः प्रकाशिताः । तद्यथा-

क्र.

प्राध्यापकस्य नाम

ग्रन्थनाम

प्रकाशकः

ISBN

  1.  

डॉ. तुलसीदासपरौहा

सुमङ्गली

मध्यप्रदेश-जन-अभियानपरिषद् भोपालम्

978-5891-478-8

  1.  

डॉ. तुलसीदासपरौहा

आचार्यसमर्पणम्

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः रामटेकनागपुरं महाराष्ट्रम्

978-93-85-710-90-2

  1.  

डॉ. पूजा उपाध्याय

संस्कृत वाङ्गमय में जलप्रबन्धन

महाराजाविक्रमादित्यशोधपीठम्, उज्जयिनी

978-93-92-904-12-7

  1.  

डॉ.शुभम् शर्मा

त्रयी

मध्यप्रदेशहिन्दीग्रन्थ-अकादमी भोपालम्

978-93-94032-78-1

  1.  

डॉ.अखिलेशकुमारद्विवेदी

 भारतीय काव्यशास्त्र एवं व्याकरण

वर्धमान महावीर खुला विश्वविद्यालय कोटा  

978-81-8496-067-9

 

File DescriptionDocument
Any additional information (अतिरिक्ताः सूचनाः) View Document

2.1.1 Average percentage of students from other States and Countries during the last five yearsविगतेषु पञ्चसु वर्षेषु अन्येभ्यः राज्येभ्यः राष्ट्रेभ्यश्च प्रविष्टानां छात्राणां मध्यमानस्य प्रतिशततायाः मानम्।

Answer: 2.79

2.1.1.1 Number of students from other states and Countries, year-wise during the last five yearsविगतेषु पञ्चसु वर्षेषु अन्येभ्यः राज्येभ्यः राष्ट्रेभ्यश्च प्रविष्टानां छात्राणां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
27 12 4 7 6

 

File DescriptionDocument
List of students (other states and countries) छात्रसूची (अन्येभ्यः राज्येभ्यः/ राष्ट्रेभ्यश्च) View Document
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Copy of the domicile certificate/passport from respective countries) अधिवासप्रमाणपत्रम् /आज्ञापत्रम् (सम्बद्धदेशानां) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.1.2 Demand Ratio (Average of last five years)अभियाचनायाः अनुपातः (विगतानां पञ्चानां वर्षाणां मध्यमानम्)

Answer: 88.91

2.1.2.1 Number of eligible applications received for admissions to all the Programmes year-wise during the last five yearsविगतेषु पञ्चसु वर्षेषु प्रचालितेषु सर्वेषु कार्यक्रमेषु प्राप्तार्हतानाम् आवेदनपत्राणां वार्षिकक्रमेण सम्पूर्णा सङ्ख्या

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
217 240 205 176 162

 

2.1.2.2 Number of seats available year-wise during the last five years.विगतेषु पञ्चसु वर्षेषु प्रतिवर्षम् उपलब्धानां स्थानानां सङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
275 260 205 195 195

 

File DescriptionDocument
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.1.3 Average percentage of seats filled against seats reserved for various categories (SC, ST, OBC, Divyangjan, etc.) as per applicable reservation policy during the last five yearsविगतेषु पञ्चसु वर्षेषु, आरक्षणनीत्यनुसारेण, नानाप्रवर्गेभ्यः (अनुसूचितजातिः, अनुसूचितजनजातिः, अन्य-अप्रगतजातिः, दिव्याङ्गजनाः, इत्यादयः) निर्दिष्टेषु आरक्षितस्थानेषु, सम्पूरितानाम् आरक्षितस्थानानां प्रतिशतं मध्यमानस्य प्रतिशतता।

Answer: 29.7

2.1.3.1 Number of actual students admitted from the reserved categories year-wise during the last five yearsविगतेषु पञ्चसु वर्षेषु प्रतिवर्षम् आरक्षितप्रवर्गेभ्यः प्राप्तप्रवेशानां छात्राणां सङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
49 33 24 36 27

 

2.1.3.2 Number of seats earmarked for reserved category as per GOI/State Govt. rule year-wise during the last five yearsविगतेषु पञ्चसु वर्षेषु  भारतशासनस्य अथवा राज्यशासनस्य नियमानुरूपम् आरक्षितप्रवर्गेभ्यः निर्दिष्टानां स्थानानां वार्षिकी सङ्ख्या

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
138 130 103 98 98

 

File DescriptionDocument
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

2.2.1 The institution assesses the learning levels of the students, after admission and organises special programmes (including spoken Sanskrit shibirams/ camps/ workshops/ summer schools etc.) for advanced learners and slow learnersछात्राणां प्रवेशानन्तरं संस्था तेषाम् अधिगमस्तरान् परीक्षते, अग्रसराधिगन्तॄणां मन्दाधिगन्तॄणां च कृते विशिष्टान् शैक्षिकपाठ्यक्रमान् (संस्कृतसम्भाषणशिबिराणि/ आवासीयशिबिराणि/ कार्यशालाः/ ग्रीष्मकालिकशिबिराणि इत्यादि) आयोजयति।

Answer:

“मुण्डे मुण्डे मतिर्भिन्ना” इत्यनेन सुभाषितेन सिद्धयति यत् सर्वे छात्राः समस्तरीयाः न भवन्ति। तथा कक्षानुगुणेनापि एवमनुभूतं यत् महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये विभिन्नपृष्ठभूमीनां विभिन्नक्षेत्राणामप्रगतसमुदायानां छात्राणामावश्यकतानुगुणम्(आवश्यकतां परिपूरयितुम्) अनेकविधोपायान् कल्पयति। -

    विश्वविद्यालयस्य छात्राः एव मूलधनं सन्ति। छात्राणां सर्वतोमुखी विकासः एव विश्वविद्यालयस्य शिक्षकाणां च मूलमुद्देश्यं भवति।

विद्यार्थिनां मूल्याङ्कनम्-

    प्रथमतः यत्र शिक्षणे गुरुकुलपद्धत्याः आदर्शेषु यथा- संवादशैल्यामध्यापनम्, प्रश्नप्रोत्साहनम्, सरलोदाहरणमाध्यमेन विषयस्य स्पष्टीकरणञ्चेत्यादयः प्रयोगाः क्रियन्ते। द्वितीयं कक्षायाः बाह्यप्रकृतिः, समाजादिना शिक्षणमुत्कृष्टं कर्तुं प्रयोगाः अपि क्रियन्ते।

प्रगतच्छात्राणाङ्कृते –

  1. वाक्यार्थपरिषत्- विश्वविद्यालयीयाः अध्यापकाः शास्त्रीयमेकं विषयमवलम्ब्य आदर्शरूपेण वाक्यार्थं कुर्वन्ति। परिषदः अधिवेशने उपस्थिताः छात्राः शास्त्रवाक्यार्थप्रणालीम् अभ्यस्यन्ति। विश्वविद्यालये अधिगमप्रणालीयम् आचर्यते।
  2. स्पर्धानाम् आयोजनम्- काले काले शैक्षिकाः सांस्कृतिकाश्च विविधाः स्पर्धाः आयोज्यन्ते। भारतीयविद्यास्थानानां बोधनार्थाय स्फूर्तिस्पर्धा आयोज्यते। अग्रसराध्येतारः छात्राः तत्र भागमूढ्वा प्रयोजनं लभन्ते । राज्यस्तरीयस्पर्धायां भागग्रहणाय प्रशिक्षणं प्रदीयते छात्राणाङ्कृते। विश्वविद्यालये कालिदासदिवसप्रसङ्गे प्रतियोगितायाः अपि आयोजनं क्रियते।
  3. विशिष्टव्याख्यानम्- विश्वविद्यालये विशिष्टव्याख्यानानि आयोज्यन्ते। शास्त्राणां, संस्कृतभाषायाः, भारतीयसंस्कृतेः अन्येषु मौल्यप्रतिपादकेषु विषयेषु व्याख्यानानि आयोजितानि भवन्ति। आमन्त्रिताः विशिष्टाः विद्वांसः व्याख्यानं कुर्वन्ति। छात्राः तत्र लाभं प्राप्नुवन्ति ।
  4. प्रतियोगितासु मार्गदर्शनम्- शैक्षिक/सांस्कृतिक/क्रीडास्पर्धासु राज्यस्तरीयासु राष्ट्रस्तरीयासु भागग्रहणाय मार्गदर्शनं क्रियते। छात्राः बहिः प्रवर्तमानासु प्रतियोगितासु सोत्साहं भागं गृह्णन्ति।
  5. प्रोत्साहनम् अभिप्रेरणा- राज्यस्तरीयराष्ट्रस्तरीयस्पर्धासु प्राप्तपुरस्काराणां छात्राणां विश्वविद्यालयपक्षतः अभिनन्दनं क्रियते। सामाजिकजालपुटेषु वार्ता प्रसार्यते। विश्वविद्यालयस्य पत्रिकायां पाणिनिधारा इत्यत्र पुरस्कारवृत्तान्तः प्रकाश्यते। एतादृशैः उत्साहवर्धकैः कार्यैः अन्येऽपि छात्राः प्रेरिताः भवन्ति।
  6. सभासञ्चालनम्- विश्वविद्यालये विविधकार्यक्रमाणां सञ्चालनं स्वागतकथनम्, धन्यताविष्करणम् इत्यादिकौशलं प्राप्तुम् अवसरः कल्प्यते ।
  7. शास्त्रार्थप्रशिक्षणवर्गः- छात्रेषु शास्त्रीयं विशिष्टं ज्ञानम् आधातुं विश्वविद्यालयद्वारा शास्त्रार्थप्रशिक्षणवर्गः आयोज्यते। विश्वविद्यालयस्तरे चिताः अग्रेसराध्येतारः छात्राः प्रशिक्षणवर्गे भागं गृह्णन्ति ।

मन्दाध्येतॄणां कृते-

  1. आवासीयशिबिरम्- लेखनकौशलवर्धनाय आवासीयशिबिरं चाल्यते।
  2. प्रशिक्षणवर्गेषु भागग्रहणार्थं प्रोत्साहनम्- अन्यसंस्थाद्वारा प्रचाल्यमानेषु भाषाबोधनवर्गः, वेदशिक्षणम्, शास्त्रार्थप्रशिक्षणवर्गः, सम्भाषणशिबिरम् इत्यादिप्रशिक्षणवर्गेषु भागग्रहणाय छात्राणां कृते अवसरः कल्प्यते।
  3. प्रवेशपरीक्षाणां मार्गदर्शनम्- विशिष्टाध्ययनार्थम् विभिन्नपाठ्यक्रमेषु प्रवेशं लब्धुं NET, SET/SLET इत्यादिपरीक्षासु छात्राणां कृते मार्गदर्शनं क्रियते। विश्वविद्यालयीयाः छात्राः स्नातक/ स्नातकोत्तरपाठ्यक्रमस्य अवधौ एतन्मार्गदर्शनं प्राप्य उन्नताध्ययने प्रवेशं लभन्ते।
  4. लघुचलच्चित्रनिर्माणे मार्गदर्शनम्- संस्कृते लघुचलच्चित्रनिर्माणार्थम् अवसरः कल्प्यते। विश्वविद्यालये लघुचलच्चित्रस्पर्धाम् आयोजयति।
  5. पर्यटनकार्यक्रमाः- छात्राणां विशिष्टानुभवप्राप्तये विश्वविद्यालयः पर्यटनकार्यक्रमान् आयोजयति। विश्वविद्यालये विश्वपर्यटनदिवसस्य अवसरे विशेषाः कार्यक्रमाः “चलें गाँव की चौखट पे” इत्यादिरूपेण क्रियन्ते।

संस्कृतसम्भाषणकौशलप्रशिक्षणवर्गः-

  1. संस्कृतशिक्षणप्रशिक्षणाय विश्वविद्यालये स्वतन्त्रं केन्द्रं स्थापितं वर्तते, यत् काले काले वर्गमाणाम् आयोजनं करोति। एतेषु वर्गेषु न केवलं सामान्यभाषणस्य प्रशिक्षणं भवति, अपितु सन्धिः, समासः, करकम् इत्यादिविषयाधारितस्वतन्त्रवर्गाणामपि सम्पादनं क्रियते।
  2. Covid 19 इत्यस्य कालेऽपि ऑनलाइन कक्षायाः आयोजनं कृत्वा छात्रान् समाजेन सह योजयितुं कार्यं कृतम् ।

कर्मकाण्डकार्यक्रमाः-

कर्मकाण्डं संस्कृतक्षेत्रसम्बद्धः बृहद् विषयः अस्ति । सर्वेषां छात्राणां कृते विशेषतः पौरोहित्यस्य वेदविषयस्य च छात्राणां कृते सरस्वतीपूजा,गणेशोत्सवः, रुद्राभिषेकम् इत्यादीनां माध्यमेन छात्रान् कर्मकाण्डेन सह प्रयोगात्मकरूपेण संयोजयितुं अवसराः प्रदीयन्ते। महालक्ष्मीपूजाविधानसदृशाः विशेषप्रशिक्षणकार्यशालाः अपि आयोज्यन्ते।

विशेषकार्यक्रमाणामायोजनम्-

संस्कृतस्य छात्राः विज्ञानेन अपि परिचिताः भवेयुः इति निश्चित्य संस्कृतविज्ञानपरिसंवादः, गणितदिवसः इत्यादयः कार्यक्रमाः आयोज्यन्ते ।

 सङ्गोष्ठी –

विश्वविद्यालये अनेकाः अन्ताराष्ट्रियसङ्गोष्ठ्याः राष्ट्रियगोष्ठ्याः, विशेषव्याख्यानानि, प्रशिक्षणकार्यक्रमाश्च अत्यधिकतया आयोज्यन्ते। येन छात्राः विषयविशेषज्ञानानाम् व्याख्यानानि श्रुत्वा स्वज्ञानवर्धनम्, अद्यतनीकरणं च कर्तुं शक्नुवन्ति।

वेधशालायाः भ्रमणम्-

उज्जयिन्यां ज्योतिषकालगणनायाः क्रेन्द्रभूतं वेधशालाद्वयं विद्यते। तत्र एका जीवाजीवेधशाला अपरा च डोंगलावेधशाला। अत्र ज्योतिषः छात्राः समयानुसारं वेधशालाभ्रमणं कुर्वन्ति।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document
Provide link for additional information अतिरिक्तसूचनानां सन्धानम् View Document

 

2.2.2 Student - Full time teacher ratioछात्राणां पूर्णकालिकाध्यापकानां च अनुपातः

Answer: 16.5

File DescriptionDocument
Any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document

 

Other Upload Files
1 View Document

2.3.1 Student centric methods, such as experiential learning, participative learning and learning through dialogue mode and use of hermeneutics in the teaching of knowledge texts and Kavyas, problem solving methodologies are used for enhancing learning experiences.अनुभवात्मकः अधिगमः, सहभागी अधिगमः, संवादपद्धत्या अधिगमः इत्यादयः छात्रकेन्द्रितविधयः, वादपद्धत्या शिक्षणं, शास्त्राणां काव्यानां च पाठने टीकाभाष्यादिपद्धतयः समस्यापरिष्कारविधिविज्ञानानि च अधिगमानुभवसमभिवर्धनाय उपयुज्यन्ते।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये भारतीयज्ञानशाखानां सुसम्पन्ना पठनपाठनपरम्परा विद्यते। शिक्षकः छात्राणां स्तरं ज्ञात्वा एव पाठनीयं विषयमुपयुक्तविधिना पाठयति। काले पर्यवेक्षते परीक्षते च। तत्र छात्रकेन्द्रिताः विधयः-

  1. अनुभवात्मकाधिगमः- संस्कृतसाहित्ये शृङ्गारादिनवरसानां परिचयं कक्षायां छात्राः प्राप्नुवन्ति। फलितज्योतिषे जातकस्य कुण्डल्यां फलादेशविचारःपाठ्यते। विद्यार्थिनः स्वकीयानुभवद्वारा फलादेशविज्ञानं जानन्ति। योगविभागस्य छात्रैः समाजाय सौजन्ययोगप्रशिक्षणस्य उपक्रमः क्रियते।  
  2. सहभागि-अधिगमः-  पादं सब्रह्मचारिभ्यः अनेन हेतुना छात्राः सहपाठिभिः  साकं पाठ्यांशमभ्यस्यन्ति। व्याकरणशास्त्रीयाः छात्राः पाठितानि सूत्राणि सहपाठिनः परस्परं पाठं चिन्तयन्ति। सिद्धान्तज्योतिषगणितविज्ञानप्रक्रियामपि एकत्रीभूय अभ्यस्यन्ति। तथा च फलितज्यौतिषे न्यायदर्शने, संस्कृतसाहित्ये, अद्वैतवेदान्तदर्शने, द्वयोः त्रयाणां च समूहं कृत्वा प्रत्येकस्य कृते एकैकः विषयः प्रदीयते। ते समूहरूपेण अभ्यस्यन्ति।
  3. संवादपद्धत्याधिगमः- विद्यार्थिनः व्याकरणशास्त्रे स्फोटवादस्य, साहित्ये काव्यप्रकाशस्य पाठ्यांशानां संवादं कुर्वन्ति। वेदान्तशास्त्रे ईशावास्योपनिषदं संवादात्मकतया अधिगच्छन्ति। ज्योतिषे, चिन्तनाधिगमस्य अवसरमधिकतया प्राप्नुवन्ति।

छात्रकेन्द्रितविधयः-

  1. प्रश्नविधिः- अयं प्राचीनः विधिः। प्रश्नोपनिषदि “ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं  प्रश्नान् पृच्छत” यदि विज्ञास्यामः सर्वं ह वो वक्ष्यामः इति निर्देशः प्राप्यते। कालांशे कश्चन कालः विद्यार्थिनां जिज्ञासाशान्त्यर्थं प्रदीयते। विद्यार्थिनः प्रश्नाः कुर्वन्ति। पाठितविषयस्य अध्ययनकाले समुत्पन्नाः प्रश्नाः आगामिकक्षायां पृच्छन्ति। ततः शिक्षकैः समाधानं क्रियते।
  2. प्रयोगपूर्वकं शिक्षणम्- संस्कृतसाहित्ये नाटकस्य, ज्यौतिषशास्त्रे फलादेशविज्ञानस्य, वेदे कर्मकाण्डस्य तथा च योगशास्त्रे आसनानां प्रायोगिकं ज्ञानं प्रदीयते।
  3. कण्ठस्थप्रोत्साहनविधिः- विश्वविद्यालये शब्दरूपपाठः, धातुरूपपाठः, अमरकोशः, सूक्तिपाठः, सूत्रपाठः, इत्यादिमाध्यमेन छात्रेषु शास्त्रकण्ठस्थीकरणाय अध्यापकैः  प्रोत्साहनं प्रदीयते।
  4. दृष्टान्तविधिः- व्याकरणे स्फोटः, वर्णनित्यत्वम्, वेदान्ते अध्यासः, भ्रमः, साहित्ये वृत्तयः, (लौकिकन्यायानाम् उपयोगः) एवं नैकेषां विषयाणां पाठने च एषः विधिः प्रयुज्यते। प्रदीयमानेन दृष्टान्तेन दार्शनिकसिद्धान्तस्य सुलभावगतिः भवति।
  5. अध्यारोप-अपवादविधिः- सोपानक्रमेण विषयोपन्यासेन अध्यापनम् । स्थूलात् सूक्ष्मं  प्रति अज्ञातात् ज्ञातं प्रति, इन्द्रियगम्याद् अतीन्द्रियं प्रति विषयं क्रमेण बोधयितुम् एषः विधिः आश्रीयते। अद्वैतवेदान्ते ब्रह्मणः स्वरूपकथनादौ प्रयुज्यते।
  6. आदर्शवाचनविधिः- पुराणानि, वेदमन्त्राः, काव्यानि इत्येतेषां पाठनाय विश्वविद्यालये प्राचुर्येण असौ विधिः स्वीक्रियते।
  7. समस्यासमाधानविधिः- शास्त्रीयविषयाणां पाठनसमये आदौ संशयः ततः समाधानं पुनः संशयः ततः समाधानम् इत्येवं क्रमेण सिद्धान्तस्य स्थापनं क्रियते। विश्वविद्यालयस्य पाठ्यक्रमेषु अत्यन्तोपयोगिनाम् एनं विधिम् आश्रयन्ते अध्यापकाः ।
  8. परीक्षाविधिः- शास्त्राणां दृढावगतिसम्पादनाय शलाकाप्रतियोगिता क्रियते। अवान्तरविषये पाठिते घटकपरीक्षा क्रियते।

वादपद्धत्या शिक्षणम्-

  1. वादविधिः- “वादे वादे जायते तत्त्वबोधः” इति उक्त्यनुसारेण शास्त्रीयग्रन्थेषु दर्शनग्रन्थेषु च प्रमेयविचारः वादसरण्या प्रतिपादितो वर्तते। अतः वेदान्ते न्याये व्याकरणे  साहित्ये च अध्यापकाः अमुं विधिम् आश्रयन्ते। वाक्यार्थपरिषदि अध्यापका विशेषतः अनेन विधिना प्रमेयं प्रतिपादयन्ति ।
  1. टीकाभाष्यपद्धतिः- विभिन्नपाठ्यक्रमेषु विद्यमानानां शास्त्रीयग्रन्थानां पाठनाय टीकापद्धतिः अत्यन्तम् उपादेया वर्तते ।
  2. व्याख्यानविधिः- प्रसिद्धोऽयं विधिः समान् शास्त्रविषयान् च बोधयितुम् अवलम्ब्यते। एतैः विधिभिः सह अध्यापितान् विषयान् अधीयानाः विद्यार्थिनः स्वस्यानुसन्धानदृष्टिं दृढीकुर्वन्ति।

सांस्कृतिकभ्रमणम्-

    सांस्कृतिकभ्रमणेन छात्राः उज्जैनस्य विशिष्टसांस्कृतिकन्यासं पश्यन्ति। तथा उज्जयिन्याः अनतिदूरे स्थितानां पुरातात्विकस्थलानां महिदपुरदुर्गस्य, पुरातत्त्वीयोत्खननस्थलस्य, भस्मटेकरीत्याख्यस्य, स्वातन्त्र्यान्दोलनेन सह सम्बद्धस्थलानां च भ्रमणं कुर्वन्ति। विश्वविद्यालयः पारम्परिकगुरुकुलैः सह सम्बद्धा अस्ति। येषां माध्यमेन छात्राः गुरुकुलपरम्परायाः सम्पर्कं प्राप्नुवन्ति। यथा योगविभागस्य छात्राः हरिद्वारगुरुकुलस्य भ्रमणं कृतवन्तः । इतोऽपि अतिरिक्तं छात्राः जीवाजीवेधशाला, डोंगलावेधशाला, मानवसंग्रहालयः,  ठाकुरपर्वतसिंहसंग्रहालयः इत्यादिस्थानानां भ्रमणं कुर्वन्ति। अन्येषु विश्वविद्यालयेषु अपि अत्रत्याः छात्राः गच्छन्ति। यथा - शोधविदुषां दलेन कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य रामटेकस्य शैक्षणिकभ्रमणं कृत्वा तत्र पाण्डुलिपिन्यासोऽपि अवलोकितः। एतेषु भ्रमणस्थलेषु छात्राणां प्रथमहस्तसूचना प्राप्यते । एतत् छात्राणां कृते स्वस्य पारस्परिककौशलं वर्धयितुं गहनतरम् अन्वेषणं विकसितुं च मञ्चं प्रदाति।

 

File DescriptionDocument
Upload any additional information अतिरिक्तसूचनानां कृते सन्धानम् View Document
Link for Additional Information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document

 

2.3.2 Percentage of teachers using ICT for effective teaching with Learning Management Systems (LMS), E-learning resources etc.अधिगम-प्रबन्धन-प्रणाली(अ.प्र.प्र)-वैद्युत-अधिगम-संसाधन(वै.अ.स)-प्रभृतिभिः सह सूचना-संप्रेषण-प्राविधिकीं (सू.सं.प्रा) प्रभाविशिक्षणार्थम् उपयुञ्जताम् अध्यापकानां प्रतिशतता।

Answer: 46.43

2.3.2.1 Number of teachers using ICTसूचना-सम्प्रेषण-प्राविधिकीम् (सू.सं.प्रा) उपयुञ्जताम् अध्यापकानां सङ्ख्या

Answer: 13

File DescriptionDocument
Upload List of teachers (using ICT for teaching) based on Data Template दत्तांशप्रारूपाधारेण सूचना-संप्रेषण-प्राविधिकी (सू.सं.प्रा) (अ.प्र.प्र., वै.अ.सं) उपयुञ्जताम् अध्यापकानां सूची उपारोपणीया View Document
Upload any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document
Provide link for webpage describing the " LMS/ Academic management system" जालपुटस्य सन्धानं दीयतां यत्र अधिगम-प्रबन्धन-प्रणाली (अ.प्र.प्र) वैद्युत-अधिगम-संसाधनानां (वै.अ.स) विवरणं लभ्यते View Document

 

2.3.3 Ratio of mentor to students for academic and stress related issues (preceding academic year data)शैक्षिकसमस्याविषये, उद्वेगविषये च छात्राणां कृते उपलब्धानाम् उपदेष्टॄणाम् अनुपातः (प्रगतवर्षस्य दत्तांशः)

Answer: 16.5

2.3.3.1 Number of mentorsमार्गदर्शकानां सङ्ख्या

Answer: 28

File DescriptionDocument
Upload year-wise list of number of students, full time teachers and mentor/mentee ratio <br> छात्राणां तथा पूर्णकालिकाध्यापकानां वार्षिकी सूची तथा उपदेष्टृ-उपदेश्यानामनुपातश्च उपारोपणीयः View Document

 

2.3.4 University encourages the Grurukula method of teaching/ Pathashalas/ Traditional Oriental Learning System (TOLS)/ Gurukula/ Shastrapeethasविश्वविद्यालयः गुरुकुलपद्धत्या अध्यापनं/ पाठशालाः/ परम्परागतप्राच्याधिगमप्रणालीः/ गुरुकुलानि/ शास्त्रार्थपीठानि च पोषयति।

Answer:

विश्वविद्यालस्यास्य पाठ्यक्रमाः अनुसन्धानस्य व्यापकतां परिवर्धयन्ति। अत्रत्यः पाठनविधिः आधुनिकविधिना सह गुरुकुलविधिमपि अनुसरति। विश्वविद्यालये परम्परानुगमकप्राच्यसरण्याः अवलम्बनेन शास्त्राध्ययनं जायते।  विश्वविद्यालयः प्रकृत्यानुगुणं जीवनयापनाय गुरुकुलपद्धति-एवं-परम्परागतप्राच्याधिगमप्रणाल्यादीन् स्वविधानेन सम्पोषयति।

गुरुकुलपद्धत्या अध्यापनम्-

    विश्वविद्यालयः विश्वविद्यालयानुदानायोगस्य निर्देशने छात्राणां सरलावगमनाय कक्षादिकं सञ्चालयति। तेन सह प्राच्यभारतीयगुरुकुलपद्धत्या न्यायादिमूलपारम्परिकशास्त्रशिक्षणे अवसरं प्रकल्पयति।

पाठशालापोषणम्- विश्वविद्यालयः मध्यप्रदेशान्तरगतसमस्तस्वसम्बद्धपाठशालासु  पाठ्यक्रमादीनां निर्धारणं कृत्वा  कालानुगुणं निर्देशनप्रदानेन तेषां पोषणं करोति।

परम्परागतप्राच्याधिगमप्रणाल्याः सम्पोषणम्-

  विश्वविद्यालये वाक्यार्थसभा, शास्त्रार्थसभा, शास्त्रपरीक्षा, शास्त्रस्पर्धा, संस्कृतकविसमवायः, इत्यादयः रचनात्मककौशलवर्धकाः, अनुसन्धाने च प्रेरणादायकाश्च कार्यक्रमाः विश्वविद्यालयद्वारा समायोज्यन्ते। अनेन आयोजनेन प्राच्यपरम्परागताधिगमप्रणाल्यादीनां पोषणं तथा शास्त्रार्थपीठादीनां प्रतिष्ठायाः संरक्षणं संवर्धनञ्च भवति।

    विश्वविद्यालये प्रतिवर्षं आयोजिते युवमहोत्सवे वाक्यार्थविषयमाश्रित्य एका विशिष्टा प्रतियोगिता आयोज्यते। तत्र विषयानुगुणं  पृथक् पृथक् विषयमाश्रित्य वाक्यार्थप्रस्तुतिः जायते। व्याकरणे, न्यायदर्शने, वेदान्तदर्शने, साहित्यशास्त्रे च छात्राः विशेषरूपेण वाक्यार्थं प्रस्तुवन्ति। श्रेष्ठप्रदर्शनाय छात्राः स्वर्णपदकेन पुरस्क्रियन्ते।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Link for additional Information अतिरिक्तसूचनानां कृते सन्धानम् View Document

2.4.1 Average percentage of full time teachers against sanctioned posts during the last five yearsअनुमोदितानि पदानि लक्ष्यीकृत्य गतेषु पञ्चसु वर्षेषु नियुक्तानाम् अध्यापकानां मध्यमानस्य प्रतिशतता।

Answer: 68.67

File DescriptionDocument
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.4.2 Average percentage of full time teachers with Ph.D. during the last five yearsगतेषु पञ्चसु वर्षेषु, विद्यावारिधिः (पीएच.डी) इत्युपाधिमतां पूर्णकालिकाध्यापकानां मध्यमानस्य प्रतिशतता।

Answer: 74.19

2.4.2.1 Number of full time teachers with Ph.D. year-wise during the last five yearsविगतपञ्चवर्षेषु, विद्यावारिधिः (पीएच्.डी) इत्युपाधिमतां पूर्णकालिकाध्यापकानां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
21 15 13 14 13

 

File DescriptionDocument
List of number of full time teachers with PhD and number of full time teachers for 5 years (Data Template) गतेषु पञ्चसु वर्षेषु विद्यावारिधिमतां पूर्णकालिकाध्यापकानां तथा पूर्णकालिकाध्यापकानाञ्च सूची View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.4.3 Average teaching experience of full time teachers in number of yearsपूर्णकालिकाध्यापकानाम् अध्यापनानुभवस्य वर्षप्रमाणेन मध्यमानम्

Answer: 4.79

2.4.3.1 Total experience of full-time teachersपूर्णकालिकाध्यापकानां सम्पूर्णः अध्यापनानुभवः

Answer: 134

File DescriptionDocument
List of Teachers including their PAN, designation, dept and experience details (Data Template) आयकरसङ्ख्या-पदवी-विभाग-अनुभवानां विवरणसहिता अध्यापकसूची View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.4.4 Average percentage of full time teachers who received awards, recognition, fellowships at State, National, International level from Government recognised bodies during the last five yearsविगतपञ्चवर्षेषु राज्य-राष्ट्र-अन्ताराष्ट्रस्तरेषु, सर्वकार-सर्वकाराभिज्ञातनिकायैः पुरस्कारं प्राप्तवतां पूर्णकालिकाध्यापकानां मध्यमानस्य प्रतिशतता।

Answer: 18.81

2.4.4.1 Number of full time teachers receiving awards from state/ national/ international level from Government recognised bodies year-wise during the last five yearsविगतपञ्चवर्षेषु राज्य-राष्ट्र-अन्ताराष्ट्रस्तरेषु, सर्वकार-सर्वकाराभिज्ञातनिकायैः पुरस्कारं प्राप्तवतां पूर्णकालिकाध्यापकानां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
05 04 09 0 01

 

File DescriptionDocument
Institutional data: as per Data Template सांस्थानिकदत्तांशः देयः (दत्तांशप्रारूपम्) View Document
e-copies of award letters (scanned or soft copy) पुरस्कारसम्बद्धानां पत्राणां वैद्युतप्रतिलिपयः View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.4.5 Average percentage of full time teachers from other States against sanctioned posts during the last five yearsविगतपञ्चवर्षेषु अनुमोदितेषु पदेषु अन्यराज्येभ्यः नियुक्तानां पूर्णकालिकाध्यापकानां मध्यमानस्य प्रतिशतता।

Answer: 29.33

2.4.5.1 Number of full time teachers from other states year-wise during the last five years -विगतपञ्चवर्षेषु अन्यराज्येभ्यः नियुक्तानां पूर्णकालिकाध्यापकानां वार्षिकसङ्ख्या -

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
14 10 07 06 07

 

File DescriptionDocument
List of full time teachers from other state and state from which qualifying degree was obtained (Data Template) अन्यराज्येभ्यः नियुक्तानां पूर्णकालिकाध्यापकानां सूची। राज्यस्य नामसहिता यतः तैः प्रमाणपत्रं प्राप्तम्। (दत्तांशप्रारूपम्) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.4.6 University has devised a mechanism to enable the young faculty to learn shastras under learned Gurus. Specify the names of Gurus from whom the teachers/ faculty members have studied Shastras/ Veda Shakhas.विश्वविद्यालयः युवाध्यापकान् वरिष्ठविदुषां सन्निधौ शास्त्राध्ययनाय प्रोत्साहयति। गुरूणां नामानि सूचयन्तु येभ्यः अध्यापकाः शास्त्राणां वेदशाखानां वा पारम्परिकम् अध्ययनमकुर्वन्।

Answer:

युवाध्यापकान् शास्त्राध्ययनाय प्रोत्साहनम्-

शास्त्राणां वेदशाखानां च अध्ययनम्, अध्यापनम्, अनुसन्धानम्, प्रसारः इत्यादिभिः क्रियाभिः भारतीयज्ञानशाखानां सामाजिकोपयोगः सिद्ध्यति। संस्कृतवाङ्मयस्य नयनेन समाजेन सह संस्कृतवाङ्मयस्य सम्बन्धः दृढो भवति। तेन समाजे शान्तिः, सौहार्दम, स्वास्थ्यम्, धर्मश्च सन्तिष्ठते। एतदुद्देश्येन महर्षिपाणिनिसंस्कृवैदिकविश्वविद्यालयः नैकान् विधीन् अनुसरति। विश्वविद्यालये विविधसङ्कायेषु कार्यरताः अध्यापकाश्च विशिष्टाः विद्वांसः वर्तन्ते। गुरूणां सन्निधौ अधीतशास्त्राः वरिष्ठाः युवानश्च अध्यापकाः वर्तन्ते। विश्वविद्यालये कार्यरताः युवानः अध्यापकाः वरिष्ठानां विदुषां सन्निधौ शास्त्राध्ययनम् अन्ववर्तयन्/ अनुवर्तयन्ति।  युवाध्यापकाः वरिष्ठेभ्यः आचार्येभ्यः शास्त्राणामध्यययनमकार्षुः।

विश्वविद्यालयस्याध्यापकाः येषां सन्निधौ अध्ययनमकार्षुः तेषां नामानि-

क्र.

अध्यापकस्य नाम

गुरोः/ मार्गनिर्देशकस्य नाम

शास्त्रं/शास्त्राणि

01

डॉ. अखिलेशकुमारद्विवेदी

प्रो. राममनोहरमिश्रः

व्याकरणम्

02

डॉ. उपेन्द्रभार्गवः

प्रो. हंसधरझा

सिद्धान्तज्योतिषम्

03

डॉ. सङ्कल्पमिश्रः

प्रो. सुदेशकुमारशर्मा

वेदः

04

डॉ.पूजाउपाध्यायः

1. प्रो. विद्याप्रसादमिश्रः

2. श्री देवदत्तपाटिलः

भारतीयदर्शनम्

05

डॉ. शुभम्-शर्मा

प्रो. केदारनारायणजोशी

ज्योतिषम् (ज्योतिर्विज्ञानम्)

06

श्री  अमितशर्मा

प्रो. ब्रजभूषणओझा

नव्यव्याकरणम्

07

डॉ. धर्मेन्द्रशर्मा

प्रो. नीलाभतिवारी

शिक्षाशास्त्रम्

08

डॉ. विजयकुमारः

1. डॉ.अशोकथपलियालः

2. डॉ.पी.वी.बी. सुब्रह्मण्यम

वास्तुशास्त्रम्

ज्योतिषम्

09

श्री मुदितकुमारपाण्डेयः

प्रो. नीलाभतिवारी

शिक्षाशास्त्रम्

10

डॉ. अङ्कितशाण्डिल्यः

प्रो. मिथिलाप्रसादत्रिपाठी

वेदः, साहित्यम्

11

डॉ. विनोदकुमारपाण्डेयः

प्रो. गिरजाशङ्करशास्त्री

ज्योतिषम्

12

डॉ. रामकुमारी

प्रो. ललितपटेलः

साहित्यम्

13

डॉ. योगेशकुमारशर्मा

प्रो. वासुदेवशर्मा/ डॉ. अशोकथपलियालः

ज्योतिषम्

14

डॉ. अखिलेशकुमारपाण्डेयः

प्रो. प्रभादेवीचौधरी

शिक्षाशास्त्रम्

15

डॉ. शैलेन्द्रपाण्डेयः

प्रो. जे.भानुमूर्ति:

शिक्षाशास्त्रम्

16

डॉ. दिनेशचौबे

प्रो. आजादमिश्रः

व्याकरणम्

17

डॉ. कृष्णकुमारत्रिपाठी

डॉ. शान्तिलालसालवी

साहित्यम्

18

डॉ. अविनाशमिश्रः

प्रो. विनयकुमारपाण्डेयः

ज्योतिषम्

19

डॉ. गङ्गाशरणः

डॉ. कृपाशङ्करशर्मा

साहित्यम्

20

श्रीशिवानन्दमिश्रः

डॉ. मनोजमिश्रः

साहित्यम्

21

श्री आयुषदीक्षितः

प्रो. सनन्दनकुमारत्रिपाठी

साहित्यम्

22

डॉ. पतञ्जलिकुमारपाण्डेयः

डॉ. वाल्मीकिप्रसादमिश्रः

वेदः

23

डॉ. मुनीशमिश्रः

प्रो. राजारामशुक्लः

न्यायः

24

डॉ. श्रेयसकोरान्ने

डॉ. राजेश्वरशास्त्रीमुसलगाँवकरः

साहित्यम्

 

File DescriptionDocument
Upload any additional information अतिरिक्तसूचनानां कृते सन्धानम् View Document
Link for additional Information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document

 

2.4.7 Qualified faculty are available for new programmes/ emerging areas of study (computational linguistics, Computational Sanskrit, Translation Studies, Comparative Philosophy, Comparative Aesthetics, Yogic Science, Yoga Darshan, Samskrit Journalism, Sanskrit manuscriptology, Management, Jurisprudence, Cultural tourism, Temple Culture and Administration, Vastushastra, Medicinal Astrology etc.)नूतनपाठ्यक्रमाणाम् उदयमान-क्षेत्राणां (सङ्गणकीय-भाषाशास्त्रं, सङ्गणकीय-संस्कृतम्, अनुवादाध्ययनं, तुलनात्मकदर्शनं, तुलनात्मकं सौन्दर्यशास्त्रं, योगविज्ञानम्, योगदर्शनं, संस्कृतपत्रकारिता, संस्कृतमातृकाशास्त्रम्, प्रबन्धनशास्त्रं, विधिशास्त्रं, सांस्कृतिकयात्रिकं, देवालयसंस्कृतिः प्रशासनं च, भैषज्यज्योतिषं, वास्तुशास्त्रम् इत्यादीनाम्) अध्यापनाय योग्यतावन्तः अध्यापकाः उपलभ्यन्ते।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये मूल्याङ्कनकाले नूतनकार्यक्रमेषु/उदीयमानक्षेत्रेषु अध्यापनार्थं योग्याः शिक्षकाः उपलभ्यन्ते । विषयक्षेत्राधारितसूची यथा-

क्र.

अध्यापकस्य नाम

उदीयमानक्षेत्रस्य नाम

1.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्यायः

परियोजना

2. 

डॉ. तुलसीदासपरौहा

डॉ. अखिलेशकुमारद्विवेदी

परामर्शः

3.

डॉ. तुलसीदासपरौहा

डॉ. सङ्कल्पमिश्रः

डॉ. अखिलेशकुमारद्विवेदी

डॉ. दिनेशचौबे

 प्रशिक्षणानुभवः

4.

डॉ. तुलसीदासपरौहा

डॉ. सङ्कल्पमिश्रः

डॉ. शुभम्-शर्मा

धर्मशास्त्रम्

5.

डॉ.  शुभम्-शर्मा

डॉ.  विजयकुमारः

डॉ. विनोदकुमारपाण्डेयः

सांस्कृतिकपर्यटनम्

6.

डॉ. सङ्कल्पमिश्रः

डॉ. उपेन्द्रभार्गवः

डॉ. विनोदकुमारपाण्डेयः

डॉ. धर्मेन्द्रशर्मा

डॉ. विजयकुमारः

सङ्गणकीयसंस्कृतम्

7.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्याय:

डॉ. अखिलेशकुमारद्विवेदी

डॉ. विजयबहादुरत्रिपाठी

डॉ. रामकुमारी

डॉ. धर्मेन्द्रशर्मा

श्रीअमितशर्मा

अनुवादाध्ययनम्

8.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्यायः

डॉ. अखिलेशकुमारद्विवेदी

डॉ. सन्दीपशर्मा

तौलनिकदर्शनम्

9.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्यायः

डॉ. विजयबहादुरत्रिपाठी

तौलनिकसौन्दर्यशास्त्रम्

10.

डॉ. पूजाउपाध्यायः

डॉ. भानुप्रतापबुन्देला

श्री शुभमगेहलोतः

डॉ. वरुणआहूजा

सुश्रीईशापाटीदारः

योगविज्ञानम्

11.

डॉ. पूजाउपाध्यायः

डॉ. भानुप्रतापबुन्देला

योगदर्शनम्

12.

डॉ. तुलसीदासपरौहा

डॉ. उपेन्द्रभार्गवः

डॉ. विजयकुमारः

डॉ. दिनेशचौबे

संस्कृतपत्रकारिता

13.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्यायः

डॉ. सङ्कल्पमिश्रः

डॉ. शुभम्-शर्मा

संस्कृतमातृकाशास्त्रम्

14.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्यायः

डॉ. सङ्कल्पमिश्रः

डॉ. शुभम्-शर्मा

प्रबन्धनशास्त्रम्

15.

डॉ. तुलसीदासपरौहा

डॉ. पूजाउपाध्यायः

डॉ. उपेन्द्रभार्गवः

विधिशास्त्रम्

16.

डॉ. शुभम्-शर्मा

डॉ. सङ्कल्पमिश्रः

डॉ. विजयकुमारः

डॉ. अङ्कितशाण्डिल्यः

देवालयसंस्कृतिः एवं प्रशासनम्

17.

डॉ. शुभम्-शर्मा

डॉ. विनोदकुमारपाण्डेयः

 डॉ. विजयकुमारः,

डॉ. मनीषशर्मा,

डॉ. योगेशशर्मा

भैषज्यज्योतिषम्

18.

डॉ. शुभम्-शर्मा,

डॉ. उपेन्द्रभार्गवः

डॉ. विनोदकुमारपाण्डेयः

डॉ. विजयकुमारः

डॉ. मनीषशर्मा,

डॉ. योगेशशर्मा

वास्तुशास्त्रम्

उपर्युक्ताः शिक्षकाः सम्बन्धितविषयेषु प्रशिक्षणं, पारम्परिकज्ञानं, प्रयोगात्मकं सर्वेक्षणं, अन्तरविषयशिक्षणम् इत्यादीनां माध्यमेन समये समये एतेषु विषयेषु स्वज्ञानम् अद्यतनं कुर्वन्ति।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document
Link for additional Information अतिरिक्तसूचनानां कृते सन्धानम् View Document

 

2.4.8 Specify the names of Shastra-Chudamani/ Emeritus/ Adjunct Faculty/ Fellows/ Visiting Professors/ Post Doctoral Fellows on the rolls of the University.विश्वविद्यालयेन सह सम्बद्धानां शास्त्रचूडामणिविदुषां, राष्ट्रस्तरीयाचार्याणाम्, अतिथ्याचार्याणां, संयोजिताचार्याणां, प्रतिष्ठिताचार्याणां, विद्यावारिध्युत्तरशोधरतानां विदुषां च नामानि सूचयन्तु।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः शास्त्रार्थचूडामणिपण्डितानां राष्ट्रस्तरीयविदुषाम्, अतिथ्याचार्यादीनां कार्यशालासङ्गोष्ठीसम्मेलनादिद्वारा लाभमाप्नोति।

विगतेषु पञ्चवर्षेषु महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये नैकाः शास्त्रार्थचूडामणिपण्डितानां राष्ट्रस्तरीयाचार्याणाम्, आतिथ्याचार्याणां पथप्रदर्शनमभूत्। तेषां केषाञ्चित् पण्डितानां नामानि अत्र प्रस्तूयन्ते-

क्र.

नाम

पदनाम

संस्थानाम

01

 बालकृष्णशर्मा

 पूर्वकुलपतिः

विक्रमविश्वविद्यालयः उज्जयिनी म.प्र.

02

डॉ. निरञ्जनमिश्रः

विभागाध्यक्षः साहित्यविभागः

भगवानदासआदर्शसंस्कृतमहाविद्यालयः हरिद्वारम्, उ.ख.

03

प्रो. रमाकान्तपाण्डेयः

निदेशकः

केन्द्रीयसंस्कृतविश्वविद्यालयः भोपालपरिसरः

04

प्रो. ललितपटेलः

पूर्वकुलपतिः

श्रीसोमनाथसंस्कृतविश्वविद्यालयः वेरावलम् गुज.

05

डॉ. ब्रजभूषणओझा

सहाचार्यः, व्याकरणविभागः

काशीहिन्दूविश्वविद्यालयः वाराणसी उ.प्र.

06

डॉ. प्रदीपपाण्डेयः

सहाचार्यः  व्याकरणविभागः

केन्द्रीयसंस्कृतविश्वविद्यालयः भोपालपरिसरः म.प्र.

07

प्रो. रामसलाहीद्विवेदी

व्याकरणविभागाध्यक्षः

लालबहादुरशास्त्रीकेन्द्रीयसंस्कृतविश्वविद्यालयः नवदेहली

08

प्रो. मिथिलाप्रसादत्रिपाठी

पूर्वकुलपतिः

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयःउज्जयिनी म.प्र.

09

प्रो. विरूपाक्षजड्डीपालः

सचिवः

महर्षिसान्दीपनिवेदविद्याप्रतिष्ठानम्, उज्जयिनी म.प्र.

10

प्रो. मनोजमिश्रः

विगाध्यक्षः वेदविभागः

केन्द्रीयसंस्कृतविश्वविद्यालयः रणवीरपरिसरः जम्बू.

11

प्रो. हरेकृष्णशतपथी

कुलपतिः

कलिंगइन्स्टीट्यूटऑफसोशलसाइंसभुवनेश्वरम्, उडीसा

12

प्रो. हरेरामत्रिपाठी

कुलपतिः

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः रामटेकनागपुरम्

13

प्रो. विनयकुमारपाण्डेयः

ज्योतिषविभागाध्यक्षः

काशीहिन्दूविश्वविद्यालयः वाराणसी उ.प्र.

14

प्रो. राजारामशुक्लः

कुलपतिः

सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी

15

श्रीचमूकृष्णशास्त्री

सहसंस्थापकः

संस्कृतभारती

16

प्रो. पी. एन. शास्त्री

पूर्वकुलपतिः

राष्ट्रियसंस्कृतसंस्थानम्, नईदिल्ली

17

प्रो. गोपबन्धुमिश्रः

कुलपतिः

श्रीसोमनाथसंस्कृतविश्वविद्यालयः, गुज.

18

प्रो.भगवतशरणशुक्लः

विभागाध्यक्षः, व्याकरणविभागः

काशीहिन्दूविश्वविद्यालयः, वाराणसी उ.प्र.

19

डॉ. देवदत्तपाटिलः

संस्थापकः

श्रीविद्यापाठशालाः, गोवा

20

प्रो. रामकुमारशर्मा

आचार्यः, साहित्यम्

केन्द्रीयसंस्कृतविश्वविद्यालयः, जयपुरपरिसरः, जयपुरम्

21

प्रो. विष्णुपदमहापात्रः

आचार्यः, न्यायदर्शनम्

श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नईदिल्ली

22

प्रो. रामकिशोरत्रिपाठी

आचार्यः, वेदान्तदर्शनम्

सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी

23

प्रो. हंसधरझा

आचार्यः, सिद्धान्तज्योतिषम्

केन्द्रीयसंस्कृतविश्वविद्यालयः भोपालपरिसरः भोपालम्

24

प्रो. परागजोशी

आचार्यः, साहित्यम्

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः रामटेक, नागपुरम्

25

प्रो. उमावैद्यः

पूर्वकुलगुरुः

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः रामटेक, नागपुरम्

 

File DescriptionDocument
Upload any additional information अतिरिक्तसूचनानां कृते सन्धानम् View Document
Link for additional Information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document

 

2.4.9 Specify the systems adopted to recharge academically and rejuvenate teachers (e.g. learning with traditional Gurus, providing research grants, study leave, nomination to national/ international conferences/ seminars, in-service training, organizing national/ international conferences, vakyartha-Sadhas, Shastrtha-Sabha, Shastra-Pareeksha, Shastra-spardha/ Samskrita-Kavi-Samavaya (Sanskrit Poets’ Meet) etc.)अध्यापकान् शैक्षिकरूपेण पुनर्नवीकर्तुम् अभिगृहीताः व्यवस्थाः सूचयतु- यथा- पारम्परिकगुरूणां सविधे अध्ययनम्, अनुसन्धानानुदानप्रदानम्, अध्ययनावकाशप्रदानम्, राष्ट्रिय/ अन्ताराष्ट्रियसम्मेलने नामनिर्देशनम्/ सेवारतप्रशिक्षणं, राष्ट्रिय/ अन्ताराष्ट्रियसम्मेलनस्य आयोजनं, वाक्यार्थसभाः, शास्त्रार्थसभाः, शास्त्रपरीक्षाः, शास्त्रस्पर्धाः, संस्कृतकवि-समवायः इत्यादयः।

Answer:

विश्वविद्यालयः शिक्षकाणां गुणवत्तां वर्धयितुं तेषां ज्ञानस्य अभिमुखीकरणाय च निरन्तरं प्रयत्नं करोति। अस्मिन् राष्ट्रियान्तर्राष्ट्रियशोधसङ्गोष्ठी, सम्मेलनं, काव्यगोष्ठी, वादविमर्शः, इत्यादिषु सहभागितायै नियमानुसारेण शैक्षणिककर्तव्यावकाशः प्रदीयते। अपि च तेषां शैक्षिकनवीनीकरणं दृष्ट्या प्रतिवर्षं बहवः कार्यक्रमाः आयोज्यन्ते। एतेषु शिक्षकप्रशिक्षणकार्यक्रमाः, राष्ट्रिय/अन्तर्राष्ट्रीयशोधगोष्ठी/सम्मेलनं/सङ्गोष्ठी/कार्यशाला, शास्त्रार्थसभा, संस्कृतकविसमवायः इत्यादयः प्रमुखाः कार्यक्रमाः सन्ति। 

अध्यापकानां शैक्षणिकरूपेण पुनर्नवीकरणम्-

विश्वविद्यालयः शिक्षकान् वरिष्ठशिक्षकाणां सन्निधौ अधिगमायापि प्रोत्साहयति। संस्कृतस्य आचार्यः केदारनाथशुक्लः, ज्योतिषक्षेत्रे वरिष्ठपञ्चाङ्गकारः आचार्यः आनन्दशङ्करव्यासः, वास्तुकला एवं इतिहासक्षेत्रे वरिष्ठपुरातत्त्ववित्, पद्मश्री आचार्यः भगवतीलालराजपुरोहितः, साहित्यशास्त्रक्षेत्रे च आचार्यः केदारनारायणजोशी, आचार्यः बालकृष्णशर्मा, आचार्या अजितात्रिवेदी, आचार्यः सूर्यप्रकाशव्यासः सदृशाः विभूतयः  उज्जयिन्यां निवसन्ति। आचार्यजनाः तेभ्यः सततं प्रत्यक्षतया सम्पर्कं कृत्वा तेभ्यः तत्तद्विषयाणां गूढज्ञानं प्राप्नुवन्ति।

पारम्परिकगुरूणां सविधेः अध्ययनम्-

स्वावकाशदिवसेषु प्राध्यापकाः भारतस्य अन्यवरिष्ठविदुषां निकटं गत्वा तेभ्यः प्रत्यक्षतया अधिगमं कुर्वन्ति।  उदाहरणाय विश्वविद्यालस्य प्राध्यापिका डॉ. पूजाउपाध्यायः स्वसन्ततिपालनावकाशस्यावधौ विश्वप्रसिद्धनैयायिकस्य आचार्यदेवदत्तपाटिलमहोदयस्य समीपमुषित्वा न्यायशास्त्रस्याध्ययनमकार्षीत्। इतोऽपि इतरे विश्वविद्यालयस्य आचार्याः अपि आधुनिकदूरसञ्चारयुक्तिभिः तथा अन्तर्जालादिमाध्यमैः दूरस्थेभ्यः आचार्येभ्यः मार्गदर्शनं प्राप्नुवन्ति। 

राष्ट्रियान्ताराष्ट्रियायोजनानि-

2019-20 तमे वर्षे अखिलभारतीयशास्त्रार्थसभायाः  आयोजनं बृहद्रूपेण जातम् । 2021-22 तमे वर्षे राष्ट्रियशिक्षानीतौ भाषाणां क्रियान्वयनविषये राष्ट्रियसंगोष्ठ्याः आयोजनमभवत्। अस्मिन् वर्षद्वये कोविड इत्यस्य प्रथमद्वितीयचरणकारणात् यदा सर्वकारीयदिशानिर्देशेन ​​ भौतिकरूपेण कार्यक्रमस्य आयोजनं कर्तुं न शक्यते । तदा संस्कृतशिक्षणप्रशिक्षणज्ञानविज्ञानसंवर्धनकेन्द्रद्वारा विविधविभागैश्च आनलाईनकार्यक्रमाः आयोजिताः अभूवन्। 2021-22 तमे वर्षे विविधाः शोधगोष्ठी/संगोष्ठी/व्याख्यानानि/प्रशिक्षणादिकार्यक्रमाः आयोजिताः अभवन्। येषु अन्यसंस्थाभिः अपि सम्बन्धः योजितः आसीत्।

  • एतेषां गतविधीनां समन्वये विश्वविद्यालयस्य प्राध्यापकानां महती भूमिका आसीत् । विशेषव्याख्यानेषु आचार्यसहिताः सर्वे श्रोतारः संस्कृते विज्ञानं, मृगपक्षिविज्ञानं, नाट्य-अनुभवं, यन्त्र-मण्डल-चक्रादिविषयेषु नवीनं ज्ञानं प्राप्तवन्तः।
  • 2022-23 सत्रे शिक्षाशास्त्रविभागेन गुरुपूर्णिमायां राष्ट्रियशोधसङ्गोष्ठी आयोजिता तथा महाराजाविक्रमादित्यशोधपीठेन सह ज्योतिषज्योतिषविभागेन वास्तुशास्त्रनगरनियोजनविषये तथा राजाभोजविषये अन्तार्राष्ट्रीयशोधसङ्गोष्ठी आयोजिता। अस्मिन् कालखण्डे योगविभागेन, दर्शनविभागेन च विशेषानुष्ठानानि अपि आयोजितानि ।
  • विश्वविद्यालयेन 13/01/2020 तमे दिनाङ्के मध्यप्रदेशराजभवने शास्त्रार्थसभा समायोजिता, यस्यां देशस्य मूर्धन्यविद्व्भिः सह  विश्वविद्यालयस्य आचार्याः अपि सहभागितामकार्षुः। वरिष्ठविदुषां तर्कान् श्रुत्वा सर्वेषां ज्ञाने वृद्धिः परिष्कारश्च जातः।
  • विश्वविद्यालयः निरन्तरं शास्त्रीयसामाजिकसांस्कृतिकविषयेषु  राष्ट्रीय-अन्तर्राष्ट्रीय-शोधसङ्गोष्ठीसम्मेलनं परिसंवादः कार्यशाला चेद्यादीनां  आयोजनं करोति। प्रमुखेषु आयोजनेषु सत्रे 2018-19 साहित्यविभाग द्वारा, वेद-एवं-व्याकरणविभागद्वारा 2018-19 सत्रे विषये वेदाङ्गशिक्षाशास्त्रालोके उच्चारणविज्ञानम्, एवमेव अन्यैः विभागैः अपि एतादृशायोजनं कृतम्। यथा- ज्योतिष-एवं-ज्योतिर्विज्ञानद्वारा देवालयवास्तोः विविधायामविषये आयोजिताः राष्ट्रीयशोधसङ्गोष्ठ्याः, विशिष्टसंस्कृतविभागद्वारा छन्दशास्त्रविमर्शः इति विषये कार्यशालाः इत्यादयः कार्यक्रमाः विशेषरूपण आयोजिताः।

संस्कृतकविसमवायः-

विश्वविद्यालयः अनेकवर्षैः अखिलभारतीयकालिदाससमारोहे संस्कृतकविसमवायस्य सहायोजकोऽस्ति। यत्र डॉ. तुलसीदासपरौहामहोदयस्य सञ्चालने विश्वविद्यालयस्य अन्याः आचार्याः अपि स्वकाव्यप्रतिभायाः प्रदर्शनं कुर्वन्ति। तथा वरिष्ठकवीनां काव्यपाठं श्रुत्वा  तेभ्यः संवादं कृत्वा काव्यसृजनस्य सूक्ष्मयुक्तीनां ज्ञानं प्राप्नुवन्ति। विश्वविद्यालयद्वारा संस्कृतशिक्षकप्रशिक्षणकार्यक्रमाणामपि आयोजनं जातम्।  

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document
Link for additional Information अतिरिक्तसूचनानां कृते सन्धानम् View Document

 

2.4.10 Specify the names of faculty imparting indepth shastra knowledge/ Avadhana/ shastrartha to the students and encouraging them to take various shastra exams conducted by different organisations in addition to regular teaching.नित्याध्यापनातिरिक्तत्वेन च्छात्राणां कृते विविधसंस्थाभिः सञ्चालितासु शास्त्रार्थपरीक्षासु स्पर्धासु च भागं ग्रहीतुं शास्त्रार्थेषु अवधानकलायां विशेषप्रशिक्षणं प्रददताम् अध्यापकानां विषये विवरणं प्रयच्छत।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयद्वारा आयोजितेषु  नित्याध्यापनातिरिक्तेषु नैकेषु कार्यक्रमेषु स्पर्धासु च अत्रत्याः  शिक्षकाः छात्रान् सततं प्रोत्साहयन्ति।  तेषां नामानि यथा-

  1. डॉ. तुलसीदासपरौहा-                                साहित्यम्
  2. डॉ. अखिलेशकुमारद्विवेदी-                         व्याकरणम्
  3. डॉ. उपेन्द्रभार्गवः-                                     ज्योतिषम्
  4. डॉ. सङ्कल्पमिश्रः-                                  वेद:
  5. डॉ.पूजाउपाध्यायः-                                   साहित्यम् दर्शनं च
  6. डॉ. शुभम्-शर्मा-                                       ज्योतिर्विज्ञानम्
  7. डॉ. सन्दीपशर्मा-                                       न्यायशास्त्रम्
  8. डॉ. विजयकुमारः-                                    ज्योतिषम्
  9. डॉ. अङ्कितशाण्डिल्यः-                           वेद:
  10. डॉ. रामकुमारी-                                        साहित्यम्
  11. डॉ. दिनेशचौबे -                                      व्याकरणम्
  12. डॉ. कृष्णकुमारत्रिपाठी-                              साहित्यम्
  13. डॉ. अविनाशमिश्रः-                                  ज्योतिषम्
  14. डॉ. गङ्गाशरणः-                                     साहित्यम्
  15. श्रीअनुरुद्धकुमारत्रिपाठी-                            व्याकरणम्

    साधारणाध्यापनेन सह अत्रत्याः प्राध्यापकाः छात्रान् प्रोत्साहयितुं शास्त्रकलास्पर्धां, शास्त्रार्थसभां, श्लोकन्त्याक्षरीस्पर्धां, अष्टाध्यायीसूत्रान्ताक्षरीस्पर्धां, च नियमेन परिचालयन्ति। शिक्षकाः संस्कृतशास्त्रस्पर्धाभ्यः छात्रान् सज्जीकर्तुं सततं प्रयासं कुर्वन्ति। विश्वविद्यालयः शास्त्रकण्ठपाठे शास्त्रभाषणे, शास्त्रशलाकायां, वाक्यार्थादिषु भागं ग्रहीतुं छात्रान् सर्वदा प्रेरयन्ति।अखिलभारतीयस्तरे विश्वविद्यालयः संस्कृतनाटकगानपरिप्रच्छान्ताक्षर्यादिविविधस्पर्धासु प्रतिवत्सरं भागमग्रहीत्। विद्यार्थिनः अन्यसंस्कृतविश्वविद्यालयद्वारा सञ्चालितसंस्कृतवर्गे ग्रीष्मावकाशकाले संस्कृतप्रशिक्षुतायां, शास्त्रप्रशिक्षणे भागमगृह्णन्। साधारणाऽध्यापनातिरेकेण विश्वविद्यालयः छात्रेभ्यः शास्त्रपरीक्षाः  अवधानसंस्कृतवर्गसंस्कृतप्रशिक्षणसंस्कृताभ्यासशालादिविविधाभ्यासकार्यक्रमान्, स्पर्धाः च आयोजयति।

यूजीसी नेट/जेआरएफ/स्लेट प्रशिक्षणशिबिरे प्राध्यापकानां योगदानम्-

    महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य प्लेस्मेन्टसेल  इत्यनेन यूजीसी नेट/ जेआरएफ/ स्लेट/ सेट प्रशिक्षणकेन्द्रस्य आयोजनम् 2018-19 तः अद्यावधिपर्यन्तं प्रचलति। यत्र सर्वेऽपि अत्रत्याः प्राध्यापकाः नित्याध्यापनातिरिक्तसमये अध्यापकत्वेन सहयोगं कुर्वन्ति। अत्र येषां प्राध्यापकानां योगदानमासीत् तेषां नामानि- डॉ. मुदितपाण्डेयः, डॉ. पूजाउपाध्यायः, डॉ. अखिलेशकुमारद्विवेदी, डॉ. विनोदकुमारपाण्डेयः, डॉ. विजयकुमारः, डॉ. रामकुमारी, डॉ. पतञ्जलिकुमारपाण्डेयः, डॉ. गङ्गाशरणः, श्रीअनुरुद्धत्रिपाठी, श्रीशिवानन्दमिश्रः, श्रीप्रवीणजोशी इत्यादयः अध्यापकाः समर्पिताः आसन्।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document
Link for additional Information अतिरिक्तसूचनानां कृते सन्धानम् View Document

2.5.1 Average number of days from the date of last semester-end/ year-end examination till the declaration of results during the last five yearsविगतपञ्चवर्षेषु, षाण्मासिक्याः वार्षिक्याः च परीक्षायाः अन्तिमदिनाङ्कात् परीक्षापरिणामघोषणादिनाङ्कं यावत् दिनानां सङ्ख्यायाः मध्यमानम् -

Answer: 21.8

2.5.1.1 Number of days from the date of last semester-end/ year-end examination till the declaration of results year-wise during the last five years.विगतपञ्चवर्षेषु, षाण्मासिक्याः वार्षिक्याः च परीक्षायाः अन्तिमदिनाङ्कात् परीक्षापरिणामघोषणादिनाङ्कं यावत् दिनानां वार्षिकसङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
25 16 25 11 32

 

File DescriptionDocument
List of Programmes and date of last semester and date of declaration of results (Data Template) पाठ्यक्रमसूची, अन्तिमषाण्मासिक्याः दिनाङ्कः, परीक्षापरिणामघोषणदिनाङ्कश्च (दत्तांशप्रारूपम्) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.5.2 Average percentage of student complaints/ grievances about evaluation against total number appeared in the examinations during the last five years.विगतपञ्चवर्षेषु, परीक्षासु सम्मिलितेषु छात्रेषु मूल्याङ्कनविषये अभियाच्ञाम्/ अभियोगं वा कृतवतां छात्राणां मध्यमानस्य प्रतिशतता।

Answer: 0.36

2.5.2.1 Number of complaints/ grievances about evaluation year-wise during the last five years.विगतपञ्चवर्षेषु, परीक्षासु सम्मिलितेषु छात्रेषु मूल्याङ्कनविषये अभियाच्ञाम्/ अभियोगं वा कृतवतां छात्राणां वार्षिकी सङ्ख्या।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
4 0 0 0 2

 

File DescriptionDocument
Institutional data as per Data Template(सांस्थानिकदत्तांशः।) View Document
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.5.3 Average percentage of applications for revaluation leading to change in marksपुनर्मूल्याङ्कनाय प्राप्तानाम् आवेदनानां प्रतिशतं मध्यमानस्य मानं, यत्र अङ्कानां परिवर्तनं जातम्।

Answer: 5

2.5.3.1 Number of applications for revaluation leading to change in marks year-wise during the last five yearsविगतपञ्चवर्षेषु पुनर्मूल्याङ्कनाय प्राप्तानाम् आवेदनानां वार्षिकी सङ्ख्या, यत्र अङ्कानां परिवर्तनं जातम्।

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
01 00 00 00 00

 

2.5.3.2 Number of revaluation applications year-wise during the last five years.विगतपञ्चवर्षेषु पुनर्मूल्याङ्कनाय प्राप्तानाम् आवेदनानां वार्षिकी सङ्ख्या

Answer:

2022-23 2021-22 2020-21 2019-20 2018-19
04 00 00 00 02

 

File DescriptionDocument
Any additional information अतिरिक्ताः सूचनाः View Document

 

2.5.4 Positive impact of reforms on the examination procedures and processes including IT integration and continuous internal assessment on the examination management system.परीक्षाप्रबन्धनप्रणाल्याः परीक्षापद्धतेः सूचनाप्रविधेश्च निरन्तरम् आन्तरिकपरीक्षणस्य च अनुकूलः प्रभावः अनुभूयते।

Answer:

पाठ्यक्रमाणाम् अङ्गं भवति परीक्षापद्धतिः। महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य परीक्षापद्धतिः, तन्त्रज्ञानसम्पत्तेः सहकारेण सूचनाप्रविधिसंयोजनेन परीक्षासम्बन्धिकार्याणि निर्वहति। परीक्षापद्धतिः, आन्तरिकपरीक्षाप्रणाली, आन्तरिकमूल्याङ्कनं यथाकालं समन्वयति।

विश्वविद्यालयद्वारा शास्त्री, बी.ए. आनर्स, बी.ए. योगः, शास्त्रिशिक्षाशास्त्री (BA.Bed), इत्येते स्नातकपाठ्यक्रमाः राष्ट्रियशिक्षानीतिदिशा सज्जीकृताः चतुर्वार्षिकाः पाठ्यक्रमाः सन्ति। एतेषां पाठ्यक्रमाणां परीक्षापद्धतिः वार्षिकी । अत्र प्रति प्रश्नपत्रं त्रिंशद् अङ्कानां आन्तरिकमूल्याङ्कनं सप्तत्यङ्कानां च बाह्यपरीक्षा भवति। एवमेव आचार्य-एम.ए.पाठ्यक्रमाः चतुर्षु सत्रार्द्धेषु विभक्ताः सन्ति। अत्र प्रति सत्रार्द्धं पञ्चप्रश्नपत्राणि भवन्ति। तत्र पञ्चमं पत्रं वैकल्पिकं भवति। यत्र सी.बी.सी.एस. पद्धत्या स्वविषयमतिरिच्य स्वरुच्या अन्यं विषयं स्वीकृत्य छात्राः अधीयते। अत्र 40 अङ्कानामान्तरिकमूल्याङ्कनं 60 अङ्कानां बाह्यमूल्याङ्कनं भवति। एवमेव विद्यावारिधिपाठ्यक्रमः, प्रमाणपत्रीयपाठ्यक्रमाश्च सञ्चाल्यन्ते। उपर्युक्तानां पाठ्यक्रमाणां परीक्षावेदनं विश्वविद्यालयस्य वेवसाईट(Website) सद्यस्कमाध्यमेन (Online) सञ्चाल्यते।

परीक्षायाः पूर्वप्रक्रिया-

  • प्रत्येकं प्रश्नपत्राय प्रश्नपत्रद्वयं निर्मातुं परीक्षकनामानि स्वीकृत्य प्रश्नपत्राणां सज्जीकरणं विधीयते।
  • परीक्षाविभागेन विषयानुगुणं प्रश्नपत्रसज्जीकरणाय कार्यालयादेशाः क्रियन्ते ।
  • समयपत्रकम् अन्तर्जालमाध्यमेन, पत्रमाध्यमेन च प्रसार्यते ।
  • आवेदनपत्रम् अन्तर्जालमाध्यमेन प्रपूर्य कक्षा-विभाग-विषयानुगुणं वर्गीकरणं क्रियते।
  • परीक्षाशुल्कं विश्वविद्यालयस्य वित्तकोषे अन्तर्जालमाध्यमेनैव स्वीक्रियते ।
  • विषयानुगुणं प्रश्नपत्राणां टङ्कणं, पूर्वफलसंशोधनम्, आवश्यकतानुगुणं प्रतिलिपिं कृत्वा तत्तत्परीक्षाकेन्द्रेभ्यः प्रश्नपत्राणि, रिक्ताः उत्तरपुस्तिकाः, आवश्यकाः कर्गदाश्च प्रेष्यन्ते।

परीक्षासमये प्रक्रिया-

  • परीक्षाक्रेन्द्राणां निर्धारणं क्रियते।
  • परीक्षासूची(परीक्षासमयसारिणी)निर्धारणं क्रियते।
  • आवश्यकप्रपत्राणां प्रश्नपत्रादीनां च सम्प्रेषणम्।
  • परीक्षानिरीक्षणमण्डलानि प्रेष्यन्ते ।

केन्द्रीयकृतमूल्याङ्कनस्य प्रक्रिया

  • परीक्षाकेन्द्रेभ्यः आगतानाम् उत्तरपुस्तिकानां दिवस-कक्षा-विषयानुगुणं वर्गीकरणं क्रियते।
  • मूल्याङ्कनकर्तृणां नामानि परीक्षासमितिना स्वीक्रियन्ते। ततः बाह्यमूल्याङ्कनं कर्तुमुत्तरपुस्तिकानां विवरणं परीक्षाविभागद्वारा क्रियते।
  • स्नातकस्तरस्य आधारपरीक्षापाठ्यक्रमपरीक्षामूल्याङ्कनम् ओ.एम. आर. पत्रकसङ्गणकमाध्यमेन क्रियते।

 परीक्षापरिणामस्य प्रक्रिया-

  • परीक्षकैः पर्णं (फाईल) प्रपर्णं (काउन्टरफाईल) प्राप्यते।
  • परीक्षापरिणामः सङ्गणकमाध्यमेन सज्जीक्रियते ।
  • परीक्षापरिणामः विश्वविद्यालयस्य अन्तर्जालमाध्यमेन उद्घोष्यते ।
  • परीक्षापरिणामस्य सूचनां विश्वविद्यालयस्य वेवसाईट (Website) माध्यमेन महाविद्यालयाः अवगच्छन्ति।
  • पासलिस्ट” (उत्तीर्णसूची) अपि विश्वविद्यालयेन उद्घोष्यते।

परीक्षापद्धतौ पारदर्शिता-

  • परीक्षायाः कृते आवेदनपत्राणि महाविद्यालयानां कृते अणुसङ्केतमाध्यमेन प्रेष्यन्ते, तथा च परीक्षाशुल्कम् अन्तर्जालमाध्यमेन पूरयितुं सौविध्यं प्रदीयते, येन समयस्य कर्गदानां च रक्षणं भवति।
  • प्रश्नपत्राणां गोपनीयतां रक्षयितुं प्रश्नपत्राणाम् उपरि विश्वविद्यालयस्य विशेषचिह्नयुतः कर्गदः स्थाप्यते।
  • परीक्षायां प्रश्नपत्राणां बन्धस्य उ‌द्घाटनं छात्राणाम् उपस्थितौ क्रियते, अपि च प्रत्येक प्रश्नपत्रबन्धस्य उपरि छात्रद्वयस्य हस्ताक्षरमपि स्वीक्रियते, येन परीक्षाप्रश्नपत्रस्य बन्धः सुरक्षितः अस्ति इति निश्चेतुं शक्यते।
  • समग्रमूल्याङ्कनप्रक्रियायां विद्यार्थिनः परिचयः गुप्तः भवेत्, एतत् सुनिश्चितं क्रियते।
  • परीक्षापरिणामः मासावधिं यावद्विश्वविद्यालयस्य अन्तर्जाले प्रकाश्यते। येन छात्राः स्वयमेव यत्र कुत्रापि स्थित्वा परीक्षापरिणामं द्रष्टुं शक्नुवन्ति ।
  • विद्यार्थिनां हिताय अन्तिमसत्रीयविद्यार्थिनां कृते पूरकपरीक्षायाः आयोजनं क्रियते। पूरक,ATKT, अन्तिमावसररूपेण विद्यार्थिनां परीक्षायोजनं क्रियते। स्नातके पुनर्मूल्याङ्कनं भवति। स्नातकोत्तरे पुनर्गणना भवति।
  • विद्यार्थिभ्यः विशिष्टकर्गदयुक्ता (Watter proof) अङ्कतालिका (Mark sheet) प्रदीयते ।
  • विकल्पाश्रितश्रेयोऽङ्कप्रणाल्या सञ्चालितानां कार्यक्रमाणां परीक्षापद्धतौ विश्वविद्यालय-अनुदान-आयोगस्य निर्देशानुसारं SGPA/ सञ्चितश्रेण्यङ्कसाधारणमानम् (CGPA) पद्धत्यानुगुणम् श्रेणीपत्रिकान्विता (ग्रेड) अङ्कतालिका प्रदीयते।
  • महाविद्यालयाः स्वस्य आईडीपासवर्ड इत्यस्य उपयोगं कृत्वा स्वयमेव आन्तरिकमूल्याङ्कनपरीक्षायाः प्रदत्ताङ्कं सम्पूरयन्ति। अनेन समयस्य रक्षणं/सदुपयोगो भवति।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Provide link for Additional Information अतिरिक्तसूचनानां सन्धानम् View Document

 

2.5.5 Status of automation of Examination division along with approved Examination Manual-परीक्षाविभागस्य यान्त्रिकीकरणेन सह अङ्गीकृतायाः परीक्षामार्गदर्शिकायाः स्थितिः -

Answer: A. 100% automation of entire division & implementation of Examination Management System (EMS) (अ. सम्पूर्णविभागस्य 100% यान्त्रिकीकरणम्, परीक्षा-प्रबन्धन-प्रणाल्याः कार्यान्वयनं च ।)

File DescriptionDocument
Current Manual of examination automation system परीक्षा-यान्त्रिकीकरण-प्रणाल्याः अधुनातनी दर्शिका View Document
Any additional information अतिरिक्ताः सूचनाः View Document
Annual reports of examination including the present status of automation (Data Template) अधुनातन्याः यान्त्रिकीकरणस्थित्या सहितं परीक्षायाः वार्षिकं वृत्तम् (दत्तांशप्रारूपम्) View Document

 

2.5.6 Use of Sanskrit as a medium for Question Paper setting and Answering in Examination.विश्वविद्यालयः परीक्षाप्रश्नपत्राणां निर्माणे उत्तरलेखने च संस्कृतमाध्यममनुसरति।

Answer:

विश्वविद्यालयोऽयं संस्कृतमाध्यमेन सञ्चालितो भवति। भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इति भणतिमनुस्मरन् महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः उज्जयिन्याः महर्षिसान्दीपनि-कविकुलगुरुकालिदास-भर्तृहर्यादीनां प्राचीनभारतीयशास्त्रपरम्परायाः संरक्षणं करोति। अत्र शास्त्रि-आचार्यादिपाठ्यक्रमेषु समस्तपाठ्यक्रमाणां प्रश्नपत्रनिर्माणम् उत्तरपुस्तिकालेखनञ्च संस्कृतमाध्यमेनैव भवति।   

  • स्नातकस्नातकोत्तरपरीक्षायां पारम्परिकविषयाणां परीक्षासु संस्कृतभाषा प्रयुज्यते। 
  • पाठ्यक्रमे ये भाषासम्बन्धिनः विषयाः सन्ति, तेषां परीक्षा तया भाषया एव भवति।
  • शास्त्रिशिक्षाशास्त्रिसदृश-आधुनिकपाठ्यक्रमेऽपि अध्ययनाध्यापनं प्रश्नपत्रनिर्माणमुत्तरलेखनञ्चेति संस्कृतमाध्यमेनैव भवति।

अतः छात्राणां संस्कृतभाषायाः समुचितोन्नत्यै अपि संस्कृतमाध्यममनुसरति।

 

File DescriptionDocument
Upload any additional information (अतिरिक्ताः सूचनाः) View Document
Upload a few answer papers of some programs written in Sanskrit. (संस्कृतमाध्यमेन लिखितोत्तराणां केषाञ्चित् पाठ्यक्रमाणां कानिचित् उत्तरपत्राणि।) View Document
Provide link for Additional Information (अतिरिक्तसूचनानां सन्धानम्) View Document

2.6.1 Programme outcomes, Programme specific outcomes and course outcomes for all Programmes offered by the institution are stated and displayed on website and communicated to teachers and students.संस्थाद्वारा परिचालितानां सर्वेषां पाठ्यक्रमाणां परिणामाः, पाठ्यक्रमाणां विशिष्टपरिणामाः,पाठ्यपत्राणां परिणामाः च संस्थाजालस्थाने निर्दिश्यन्ते, प्रदर्श्यन्ते च, छात्राणां शिक्षकाणां च कृते प्रेष्यन्ते।

Answer:

अस्मिन् विश्वविद्यालये सञ्चाल्यमानानां सर्वेषां कार्यक्रमाणां परिणामाः राष्ट्रिय-अध्यापक-शिक्षा-परिषत् (NCTE), विश्वविद्यालय-अनुदान आयोगः (UGC), मध्यप्रदेश-सर्वकारः इत्यादिसंस्थानां मार्गदर्शनानुसारं नियमानुगुणं च निर्धार्यन्ते। एते कार्यक्रमपरिणामाः, कार्यक्रमविशिष्टपरिणामाः, पाठ्यक्रमपरिणामाः च वैश्विकस्तरीयाः भवेयुः अथ च नियोक्तृणाम् अभियाचनानुसारं भवेयुः एतद्विषये महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः  अधोलिखितां प्रक्रियाम् अनुसरति।

  1. विश्वविद्यालयस्य अभ्यासक्रमसमितिद्वारा पाठ्यक्रमनिर्माणसमये तत्तत्कार्यक्रमस्य परिणामविषये, विशिष्टपरिणामविषये, पाठ्यक्रमपरिणामविषये च विशदं चिन्तनं क्रियते। सामान्यतया पाठ्यक्रमस्य परिणामः तत्तत्कार्यक्रमस्य परिणामस्य तथा च तत्तत्कार्यक्रमविशिष्टस्य परिणामस्य आधारेण निश्चीयते। अतः कार्यक्रमपरिणामस्य निर्माणानन्तरं कार्यक्रमविशिष्ट परिणामः, पाठ्यक्रम परिणामः च निर्धार्यते।
  1. एतेषु कार्यक्रमेषु प्रत्येक कार्यक्रमस्य उद्देश्यानि, विषयाङ्गानि, अन्वित्याधारेण विभाजनम्, पाठ्यपुस्तकस्य नाम, सन्दर्भपुस्तकानां नामानि, व्याख्यानस्य रूपरेखा, मूल्याङ्कनविधिः इत्यादिविषयाणां समावेशः भवति। प्रत्येक सङ्कायस्य प्राध्यापका विषयविशेषज्ञाः च स्वकीयविषयसम्बद्धस्य कार्यक्रमस्य स्वरूपं निर्माय अभ्यासक्रमसमितौ प्रस्तुवन्ति, अभ्यासक्रमसमितेः सदस्याः तत्तद्विषयाणां विशेषज्ञाः भवन्ति। ते एतेषां सर्वेषां परिणामानां विषये चिन्तनं कुर्वन्ति।
  2. अभ्यासक्रमसमितिद्वारा यथासमयम् उपविश्य कार्यक्रमपरिणामेषु नावीन्यं सम्पाद्यते। ततः परं कार्यक्रमाणां परिणामाः, कार्यक्रमाणां विशिष्टपरिणामाः, पाठ्यक्रमाणां च परिणामाः विश्वविद्यालयस्य तत्तत्सङ्कायेषु प्रस्तूयन्ते, तत्र एतेषाम् अनुमोदनानन्तरं विश्वविद्यालयस्य विद्यारिषदि, कार्यपरिषदि च प्रस्तुत्य अनुमतिः स्वीक्रियते। ततः प्राप्तायाम् अनुमत्यां सत्याम् इमे परिणामाः विश्वविद्यालयस्य जालपुटे, अध्यापकेषु, विद्यार्थिषु च प्रदर्शनपुरस्सरं सम्प्रेष्यन्ते।

कार्यक्रमविशिष्टपरिणामानांपाठ्यक्रमापरिणामानां च कार्यक्रमपरिणामानांसम्प्रेषणकार्यतन्त्रस्य विवरणम्

1. कार्यक्रमेषु तत्परिणामेषु च कालानुगुणं नावीन्यं सम्पादनार्थम् अभ्यासक्रमसमितिसदस्याः सङ्कायप्राध्यापकैः प्रस्तुतस्य कार्यक्रम-परिणामस्य अवलोकनं विधाय कार्यक्रम-परिणामम् अनुमन्यते। ततः अयं कार्यक्रम-परिणामः विश्वविद्यालयस्य विद्यापरिषदि (Academic Council), कार्यपरिषदि (Executive Council) च अनुमोदनार्थं प्रस्तुतः क्रियते । ततः अनुमोदनानन्तरं कार्यक्रम-परिणामः सर्वेषां प्राध्यापकानां कृते, विश्वविद्यालयसंलग्नमहाविद्यालयानां कृते च प्रेष्यते। यस्य आधारेण सर्वत्र अध्यापनं भवति।

2. एतेषां कार्यक्रमपरिणामानां, कार्यक्रमविशिष्टपरिणामानां, पाठ्यक्रमपरिणामानां च उद्योजनं विश्वविद्यालयस्य अन्तर्जालेऽपि क्रियते। ततः छात्राः, अध्यापकाः, लाभग्राहिणः च एतान् परिणामान् ज्ञातुं शक्नुवन्ति ।

3. नूतनसत्रस्य आरम्भे विश्वविद्यालये प्रचालितानां कार्यक्रमाणां परिचयात्मिका एका गोष्ठी आयोज्यते यत्र सर्वेऽपि छात्राः, अध्यापकाः च भागं गृह्णन्ति। अस्यां गोष्ठ्यां शास्त्री, आचार्य, इत्यादीनां कार्यक्रमाणां कार्यक्रमविशिष्टानां च परिचयः प्रदीयते। अपि च अत्रैव अमीषां कार्यक्रमपरिणामानां, कार्यक्रमविशिष्टपरिणामानां च विषयेऽपि छात्राः अध्यापकाश्च सूच्यन्ते ।

4. कार्यक्रमपरिणामविषये तत्तत्सङ्कायस्य अध्यक्षाः गोष्ठ्यां स्वसङ्कायान्तर्गतान् अध्यापकान् एतद्विषये बोधयन्ति। ततः परं तत्तत्सङ्कायस्य प्राध्यापकैः अस्य कार्यक्रमस्य उद्देश्यानि, विषयाङ्गानि परिणामाः च छात्राणां कृते कक्ष्यासु नूतनसत्रारम्भे बोध्यन्ते।

6. अस्य विश्वविद्यालयस्य एतेषां आन्तरिकगुणवत्ताऽऽश्वासनकेन्द्रमपि कार्यक्रमपरिणामानां, कार्यक्रमविशिष्टपरिणामानां, पाठ्यक्रमापरिणामानां च विषये चर्चा करोति ।

7. इमे कार्यक्रमाणां परिणामाः, कार्यक्रमाणां विशिष्टपरिणामाः, पाठ्यक्रमाणां परिणामाः च विश्वविद्यालयस्य परीक्षाविभागेन अपि अन्तर्जालमाध्यमेन सर्वेषां लाभग्राहिणां कृते सम्प्रेष्यन्ते । इत्थं कार्यक्रमस्य स्वरूपं, तस्य निर्माणं, मूल्याङ्कनप्रक्रिया, स्वाध्यायकार्य, आन्तरिकपरीक्षा इत्यादिविषयाणां विश्वविद्यालयेन सम्प्रेषणं क्रियते ।

विश्वविद्यालयस्य सर्वेषां कार्यक्रमाणां P.O. (पाठ्यक्रमपरिणामाः) P.S.O. (कार्यक्रमाणां विशिष्टपरिणामाः ) पाठ्यक्रमाणां परिणामाः http://www.mpsvv.ac.in/ इति वेबसाईटमध्ये  प्रदर्शिताः ।

 

File DescriptionDocument
Upload POs, PSOs, COs for all courses सर्वेषां पाठ्यक्रमाणां परिणामाः पाठ्यक्रमाणां विशिष्टपरिणामाः, पाठ्यपत्राणां परिणामाः च संस्थाजालस्थाने उपारोपणीयाः। View Document
Upload a description of Mechanism of Communication सम्प्रेषणकार्यतन्त्रस्य विवरणम् उपारोपणीयम्। View Document
Provide the URL जालस्थानसन्धानं निर्दिशन्तु View Document

 

2.6.2 Attainment of Programme outcomes, Programme specific outcomes and course outcomes are evaluated by the institutionएतेषां सर्वेषां पाठ्यक्रमपरिणामानां, पाठ्यक्रमविशिष्टपरिणामानां, पाठ्यपत्रपरिणामानां निष्पत्तीनां च मूल्याङ्कनं संस्था करोति।

Answer:

महर्षिपाणिनिसंस्कतवैदिकविश्वविद्यालयस्य  पाठ्यक्रमाः भारतीयज्ञानपरम्पराश्रिताः वर्तन्ते। भारतीयपरम्परा, संस्कृतिः, वेदेषु शास्त्रेषु च निहिताः विचारधाराः इत्येते बिन्दवः पाठ्यक्रमेषु प्रतिबिम्बिताः भवन्ति। पाठ्यक्रमाणां निर्माणम्, निष्पत्तिः, परिणामानां मूल्याङ्कनम्, निष्पत्तेः मूल्याङ्कनम्, मापनम् इतीमानि चाक्रिककार्याणि यथाकालं क्रियन्ते।

  • महर्षिपाणिनिसंस्कतवैदिकविश्वविद्यालयः सर्वेषां कार्यक्रमविशिष्टपरिणामानां, पाठ्यक्रमपरिणामानां च निष्पत्तीनां मूल्याङ्कनं करोति। तदर्थं विश्वविद्यालये निष्पत्तिमापनस्य विश्वसनीया मापनपद्धतिः वर्तते। विश्वविद्यालयस्य संस्थागतसंस्कृतिः शैक्षणिकक्षेत्रेषु छात्राणां सर्वोत्तमप्रदर्शनार्थं निरन्तरं प्रयासरता वर्तते।
  • अस्य विश्वविद्यालयस्य सर्वेऽपि कार्यक्रमाः, विशिष्टाश्च कार्यक्रमाः “संस्कृतं नाम दैवी वाक्” इति विश्वविद्यालयस्य ध्येयवाक्यम् अभिमुखीकृत्य छात्राणां समग्रविकासार्थं निर्धारिताः सन्ति। अतः विद्यार्थिनां दैनन्दिनव्यवहारेण, विभिन्नप्रतियोगितासु प्रदर्शनमाध्यमेन, परीक्षायां प्राप्ताङ्क‌माध्यमेन च एतेषां परिणामानां निष्पत्तीनां च मापनं विश्वविद्यालयेन क्रियते।
  • एतेषां कार्यक्रमाणां परिणामस्य आधारेण सत्रान्तपरीक्षायाः अनन्तरं विद्यार्थिनां कृते विश्वविद्यालयेन उपाधिः प्रदीयते। एतस्याः परीक्षायाः आधारेण एतत् सुनिश्चितं क्रियते यत् विभिन्नकार्यक्रमाणां, कार्यक्रमविशिष्टानां, पाठ्यक्रमपत्राणां च परिणामाः छात्रैः कियता परिमाणेन प्राप्ताः सन्ति। परीक्षायाः एतन्महत्त्वाधारेण विश्वविद्यालये एका समीचीना परीक्षाप्रक्रिया अस्ति। यत्र विश्वसनीया परीक्षापद्धतिः, विश्वसनीया मूल्याङ्कनप्रणाली, यथासमयं परीक्षापरिणामस्य उद्घोषणा इत्यादिकम् अस्याः उद्देश्यानि सन्ति। अयं विश्वविद्यालयः एतानि उद्देश्यानि पूरयितुं सर्वविधां व्यवस्थां करोति।
  • प्रत्येकं वर्षे सततमूल्याङ्कनमाध्यमेन सङ्कायगोष्ठीमाध्यमेन च कार्यक्रमाणां मूल्याङ्कनं विधीयते।
  • कार्यक्रमविशिष्टस्य परिणामस्य मूल्याङ्कनं प्रत्येकस्मिन् सत्रे क्रियते। तथैव पाठ्यक्रमस्य मूल्याङ्कनमपि प्रत्येकं सत्रस्य अन्ते क्रियते ।
  • पाठ्यपत्रस्य परिणामनिष्पत्तेः मूल्याङ्कनं सततरूपेण आन्तरिकमूल्याङ्कनमाध्यमेन तत्तद्विभागस्य अध्यापकाः कुर्वन्ति।
  • कार्यक्रमस्य विशिष्टपरिणामनिष्पत्तेः मूल्याङ्कनं तत्तद्विभागस्य अध्यक्षाः कुर्वन्ति। तथा च कार्यक्रमाणां परिणामनिष्पत्तेः मूल्याङ्कनं कुलपतिः, विद्यापरिषदः सदस्याः, कार्यपरिषदः सदस्याः च कुर्वन्ति ।

पाठ्यक्रमपरिणामनिष्पत्तीनां फलोदयः-

  • शैक्षिकवर्षम् 2018 आरभ्य अस्य विश्वविद्यालयस्य त्रिंशत्यधिकाः छात्राः विश्वविद्यालय- अनुदान-आयोगस्य राष्ट्रियपात्रतापरीक्षां, कनिष्ठ-शोधाध्येतृवृत्तिं, राज्यपात्रतापरीक्षां च उत्तीर्णवन्तः। तत्र त्रयः छात्राः कनिष्ठ-शोध-अध्येतृवृत्तिं (Junior research Fellowship), द्वे छात्रे राष्ट्रिय-जनजातीय-शोधवृत्तिं (National Tribal Fellowship), त्रयः छात्राः मध्यप्रदेशसर्वकारस्य शोधवृत्तिं (Scheme Of Developing High quality research) प्राप्तवन्तः ।
  • अस्य विश्वविद्यालयस्य बहवः छात्राः केन्द्रीयसंस्कृतविश्वविद्यालयेन तथा अन्यैः विश्वविद्यालयैः प्रायोजितायां राज्यस्तरीय-शास्त्रीयस्पर्धायां, विभिन्नसंस्थाभिः आयोजितासु प्रतियोगितासु भागं गृहीत्वा भाषण-शलाका-काव्यरचना-स्फूर्तिस्पर्धादिषु स्वर्णादिपुरस्कारैः सभाजिताः भवन्ति ।

परिणामस्य निष्पत्तेः मापनार्थं छात्राणां सततरूपेण आन्तरिकमूल्याङ्कनम् -

  • सर्वेषां परिणामानां मूल्याङ्कनं कर्तुं विश्वविद्यालयः छात्राणां सततरूपेण आन्तरिकं मूल्याङ्कनं करोति। प्रत्येकं पाठ्यक्रमस्य आन्तरिकमूल्याङ्कने विश्वविद्यायलेन सम्पूर्णरूपेण पारदर्शिता परिपाल्यते। यत्र उपस्थितेः आधारेण प्रदत्तस्वाध्यायकार्यस्य आधारेण, लिखितपरीक्षायाः आधारेण च अङ्काः प्रदीयन्ते ।
  • कार्यक्रमस्य परिणामनिष्पत्तेः मूल्याङ्कनाय प्रतिपुष्टिप्रणाली विद्यते, यत्र विश्वविद्यालयः संरचित-प्रतिपुष्टिप्रणाल्या छात्रेभ्यः, अध्यापकेभ्यः, वृत्तिदातृभ्यः, पूर्वच्छात्रेभ्यः, अभिभावकेभ्यश्च प्रतिपुष्टिं स्वीकृत्य समीक्षां करोति। प्रतिपुष्टिं प्राप्य छात्राणां स्वस्थमानसिकतानिर्माणम्, सेवा-त्याग-राष्ट्रभावनायाः निर्माणम्, विविधप्रान्तेभ्यः आगतानां छात्राणां भाषाकौशलविकासाय च  अयं विश्वविद्यालयः सततरूपेण प्रयासरतोऽस्ति ।
  • एतेषां परिणामानां प्राप्तौ बाधकतत्त्वानि अभिज्ञाय विश्वविद्यालयेन तेषां निराकरणार्थं विभिन्नाः शैक्षणिकाः उपक्रमाः आयोज्यन्ते। तद्यथा मन्दाधिगन्तृणां छात्राणां कृते अतिरिक्ताः वर्गाः, वैयक्तिकं मार्गदर्शनम्, पूरकपरीक्षायाः अवसरः इत्यादीनि। अग्रेसराधिगन्तारः छात्राः कार्यक्रमस्य परिणामाधारेण अभिज्ञायन्ते, ततः तेषां संवर्धनगतिविधीनां माध्यमेन सम्पोषणं क्रियते येन एते छात्राः योग्याः नागरिकाः भवेयुः।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Provide link for Additional Information अतिरिक्तसूचनानां सन्धानम् View Document

 

2.6.3 Average pass percentage of studentsछात्राणाम् उत्तीर्णताप्रतिशततायाः मध्यमानम्

Answer: 98.64

2.6.3.1 Total number of final year students who passed the university examinationsविश्वविद्यालयस्य परीक्षासु उत्तीर्णानाम् अन्तिमवर्षीयाणां छात्राणां सङ्ख्या

Answer: 145

2.6.3.2 Total number of final year students who appeared for the examinationsअन्तिमवर्षपरीक्षासु सम्मिलितानां छात्राणां योगः

Answer: 147

File DescriptionDocument
Upload list of Programmes and number of students passed and appeared in the final year examination (Data Template) पाठ्यक्रमसूची, परीक्षायाम् उत्तीर्णानां छात्राणां सङ्ख्या, आन्तिमवर्षपरीक्षायां सम्मिलितानां छात्राणां योगः च उपारोपणीयाः(दत्तांशप्रारूपम्) View Document
Upload any additional information अतिरिक्ताः सूचनाः उपारोपणीयाः View Document
Provide link for the annual report वार्षिकप्रतिवेदनस्य सन्धानम्। View Document

 

2.6.4 The Institution has mechanism to evaluate the performance of students through the vakyartha/ shastrartha-Sabhas, Shalaka-Pareeksha, Shastra-Pareeksha (Oral), Shastra-spardha, Writing Sanskrit-Slokas/ Padya/ Poetry etc.संस्था वाक्यार्थ/शास्त्रार्थसभा-शलाकापरीक्षा-शास्त्रपरीक्षा(मौखिकं)-शास्त्रस्पर्धा-संस्कृतश्लोक-पद्य-काव्यादिभिः छात्राणां प्रस्तुतेः मूल्याङ्कनार्थं किमपि कार्यतन्त्रमनुसरति।

Answer:

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयेन छात्राणां प्रदर्शनस्य मूल्यांकनाय विविधाः पद्धतयः उपयुज्यन्ते। यथा- वाक्यार्थ-सभा, शास्त्रार्थसभा, शलाकापरीक्षा, शास्त्रपरीक्षा, शास्त्रस्पर्धा, संस्कृतपद्यरचना, वाग्वर्धिनीपरिषदि छात्राणां विषयप्रस्तुतिः इत्यादिभिः पद्धतिभिः छात्राणां प्रस्तुतेः मूल्याङ्कनार्थं कार्यतन्त्रमनुसरति।

वाक्यार्थ-सभा/ शास्त्रार्थसभा-

  • महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः  छात्राणां संस्कृतभाषया वक्तृत्वकलायाः प्रदर्शनस्य मूल्यांकनाय, संस्कृतभाषया प्रस्तुतिकलायाः प्रदर्शनस्य मूल्यांकनाय, छात्राणाम् आत्मविश्वासस्य मूल्यांकनं कर्तुं, छात्राणाम् प्रतिभाप्रदर्शनस्य मूल्यांकनं कर्तुं वाग्वर्धिनी- सभाम् आयोजयति। यत्र सर्वेऽपि छात्राः छात्र्यश्च स्वकीयं शास्त्रीयं वक्तव्यं प्रस्तुवन्ति । अत्र सभासञ्चालनादिकस्य दायित्वमपि छात्राः एव सञ्चालयन्ति, येन छात्रेषु नेतृत्वगुणो विकसति। अत्र परिषदि मूल्याङ्कनपद्धतेः भाषा-शुद्धिः, विषय-वस्तु विषय- प्रस्तुतिश्चेत्यादीनि मूलभूतानि तत्त्वानि सन्ति ।

संस्कृतपद्यरचना-

  • विश्वविद्यालयेऽस्मिन् भाषण-छन्दोरचनादिक्षेत्रेषु अपि तत्तन्नियमानुगुणं मूल्याङ्कनं क्रियते । अस्मिन् छात्राः विविधानां संस्कृतकवीनां काव्यपाठं श्रुत्वा पद्यनिर्माणे निपुणाः भवन्ति।
  • इतः परं छात्राणां प्रदर्शनस्य मूल्यांकनाय अत्र विश्वविद्यालये प्रतिवर्षं श्रावणीपूर्णिमायां संस्कृत-सप्ताहोत्सवे विविधाभिः स्पर्धाभिः छात्राणां विविधक्षेत्रेषु सुषुप्तावस्थायां स्थितप्रतिभायाः जाग्रतिः। आभिः स्पर्धाभिः विश्वविद्यालयस्यास्य छात्राणां क्षमताप्रदर्शनस्य मूल्यांकनं निम्नलिखितरूपेण भवति।

क्र.

स्पर्धानाम

छात्राणां कौशलप्रदर्शनस्य मूल्याङ्कनम्

01

स्तोत्रकण्ठपाठस्पर्धा

उच्चारणस्य गानस्य च

02

समूहगानस्पर्धा

सहभावस्य समूहे गानाभ्यासस्य कण्ठस्थीकरणस्य च

03

वक्तृत्वस्पर्धा

निर्भयतायाः वक्तृत्वकलायाः विषयज्ञानस्य विषयसमर्थनस्य च

04

समस्यापूर्तिः

समस्यायाः समाधानस्य वाक्पटुताचिन्तनशक्तेः,

05

निबन्धलेखनस्पर्धाः

वषयज्ञानम्, भाषाशुद्धिः, समाजज्ञानम्, लेखनकौशलस्य

06

कथाकथनस्पर्धा

विषयोपस्थानस्य, कल्पनाशक्तेः

07

रङ्गवल्लीस्पर्धा

चित्रकलायाः प्रदर्शनक्षमतायाश्च

08

आशुभाषणम्

झटिति कार्यसम्पादनस्य, चिन्तनशक्तेः विषयज्ञानस्य च

  • संस्कृतसप्ताहोऽयं विश्वविद्यालयेषु पठितानां समेषां संस्कृतच्छात्राणां कृते आयोज्यते।
  • छात्राः यथासमयं विविधासु शैक्षणिक-शास्त्रीय-स्पर्धासु भागग्रहणाय केन्द्रीयसंस्कृतविश्वविद्यालयं प्रति तथा आन्ध्र-प्रदेशस्य तिरुपतिस्थं राष्ट्रीय-संस्कृतविश्वविद्यालयं च गच्छन्ति, पदकानि च प्राप्नुवन्ति । अतः आसु स्पर्धासु भागग्रहणद्वारा छात्राणां शास्त्रीयज्ञानस्य, आशुस्पर्धासु (क्विज्) भागग्रहणद्वारा प्रत्युत्पन्नमतेः क्षमतायाः मूल्याङ्कनं भवति।
  • प्रतिवर्षं युवमहोत्सवे विश्वविद्यालयस्य तथा च तत्सम्बद्धमहाविद्यालयानां छात्राः छात्र्यश्च शैक्षिक-चित्र-सांस्कृतिक-क्रीडादिस्पर्धासु भागं गृह्णन्ति। अन्ययुवमहोत्सव इव अस्मिन्नपि युवमहोत्सवे रङ्गवल्ली, एककसंस्कृतगीतम्, एककशास्त्रीयगानम्, एककशास्त्रीयवादनम्, एककशास्त्रीयनृत्यम्, सङ्घनृत्यम्, एकपात्राभिनयः, संस्कृतसुभाषितकण्ठपाठः, वादविवादस्पर्धा, स्फूर्तिस्पर्धा, साहित्यरचना, आशुभाषणम्, आशुचित्रणम्, व्यङ्गचित्रम्, योगासनम्, धावनम्, कबड्डी, दीर्घकूर्दनम्, उच्चैकूर्दनम्, चतुरङ्गम्, क्षेपणम्, हस्तकन्दुकम्, इत्यादिस्पर्धाः आयोज्यन्ते। आसु स्पर्धासु सर्वेऽपि स्पर्धकाः स्वकौशलं प्रदर्श्य प्रथमादिस्थानं प्राप्नुवन्ति। अस्य युवमहोत्सवस्य उद्‌घाटनसत्रायोजनद्वारा उद्घाटनं तथा समापनसत्रायोजनद्वारा समापनं भवति। उद्घाटनसमापनसत्रयोः विशिष्टाः अतिथयः आहूयन्ते। विजेतॄणां कृते प्रमाणपत्राणां पदकानाञ्च व्यवस्था क्रियते। युवमहोत्सवे आयोजितासु स्पर्धासु सर्वाधिकान् अङ्कान् सम्प्राप्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये उपर्युक्तस्पर्धासु भागग्रहणेन तत्तत्स्पर्धासम्बन्धिक्षमताप्रदर्शनस्य मूल्याकनं भवति।

 

File DescriptionDocument
Upload any additional information अतिरिक्ताः सूचनाः View Document
Provide link for Additional Information अतिरिक्तसूचनानां सन्धानम् View Document

2.7.1 Online student satisfaction survey regarding teaching learning process.अध्यापन-अधिगमयोः प्रक्रियाविषये अधितन्त्रि छात्रसन्तुष्टेः सर्वेक्षणम्।

Answer: 3.91

7.1.2

7.1.4

7.1.5

7.1.6

7.1.17

7.1.18

7.2.1

7.3.1

5.1.6

5.2.4

5.3.2

5.3.4

5.4.1